________________
संस्कृत-पंचसंग्रहे
भागाभागस्तथोत्कृष्टाद्याः स्वामित्वमेव च । दश प्रदेशबन्धे स्युर्भागाभागोऽत्र चास्थ्ययम् ॥ ३०५ ॥ एकात्मपरिणामेन गृह्यमाणा हि पुद्गलाः । अष्टकर्मत्वमायान्ति प्रभुक्तान्नरसादिवत् ||३०६॥ एकक्षेत्रावगाढांस्तान् कर्मान् सर्वदेशगान् । यथोक्तहेतून् बध्नाति जीवः सादीननादिकान् ॥३०७॥ वर्णगन्धरसैः सर्वैश्चतुःस्पर्शेश्च तद्युतम् । स्यात्सिद्धानामनन्तांशः कर्मानन्तप्रदेशकम् ॥ ३०८ ॥ अत्र शीतोष्ण- स्निग्धरूक्षाश्चत्वारः स्पर्शाः ४ |
७०६
असंख्यातांशमावल्याः अपनीय ततोऽपरम् । अष्टकर्मसु तुल्यांशं दत्वाऽन्यद्विभजेदिति ॥ ३०६ ॥ बघ्नतोऽष्टविधं कर्मैकैकस्मिन् समयेऽत्र ये । प्रदेशबन्ध मायान्ति तेषामेतद्विभञ्जनम् ॥३१० ॥ भागोऽल्पोऽत्रायुषस्तुल्यो गोत्र- नाम्नोस्ततोऽधिकः । तुल्यो वरणविघ्नेष्वधिकोऽतोऽतोऽधिमोहने ॥ ३११॥ सर्वोपरिभागो हि वेदनीयेऽधिको मतः । सुख-दुःखनिमित्तत्वाच्छेषाणां स्थित्यपेक्षया ॥ ३१२ ॥ अनुत्कृष्टः प्रदेशाख्यः पण्णां बन्धश्चतुर्विधः । साद्यभुवास्त्रयः शेषाः सर्वे मोहायुपोर्द्विधा ॥ ३०३ ॥ ज्ञानावृद्विघ्नगाः सर्वाः स्त्यानगृद्धित्रयं विना । दृग्रोधे पट् जुगुप्सा भीः कषायाः द्वादशान्तिमाः ॥ ३१४ ॥ अनुत्कृष्टाश्चतुर्घाssसां त्रयोऽन्ये सादयोऽध्रुवाः । शेषाणां सादयः सन्ति चत्वारोऽप्यध्रुवास्तथा ॥३१५॥
३० १६० ॥
मिश्रं विनाऽऽयुषो बन्धः षट् सूस्कृष्टप्रदेशतः । गुणस्थानेषु चोत्कृष्टो मोहस्य स्यान्नवस्वसौ ॥ ३६६॥ भायुर्मोहनवर्जानां षण्णां स्यात्कर्मणां स तु । समुत्कृष्टेन योगेन स्थाने सूक्ष्मकषायके || ३१७ ।। सप्तानां कर्मणां बन्धो जघन्योऽधमयोगिनः । सूक्ष्मापूर्ण निगोतस्य (?) आयुर्बन्धे तथाऽऽयुषः || ३६८ ।। सूचमे सप्तदशानां हि पञ्चानामनिवृत्तिके । सम्यग्दृष्टौ नदानां तु स्यादुत्कृष्ट प्रदेशता ||३१६॥
१७/५/६।
पञ्च पञ्च चतत्नश्च ज्ञाने विध्नेऽथ युधि । सातमुच्चं यशः सप्तदश सूक्ष्मे निवृत्तिके ॥ ३२० ॥
१७।
पुंस्त्वं संज्वलनाः पञ्च हास्याद्याः षट् च तीर्थकृत् । निद्रा च प्रचला चैवं सम्यग्दृष्टौ हि मानवे ।। ३२१||
५||
द्वितीयस्य चतुष्कस्य कोपादीनामसंयते । तृतीयस्यापि देशाख्ये प्रदेशोत्कृष्टता भवेत् ॥ ३२२ ॥
४|४|
देवद्विकमथाऽऽदेयं सुभगं नृ-सुरायुषी । आद्ये संहति-संस्थाने सुस्वरं सन्नभोगतिः ॥ ३२३॥ असतं विक्रियद्वन्द्वमिति याः स्युखयोदश । मिथ्यादृष्टौ च सद्द्दष्टौ तासामुत्कृष्टदेशता ।।३२४।।
१३ ।
आहारकद्वयस्याथ प्रमादरहितो यतिः । शेषाणां तु स मिथ्यात्वः प्रदेशोत्कर्षणक्षमः ॥ ३२५॥
६६॥
संज्ञी पर्याप्त उत्कृष्टयोगः स्तोकाः समर्जयन् । कुर्यात्प्रदेशमुत्कृष्टं विपरीतो जघन्यकम् ॥३२६॥ श्वभ्र-देवायुषी श्वभ्रद्वयमेतच्चतुष्टयम् । विवर्त्तमानयोगस्त्वसंज्ञी वाऽऽहारकद्वयम् ॥ ३२७॥ अप्रमत्तो यतिः पञ्च तीर्थं सुरचतुष्टयम् | नये सूचमनिगोतस्तु शेषाः स्वल्पप्रदेशताम् ॥३२८॥ अन्नासंज्ञी ४ । अप्रमत्तः २ । असंयतः ५ । निगोतः शेषाः १०६ ।
प्रदेश-प्रकृती बन्धौ योगात् स्थित्यनुभागकौ । कपायात्कुरुते जन्तु तौ यत्र न तत्र ते ॥ ३२ ॥ प्रकृतिः स्यात्स्वभावोऽत्र स्वभावादच्युतिः स्थितिः । तद्वसोऽप्यनुभागः स्यात्प्रदेशः स्यादियत्वगः ॥३३०॥ प्रकृतिस्तिक्तता निम्ब्रे तत्स्वभावाच्युतिः स्थितिः । तद्वसोऽप्यनुभागः स्यादित्येवं कर्मणामपि ॥ ३३१ ॥
१. जघन्ययोगस्य । २. मध्ययोगव्यवस्थितः । ३. इयत्प्रमाणं इयत् - आत्मप्रदेशप्रमाणमित्यर्थः । तस्य भाव इयत्त्वम्, तद्गच्छतीति इयत्वगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org