Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 773
________________ संस्कृत-पंचसंग्रहे भागाभागस्तथोत्कृष्टाद्याः स्वामित्वमेव च । दश प्रदेशबन्धे स्युर्भागाभागोऽत्र चास्थ्ययम् ॥ ३०५ ॥ एकात्मपरिणामेन गृह्यमाणा हि पुद्गलाः । अष्टकर्मत्वमायान्ति प्रभुक्तान्नरसादिवत् ||३०६॥ एकक्षेत्रावगाढांस्तान् कर्मान् सर्वदेशगान् । यथोक्तहेतून् बध्नाति जीवः सादीननादिकान् ॥३०७॥ वर्णगन्धरसैः सर्वैश्चतुःस्पर्शेश्च तद्युतम् । स्यात्सिद्धानामनन्तांशः कर्मानन्तप्रदेशकम् ॥ ३०८ ॥ अत्र शीतोष्ण- स्निग्धरूक्षाश्चत्वारः स्पर्शाः ४ | ७०६ असंख्यातांशमावल्याः अपनीय ततोऽपरम् । अष्टकर्मसु तुल्यांशं दत्वाऽन्यद्विभजेदिति ॥ ३०६ ॥ बघ्नतोऽष्टविधं कर्मैकैकस्मिन् समयेऽत्र ये । प्रदेशबन्ध मायान्ति तेषामेतद्विभञ्जनम् ॥३१० ॥ भागोऽल्पोऽत्रायुषस्तुल्यो गोत्र- नाम्नोस्ततोऽधिकः । तुल्यो वरणविघ्नेष्वधिकोऽतोऽतोऽधिमोहने ॥ ३११॥ सर्वोपरिभागो हि वेदनीयेऽधिको मतः । सुख-दुःखनिमित्तत्वाच्छेषाणां स्थित्यपेक्षया ॥ ३१२ ॥ अनुत्कृष्टः प्रदेशाख्यः पण्णां बन्धश्चतुर्विधः । साद्यभुवास्त्रयः शेषाः सर्वे मोहायुपोर्द्विधा ॥ ३०३ ॥ ज्ञानावृद्विघ्नगाः सर्वाः स्त्यानगृद्धित्रयं विना । दृग्रोधे पट् जुगुप्सा भीः कषायाः द्वादशान्तिमाः ॥ ३१४ ॥ अनुत्कृष्टाश्चतुर्घाssसां त्रयोऽन्ये सादयोऽध्रुवाः । शेषाणां सादयः सन्ति चत्वारोऽप्यध्रुवास्तथा ॥३१५॥ ३० १६० ॥ मिश्रं विनाऽऽयुषो बन्धः षट् सूस्कृष्टप्रदेशतः । गुणस्थानेषु चोत्कृष्टो मोहस्य स्यान्नवस्वसौ ॥ ३६६॥ भायुर्मोहनवर्जानां षण्णां स्यात्कर्मणां स तु । समुत्कृष्टेन योगेन स्थाने सूक्ष्मकषायके || ३१७ ।। सप्तानां कर्मणां बन्धो जघन्योऽधमयोगिनः । सूक्ष्मापूर्ण निगोतस्य (?) आयुर्बन्धे तथाऽऽयुषः || ३६८ ।। सूचमे सप्तदशानां हि पञ्चानामनिवृत्तिके । सम्यग्दृष्टौ नदानां तु स्यादुत्कृष्ट प्रदेशता ||३१६॥ १७/५/६। पञ्च पञ्च चतत्नश्च ज्ञाने विध्नेऽथ युधि । सातमुच्चं यशः सप्तदश सूक्ष्मे निवृत्तिके ॥ ३२० ॥ १७। पुंस्त्वं संज्वलनाः पञ्च हास्याद्याः षट् च तीर्थकृत् । निद्रा च प्रचला चैवं सम्यग्दृष्टौ हि मानवे ।। ३२१|| ५|| द्वितीयस्य चतुष्कस्य कोपादीनामसंयते । तृतीयस्यापि देशाख्ये प्रदेशोत्कृष्टता भवेत् ॥ ३२२ ॥ ४|४| देवद्विकमथाऽऽदेयं सुभगं नृ-सुरायुषी । आद्ये संहति-संस्थाने सुस्वरं सन्नभोगतिः ॥ ३२३॥ असतं विक्रियद्वन्द्वमिति याः स्युखयोदश । मिथ्यादृष्टौ च सद्द्दष्टौ तासामुत्कृष्टदेशता ।।३२४।। १३ । आहारकद्वयस्याथ प्रमादरहितो यतिः । शेषाणां तु स मिथ्यात्वः प्रदेशोत्कर्षणक्षमः ॥ ३२५॥ ६६॥ संज्ञी पर्याप्त उत्कृष्टयोगः स्तोकाः समर्जयन् । कुर्यात्प्रदेशमुत्कृष्टं विपरीतो जघन्यकम् ॥३२६॥ श्वभ्र-देवायुषी श्वभ्रद्वयमेतच्चतुष्टयम् । विवर्त्तमानयोगस्त्वसंज्ञी वाऽऽहारकद्वयम् ॥ ३२७॥ अप्रमत्तो यतिः पञ्च तीर्थं सुरचतुष्टयम् | नये सूचमनिगोतस्तु शेषाः स्वल्पप्रदेशताम् ॥३२८॥ अन्नासंज्ञी ४ । अप्रमत्तः २ । असंयतः ५ । निगोतः शेषाः १०६ । प्रदेश-प्रकृती बन्धौ योगात् स्थित्यनुभागकौ । कपायात्कुरुते जन्तु तौ यत्र न तत्र ते ॥ ३२ ॥ प्रकृतिः स्यात्स्वभावोऽत्र स्वभावादच्युतिः स्थितिः । तद्वसोऽप्यनुभागः स्यात्प्रदेशः स्यादियत्वगः ॥३३०॥ प्रकृतिस्तिक्तता निम्ब्रे तत्स्वभावाच्युतिः स्थितिः । तद्वसोऽप्यनुभागः स्यादित्येवं कर्मणामपि ॥ ३३१ ॥ १. जघन्ययोगस्य । २. मध्ययोगव्यवस्थितः । ३. इयत्प्रमाणं इयत् - आत्मप्रदेशप्रमाणमित्यर्थः । तस्य भाव इयत्त्वम्, तद्गच्छतीति इयत्वगः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872