SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः ७०७ कालं भवमथ क्षेत्रमपेच्यवोदयो भवेत् । कर्मणां स पुनद्वैधा सविपाकेतरत्वतः ।।३३२॥ श्रेण्यसंख्यातभागो हि योगस्थानानि सन्ति वै। ततोऽसंख्यगुणस्त्विष्टः सर्वप्रकृतिसंग्रहः ॥३३३।। ततोऽसंख्य गुणो ज्ञेयो विशेषः स्थितिगोचरः । स्थितेरध्यवसायानां स्थानानि तथा ततः ॥३३४॥ रसस्थानान्यपीष्टानि ततोऽसंख्यगुणानि तु । ततोऽनन्तगुणाः सन्ति प्रदेशाः कर्मगोचराः ॥३३५॥ अविभागपरिच्छेदाः सन्त्यनन्तगुणास्ततः । कथयन्त्येवमाचार्याः सिद्धान्ते सूघमबुद्धयः ॥३३६॥ [इति प्रदेशबन्धः समाप्त:] किञ्चिदबन्धसमासोऽयं संक्षेपेणोपवर्णितः । कर्मप्रवादपूर्वाम्भोनिधिनिष्यन्दमात्रकम् ॥३३७॥ अल्पश्रतेन संक्षेपादुक्तो बन्धविधिर्मया । यस्तं समग्रतां नीत्वा कथयन्तु बहुश्रुताः ॥३३८।। श्रीचित्रकूटवास्तव्यप्राग्वाटवणिजा कृते । श्रीपालसुतडड्ढे [न स्फुटार्थः पञ्चसंग्रहे ॥३३॥ . इति शतकं समाप्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy