Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 768
________________ ७०१ शतकाख्यः चतुर्थः संग्रहः तुयें संहति-संस्थाने कोटीकोट्यस्तु षोडश । संस्थाने संहतौ चापि पन्चमेऽष्टादश स्मृताः ॥२०७॥ प्र० २०१६ सा० को० । प्र० २११८ सा० को० । सम्यग्दृष्टौ भवेत्तीर्थकराऽऽहारकयुग्मयोः । अन्तर्मुहूर्तमाबाधाऽन्तःकोटीकोट्यपि स्थितिः ॥२०॥ प्र.३।१०००००००००००००० अन्तः को० सा० । मुहूर्ता द्वादश ज्ञेया वेद्येऽष्टौ नाम-गोत्रयोः । स्थितिरन्तर्मुहूर्त तु जघन्या शेषकर्मसु ॥२०॥ दशसु ज्ञान-विघ्नस्थास्वथान्ते दृक्-चतुष्टये । लोभसंज्वलने चैव स्थितिरन्तर्मुहूर्तिका ॥२०॥ मुहर्ता द्वादशात्र स्युः सातेऽष्टावोच्चयशस्यपि (१)। क्रोधे मासद्वयं मासार्धमासौ मान-माययोः ॥२११॥ भत्र क्रोधे संज्वलने मासौ २ । माने मासः १ । मायायां पक्षः । तिर्यनरायुषोरन्तर्मुहूर्तः श्वाभ्र-देवयोः । दशवर्षसहस्राणि पुंवेदे सरदौष्ट' च ॥२१२॥ असातेन युतं चाद्य दर्शनावृतिपन्चकम् । मिथ्यात्वं द्वादशाष्टौ च कषायाः नोकषायकाः ॥२३॥ ६।१।१२८ त्रयः सप्त च चत्वारो द्वौ पयोधेरनुक्रमात् । सप्तभागास्तु पल्यस्यासंख्यभागोनिता स्थितिः ॥२१४॥ तिर्यङ्-नरगतिद्वन्द्व जातयः पञ्च चातपः । पट के संस्थाग-संहत्योरुद्योतो द्वनभोगती ॥२५॥ वर्णाद्यगुरुलध्वादिचतुष्के कर्म-तेजसी । ब्रसादीनि च युग्मानि नवाप्यौदारिकद्वयम् ।।२१६।। निर्माणमयशो नीचं जघन्याऽऽसां स्थितिमताः । जलधेः सप्तभागौ द्वौ पल्या संख्यांशरिक्तितौ ॥२१७॥ प्रकृ० ५८ स्थितिः उदधीनां सहस्रस्य सप्तांशी द्वौ जघन्यिका । स्थिति क्रियिकषटकस्य पल्यासंख्यांशहीनकौ ॥२१८॥ २०००। अपूर्वक्षपके तीर्थकराऽऽहारकयुग्मयोः । जघन्यस्थितिबन्धोऽन्तःकोटीकोटी नदीशिनाम् ॥२१॥ अत्र जघन्याऽऽबाधा सर्वत्रान्तर्मुहूर्सवर्तिनी । उत्कृष्टः स्यादनुस्कृष्टो जघन्यस्वजघन्यकः । साद्यादिभिश्चतुर्धा च स्थितिबन्धः स्वाम्येन च ॥२२०॥ अजघन्यश्चतुर्भेदः२ स्थितिबन्धो हि सप्तसु । साद्यध्वास्त्रयो ऽन्ये तु चत्वारोऽप्यायुषो द्विधा ॥२२॥ इति मूलप्रकृतिषु । अत उत्तरास्वाह-- दशके ज्ञान-विघ्नस्थे संज्वालेष्वथ अधः । चतुष्केऽष्टादशस्वेवमजघन्यश्चतुर्विधः ॥२२२॥ १८ सादयश्चाध्रुवाः शेषाश्च त्रयोऽष्टादशस्वपि । उत्कृष्टाद्यास्तु चत्वारोऽप्यन्यासु सादयोऽध्रुवाः ॥२२३॥ १०२ शुभानामशुभानां च सर्वाः स्युः स्थितयोऽशुभाः । नृतिर्यगमरायूंषि मुक्त्वाऽन्यासां तु बन्धने ॥२२४॥ उत्कृष्टः स्थितिबन्धः स्यात्संकेशोत्कर्षतोऽपरः । विशुद्ध युस्कर्षतस्तियनृसुरायुःश्वसौ ऽन्यथा ॥२२५॥ अत्र सातबन्धयोग्यः परिणामः विशुद्धिः। असातबन्धयोग्यः परिणामः संक्लेशः। तत उत्कृष्टविशुद्धया या स्थितिबंध्यते सा नवन्या भवति, सर्वस्थितीनां प्रशस्तभावाभाशत् । तेन संक्लेशवृद्धेः सर्वप्रकृतिस्थितीनां वृद्धिर्भवति, विशुद्धिवृद्ध-स्तासामेव हानिर्भवति । उत्कृष्टस्थितौ च विशुद्धयः स्तोका १. संवत्सराष्टकम् । २. साद्यनादि-ध्रुवाध्रुवाः। ३. सप्तसु कर्मसु । ४. जघन्योत्कृष्टानुत्कृष्टाः । ५. साद्यध्रुवौ । ६. बन्धः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872