________________
७०४
संस्कृत-पंचसंग्रह
हास्यं रतिर्जुगुप्सा भीनिन्धं वर्णचतुष्टयम् । प्रचला चोपघाताश्च निका दश चाष्टमे ॥२७॥
अपूर्ने ११ आहारस्याप्रमत्ताख्यः शोकारत्योः प्रमादवान् ।
२।२।
स्त्यानगृद्धित्रयं मिथ्यात्वं चानन्तानुबन्धिनः ॥२७२॥ मिथ्यादृष्टिद्धितीयांश्च कोपादीनप्यसंयतः। तृतीयं च कपायाणां चतुकं दश संयतः ॥२७३॥
८४।४। मीलिताः १६ । इत्येताः प्रकृतीरेते चारित्राभिमुखास्त्रयः । मन्दानुभागबन्धा हि क्रमाषोडश कुर्वते ॥२७४॥
सूचममायुश्चतुष्कं च षटकं वैक्रियिकाह्वयम् । साधारणमपर्याप्तं विकलाक्षत्रयं तथा ॥२७५॥ मिथ्यादृशो नृ-तियञ्चो मन्दाः कुर्वन्ति षोडश । औदार्यद्वयमुद्योतस्तिस्रश्च सुर-नारकाः ॥२७६॥
१६॥३॥ नीचं तिर्यग्द्वयं चेति तिसृणां कुर्वतेऽङ्गिनः । मन्दानुभागबन्धं तु सप्तमीमवनिं गताः ॥२७७॥
देवमानुष्यतिर्यञ्चः स्थावरैकाक्षयोस्तथा। भन्दतां कुर्वते भावे वर्तमानास्तु मध्यमे ।।२७८।।
२॥ मिथ्यादृशो हि सौधर्मदेवान्ता एकमातपम् । मास्तीर्थकरत्वं तु मन्दीकुर्वन्त्यसंयताः ॥२७६।।
पञ्चाक्षं कार्मणं तेजः शस्तं वर्णचतुष्टयम् । निर्मिनसचतुष्कं चाथोच्छ्रासाऽगुरुलध्वपि ॥२८०॥ परघातं च संक्लिष्टाश्चतुर्गतिगता अपि । मिथ्याशस्तु कुर्वन्ति मन्दाः पञ्चदशाप्यमूः ॥२८॥
१५। तथा मिथ्याशस्तीवविशुद्धियुतचेतसः । स्त्रीत्व-पण्दत्वयुग्मस्य मन्दिमानं वितन्वते ॥२२॥
सह ष्टिरितरो चाष्टौ दुईष्टिस्यमविंशतिम् । मन्दयेत्परिणामेऽथ वर्तमानो हि मध्यमे ॥२८॥ सातासाते स्थिरद्वन्द्वं शुभाशुभ-यशोऽयशः । अष्टाप्येता हि सद्दृष्टिमिदृष्टिश्च मन्दयेत् ॥२८॥
षट के संस्थान-संहत्योनभोगतियुगं तथा। मय॑द्वितयमादेयमनादेयं सुरद्वयम् ॥२८५।। दर्भग सभगं चैव तथोच्चैर्गोत्रमेव च । विंशतिं व्यधिकामेव मन्दीकुर्वन्त्यसदृशः ॥२८६॥
२३ । भवन्ति सर्वघातिन्यो मिथ्यात्वं केवलावृत्तिः । पञ्चाद्या दृग्रुधोऽन्त्याश्च कषाया द्वादशादिमाः ॥२८७।।
इति बन्धे विंशतिः २० । सम्यग्मिथ्या वेन सहोदये एकविंशतिः २१ । चतस्रो ज्ञानरोधे स्युस्तिस्रो हनधि मोहने । संज्वाला नोकषायाश्च देशधयो विघ्नपञ्चकम् ॥२
इति बन्धे पञ्चविंशतिः २५। सम्यक्त्वेन सहोदये षडविंशतिः २६ । एवं घातिप्रकृतयो मीलिताः ४७। नाम्नो वेद्यस्य गोत्रस्यायुषः प्रकृतयस्तु याः । अघातिन्यस्तु ताः सर्वा एकोत्तरशतप्रमाः ॥२८६।।
१०१ । इति सर्वा मीलिता १४८ । अघातिन्योऽपि घातिन्यः सन्त्येता घातिसंयुजः । पुण्य-पापास्वघातिन्यः स्युःपापा घातिसंज्ञकाः ॥२१॥ चतस्रो ज्ञानरुध्याद्याः संज्वालाः विघ्नपन्चकम् । तिम्रो ग्रुधि पुवेद इति सप्तदशप्रमाः ॥२६॥
१. घातिसंयुताः सन्त्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org