________________
७००
संस्कृत-पंचसंग्रह
क्रमात्पु वेदसंज्वालाः पञ्चशेष्वनिवृत्तिके ।
सूचमेऽप्युच्चं यशो दृष्टश्चतुष्कं ज्ञानविध्नयोः ।। १८७।। दशैवं षोडशास्माच शान्तक्षीणौ विहाय च । सयोगे सातमेकं तु बन्धः सादिरनन्तकः ॥१८८||
१६१ स्वाम्यम्गत्यादौ तत्प्रयोग्यानां सिद्धानामोधरूपतः । प्रकृतीनां हि विज्ञेयं स्वामित्वं च यथागमम् ॥१८॥
इति प्रकृतिबन्धः समाप्तः । आद्यकर्मत्रिकस्यान्तरायस्यापि प्रकर्षतः । कोटीकोटयः स्फुटं त्रिंशत्सागराणां स्थितिभवेत् ॥११॥ सप्ततिर्मोहनीयस्य विंशतिर्नाम-गोत्रयोः । आयु पस्तु प्रयस्त्रिंशत्सागराणां परा स्थितिः ॥१६॥ आयान्ति नोदयं यावत्कालेनोदीरणां विना । कर्माणवः स कालः स्यादाबाधा सप्तकर्मणाम् ॥११२॥ सा स्याद्वर्षशतं वार्धिकोटीकोटीस्थितेरिति । स्वस्थितिप्रतिभागेनाबाधा त्रैराशिकेन तु ।।११३॥ सप्तानां कर्मणां पूर्वकोटीत्र्यंशः पराऽऽयुपः । भवेदन्तमुहुर्तश्च जघन्या सर्वकर्मणाम् ॥१४॥
इति सप्तकर्मोत्कृष्टाऽऽबाधा वर्षाणि ३००० । ३००० । ३००० । ७००० । २००० । २००० । ३००० । आयुषः पूर्वकोटीत्र्यंशः । आबाधोना स्थितिः कर्मनिषेकः सप्तकर्मणाम् । स्थितिरेव निजा कर्मनिषेकस्त्वायुषो मतः ॥१५॥
अत्र निषेचनं निषेकः । आबाधोपरिस्थित्यां कर्मपरमाणुस्कन्धनिक्षेप इत्यर्थः। तत्र ज्ञानावरणीयस्य त्रीणि वर्षसहस्राण्याबाधा। तां मुक्त्वा यताथमसमये स्थितिप्रदेशानं निषिक्तं तद्बहु । यद्वितीयसमये स्थितिप्रदेशाग्र निषिक्तं, तद्विशेषहीनम् । यत्ततीयसमये निषिक्तं तदपि विशेषहीनम् । एवं विशेषहीनं तावद्यावदुत्कर्षण त्रिंशत्सागरोपमकोटीकोटयः स्वाबाधाहीनाः । एवमन्येषामपि कर्मणां स्वाबाधा मुक्त्वा कर्मनिषेका वक्तव्याः । सर्वेषां च निषेकाणां गोपुच्छाकारेणावस्थानमिति । ज्ञानग्रोधविघ्नेषु स्यात्पञ्च नव पञ्च तु । भसाते च स्थितित्रिंशत्कोटीकोटयो नदीशिताम् ॥१६६॥
प्र०२०-३० साग० को०।। चत्वारिंशत्कपायाणां मिथ्यात्वस्य च सप्ततिः । सातस्त्रीनृद्वये कोटीकोटयः पञ्चदशापि च ॥१७॥
षोडशकषायाणां १६-४० साग० को । मिथ्यात्वे १-७० साग० को० । सातादिषु ४-१५ साग० को। सागराणां त्रयस्त्रिंशच्छाभ्रदेवायुषोः स्थितिः । तिर्यङ्नृणां परं चायुस्विपल्योपमसम्मितम् ॥१६॥
२-३३ साग० । २-३ पल्यो० । भयं शोकोऽरतिश्चैव जुगुप्सा च नपुंसकम् । नीचैर्गोत्रं तथा श्वभ्रगतिस्तिर्यग्गतिस्तयोः ॥१६॥ आनुपूविथैकाक्षं पञ्चाक्ष कर्म-तेजसी । औदारिकद्वयं हुण्डोद्योतो वैक्रियिकद्रयम् ॥२०॥ वर्णागुरुत्रसादीनि चतुष्काण्यथ दुर्भगम्. । असन्नभोगतिनिर्मिदातपश्चास्थिराशुभे ॥२०१॥ असम्प्राप्तमनादेयं दुःस्वरं वायशोऽपि च । स्थावरं स्थितिरासां च कोटोकोटथो हि विंशतिः ॥२०२॥
प्रकृ० ४३ आसां स्थितिः २० साग० को। हास्यं रतिनवेदश्च सुस्वरं सन्नभोगतिः । देवद्विकं स्थिरादेये सुभगं च यशः शुभम् ॥२०३॥ संस्थान-संहती चाये उच्चमासां परा जिने । सागराणां समादिष्टा कोटीकोटयो दश स्थितिः ॥२०॥
प्रकृ० १५ । भासां स्थितिः १० साग० को० । द्विश्यक्षचतुरक्षेषु सूचमापर्याप्तयोस्तथा । साधारणे स्थितिः कोटीकोटयोऽष्टादश सम्मिताः ॥२०५॥
प्रकृ. ६ । १८ साग० को। सन्ति द्वादश संस्थाने द्वितीये संहतावपि । चतुर्दश तु संस्थाने तृतीये संहतो तथा ॥२०६॥
प्र. २११२ सा० को० । प्र० २।१४ सा० को० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org