________________
७०५
शतकाख्यः चतुर्थः संग्रहः चतुर्विधेन भावेनैताः स्युः परिणताः सदा । शेषास्त्रिविधभावेन सप्तोत्तरशतप्रमाः ॥२६२॥ लतादार्वस्थिपाषाणैः समभावैरिमा मताः । शेषा दार्वस्थिपाषाणैः सप्तोत्तरशतप्रमाः ॥२६३॥
इति चतुर्विधभावाः १०७ । शुभप्रकृतिभावाः स्युगुंडखण्डसितामृतैः । अपरे निम्बकाक्षीरविषहालाहलैः समाः ॥२६४॥
अत्रापरे अशुभप्रकृतिभावाः । चतुर्थात्प्रत्ययात्तातं मिथ्यात्वादपि षोडश । पञ्चाग्रासंयतात्रिंशद्वध्यन्तेऽन्याः कषायतः ॥२५॥ सम्यक्त्वात्तीर्थकृत्त्वं चाहारकं संयमादिमे । प्रधानप्रत्यया यस्मानासां बन्धोऽस्ति तेविना ॥२६६।।
इति प्रधानहेतुनिर्देशः । अपरे त्वेवमाहुः-- मिथ्यात्वेनाथ कोपादिचतुष्कैश्च त्रिभिः क्रमात् । षोडशानां तथा पञ्चविंशतेर्दशकस्य च ॥२६७॥ चतुर्णा योगतो बन्धः स्यात्सातस्य कषायतः। प्रकृतीनां तु शेषाणां तीर्थसाहारकैविना ।।२१८॥
अत्र मिथ्यादृष्टी बन्धव्यवच्छिन्न प्रकृतयः षोडश मिथ्यात्वोदयकारणाः? मिथ्यात्वोदयेन विना तासां बन्धानुपलब्धेः १६ । एवमनन्तानुबन्ध्युदयकारणाः सासने पञ्चविंशतिः २५ । अप्रत्याख्यानोदयकारणाः अविरते दश १०। प्रत्याख्यानोदयनिमित्ता देशनते चतस्रः ४ । योगकारणं सयोगे सातम् १। शेषाः स्वगुणसंस्थानेषु संज्वलनकषायोदयकारणाः । कुतः ? कषायोदयेन सह बन्धोपलब्धेः। ६४ । सम्यक्त्वं तीर्थंकृत्वस्याऽऽहारयुग्मस्य संयमः' बन्धहेतुरिति पूर्वमेवोक्तम् । शरीरपञ्चकं पन्न वर्णाः पञ्च रसास्तथा । संस्थानषट कमष्टौ च स्पर्शाः संहननानि पट् ॥२६॥ अङ्गोपाङ्गत्रिक गन्धी निर्माणोऽगुरुलध्वपि । प्रत्येकस्थिरयुग्मे च परघातः शुभाशुभे ॥३००। उपघातातपोद्योताः केषाञ्चिद्वन्धनान्यपि । संघातैः सह सन्त्येवं द्वाषष्टिः पुद्गलोदयाः ॥३०॥
एताः पुद्गलविपाका: वेदितव्याः । कुतः? एतासां विपाकेन शरीरादीनां निष्पत्तेदर्शनात् । एवं नाम्नि पुद्गलनिबन्धना द्वापञ्चाशत् ५२ । बन्धन-संघातैः सह द्वापष्टिः ६२ । । ज्ञानग्रोधमोहान्तरायोत्था वेद्यगोत्रेजा । गतयो जातयस्तीर्थ कृदुच्छासा नभोगेती ॥३०२॥ प्रससुस्वरपर्याप्तस्थूलादेययुगानि च । यशःसुभेगयुग्मे च जीवपाका इमा मताः ॥३०३॥
७८। तत्र ज्ञान-दर्शनावरणे जीवविपाके। कुतः? जीव एव तयोर्विपाकस्योपलब्धः। मोहनीयमप्यात्मनि निबद्धमवगन्तव्यम् । कुतः ? सम्यक्त्व-चारित्रयोर्जीवगुणयोर्घातकस्वभावत्वात् । अन्तरायमपि जीव. निबद्ध वेदितव्यम् । कुतः? घातिकमत्वात्, दानादीनां च विघ्नकरणे तव्यापारोपलब्धेः । वेदनीयमप्यात्मनिवद्धम् । कुतः ? सातासातविपाकफलयोः सुख-दुखयोर्जीवे समुएलम्भात् । गोत्रमप्यात्मनिबद्धम् । कुतः? उच्च-नीचगोत्रयोर्जीवपर्यायत्वे दर्शनात् । गत्यादयोऽपि सप्तविंशतिर्नामप्रकृतयः भात्मनिबद्धाः। कुतः? एतासां विपाकस्य जीव एवोपलब्धेः । चतस्त्रश्चानुपूर्योऽपि क्षेत्रपाका मताः जिनैः । आयूंऽयपि हि चत्वारि भवपाकानि सन्ति हि ॥३०४॥
तत्र चतस्र आनुपूर्व्यः क्षेत्रनिबद्धाः । कुतः ? प्रतिनियतक्षेत्र एवैतासां फलोपलब्धेः । नरकायुर्नरकभवनिबद्धम् । कुतः? नरकभवधारणशक्तिदर्शनात् । शेषायूंष्यप्यात्मीयात्मीयभवेषु निबद्धानि, तेभ्यस्तेषां भवानामवस्थानोपलब्धेः।
मीलिताः १४८।
इत्यनुभागबन्धः समासः ।
१. योगात् । २. चतुर्णा प्रत्ययानां संयोगात् । ३. अवार्धश्लोकान वाक्यमस्तीति शेयम् ।
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org