________________
७०१
शतकाख्यः चतुर्थः संग्रहः तुयें संहति-संस्थाने कोटीकोट्यस्तु षोडश । संस्थाने संहतौ चापि पन्चमेऽष्टादश स्मृताः ॥२०७॥
प्र० २०१६ सा० को० । प्र० २११८ सा० को० । सम्यग्दृष्टौ भवेत्तीर्थकराऽऽहारकयुग्मयोः । अन्तर्मुहूर्तमाबाधाऽन्तःकोटीकोट्यपि स्थितिः ॥२०॥
प्र.३।१०००००००००००००० अन्तः को० सा० । मुहूर्ता द्वादश ज्ञेया वेद्येऽष्टौ नाम-गोत्रयोः । स्थितिरन्तर्मुहूर्त तु जघन्या शेषकर्मसु ॥२०॥ दशसु ज्ञान-विघ्नस्थास्वथान्ते दृक्-चतुष्टये । लोभसंज्वलने चैव स्थितिरन्तर्मुहूर्तिका ॥२०॥ मुहर्ता द्वादशात्र स्युः सातेऽष्टावोच्चयशस्यपि (१)। क्रोधे मासद्वयं मासार्धमासौ मान-माययोः ॥२११॥
भत्र क्रोधे संज्वलने मासौ २ । माने मासः १ । मायायां पक्षः । तिर्यनरायुषोरन्तर्मुहूर्तः श्वाभ्र-देवयोः । दशवर्षसहस्राणि पुंवेदे सरदौष्ट' च ॥२१२॥ असातेन युतं चाद्य दर्शनावृतिपन्चकम् । मिथ्यात्वं द्वादशाष्टौ च कषायाः नोकषायकाः ॥२३॥
६।१।१२८ त्रयः सप्त च चत्वारो द्वौ पयोधेरनुक्रमात् । सप्तभागास्तु पल्यस्यासंख्यभागोनिता स्थितिः ॥२१४॥
तिर्यङ्-नरगतिद्वन्द्व जातयः पञ्च चातपः । पट के संस्थाग-संहत्योरुद्योतो द्वनभोगती ॥२५॥ वर्णाद्यगुरुलध्वादिचतुष्के कर्म-तेजसी । ब्रसादीनि च युग्मानि नवाप्यौदारिकद्वयम् ।।२१६।। निर्माणमयशो नीचं जघन्याऽऽसां स्थितिमताः । जलधेः सप्तभागौ द्वौ पल्या संख्यांशरिक्तितौ ॥२१७॥
प्रकृ० ५८ स्थितिः उदधीनां सहस्रस्य सप्तांशी द्वौ जघन्यिका । स्थिति क्रियिकषटकस्य पल्यासंख्यांशहीनकौ ॥२१८॥
२०००।
अपूर्वक्षपके तीर्थकराऽऽहारकयुग्मयोः । जघन्यस्थितिबन्धोऽन्तःकोटीकोटी नदीशिनाम् ॥२१॥
अत्र जघन्याऽऽबाधा सर्वत्रान्तर्मुहूर्सवर्तिनी । उत्कृष्टः स्यादनुस्कृष्टो जघन्यस्वजघन्यकः । साद्यादिभिश्चतुर्धा च स्थितिबन्धः स्वाम्येन च ॥२२०॥
अजघन्यश्चतुर्भेदः२ स्थितिबन्धो हि सप्तसु । साद्यध्वास्त्रयो ऽन्ये तु चत्वारोऽप्यायुषो द्विधा ॥२२॥
इति मूलप्रकृतिषु । अत उत्तरास्वाह-- दशके ज्ञान-विघ्नस्थे संज्वालेष्वथ अधः । चतुष्केऽष्टादशस्वेवमजघन्यश्चतुर्विधः ॥२२२॥
१८ सादयश्चाध्रुवाः शेषाश्च त्रयोऽष्टादशस्वपि । उत्कृष्टाद्यास्तु चत्वारोऽप्यन्यासु सादयोऽध्रुवाः ॥२२३॥
१०२ शुभानामशुभानां च सर्वाः स्युः स्थितयोऽशुभाः । नृतिर्यगमरायूंषि मुक्त्वाऽन्यासां तु बन्धने ॥२२४॥ उत्कृष्टः स्थितिबन्धः स्यात्संकेशोत्कर्षतोऽपरः । विशुद्ध युस्कर्षतस्तियनृसुरायुःश्वसौ ऽन्यथा ॥२२५॥
अत्र सातबन्धयोग्यः परिणामः विशुद्धिः। असातबन्धयोग्यः परिणामः संक्लेशः। तत उत्कृष्टविशुद्धया या स्थितिबंध्यते सा नवन्या भवति, सर्वस्थितीनां प्रशस्तभावाभाशत् । तेन संक्लेशवृद्धेः सर्वप्रकृतिस्थितीनां वृद्धिर्भवति, विशुद्धिवृद्ध-स्तासामेव हानिर्भवति । उत्कृष्टस्थितौ च विशुद्धयः स्तोका
१. संवत्सराष्टकम् । २. साद्यनादि-ध्रुवाध्रुवाः। ३. सप्तसु कर्मसु । ४. जघन्योत्कृष्टानुत्कृष्टाः । ५. साद्यध्रुवौ । ६. बन्धः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org