________________
७०२
संस्कृत-पंचसंग्रहे
भूत्वा गणनया वर्धमाना [ तावद् ] गच्छन्ति, यावजघन्या स्थितिः। जघन्यस्थितौ पुनः संक्केशाः स्तोका भूत्वोपरि प्रक्षेपोत्तरक्रमेण वर्धमानाः [तावद् ] गच्छन्ति, यावदुस्कृष्टा स्थितिरिति । सर्वोत्कृष्टस्थितीनां हि मिथ्याष्टिस्तु बन्धकः । विमुच्याऽऽहारक तीर्थकरं देवायुरित्यपि ॥२२६॥ सप्रमादो हि देवायुराहारं स्वप्रमत्तकः । तीर्थकृत्त्वं पुनर्मत्यः समर्जयति निव्रतः ॥२२७॥
स्थितेरुत्कर्षका पञ्चदशानां नृ-गवादयः । देवाश्च नारकाः पण्णामीशानान्ताः सुरास्त्रिषु ॥२२८॥
१५/६।३। श्वभ्रतिर्यनरायूंषि षटकं वैक्रियिकाह्वयम् । साधारणमपर्याप्तं सूक्ष्मं च विकलत्रिकम् ॥२२॥ इत्यासां नर-तिर्यञ्चः सोत्कर्षा कुर्वते स्थितिम् । आतपस्थावरैकाक्षेष्वीशानान्ताः सुरास्त्रिषु।। २३०॥ तिर्यग्द्वयमसम्प्राप्तमुद्योतीदारिकद्वये । इत्युत्कर्षस्थितेरासां देवाः श्वाभ्राश्च कुर्वते ॥२३॥ प्रकृतीनां तु शेषाणां चतुर्गतिगताः स्थितिम् । कुर्युरुत्कृष्टसंक्लेशेनेषन्मध्यमकेन च ॥२३२॥
शेषाः प्रकृतयः १२। आहारकद्वयस्याप्यपूर्वस्तीर्थकृतस्तथा । अनिवृत्तिस्तु पुंस्त्वस्य चतुःसंज्वलनस्य च ॥२३३॥
३॥५ हग्रोधस्थचतुष्कस्य दशानां ज्ञान विध्नयोः । सातोच्चयशसां सूचमो जघन्यां कुरुते स्थितिम् ॥२३४॥
वैक्रियस्य तु षट्कस्य तामसंड्यायुषां पुनः । संश्यसंज्ञी चतुर्णा च यथास्वं कुरुते स्थितिम् ॥२३५॥
पुनरप्यासा दशानां विशेषसाहपर्याप्तासंज्ञिपञ्चाक्षः श्वभ्ररीतिद्वयस्य तु । तद्योग्यप्राप्तसंक्लेशो जघन्यां कुरुते स्थितिम् ॥२३६॥ देवगत्यानुपूयो हि वैक्रियद्वितयस्य तु । हेतुस्तस्याः स एव स्यात्किन्तु सर्वविशुद्धिकः ॥३३७॥ श्वभ्रायुषस्तु पञ्चाक्षोऽसंज्ञी वा यदि वेतरः। मिथ्याहक सर्वपर्याप्तस्तथा सर्वविशुद्धिकः ॥२३८ एवं देवायुषः किन्तु तत्प्रायोग्येन संयुतः। संक्लेशेनात्मनो जन्तुर्जघन्यां कुरुते स्थितिम् ॥२३॥ भोगभूमिजवर्जानां नृ-तिरश्चां तदायुषः। योग्यं संक्लेशमाप्तानां जघन्या स्थितिरिष्यते ॥२४॥ प्रकृतीनां तु शेषाणां जघन्यां कुरुते स्थितिम् । पर्याप्तबादरैकाक्षः प्राप्तसर्वविशुद्धिकः ॥२४॥
एवं स्थितिबन्धः समाप्तः।
अष्टोत्कृष्टादयः शस्ताशस्तौ संज्ञानुभागगाः । स्युः पत्ययविपाकौ च स्वामित्वं च चतुर्दश ॥२२॥ घातीनामजघन्योऽस्त्यनुत्कृष्टो नाम-वेद्ययोः । गोत्रे यस्त्वजघन्यो योऽनुत्कृष्टः स चतुर्विधः ॥२४३॥ बन्धाः साद्यध्रुवाः शेषाश्चत्वारोऽप्यायुषि द्विधा । अनुभागो मतो ह्येवं मूलप्रकृतिगोचरः ॥२४॥
___ अनोत्कृष्टानां साद्यादयो भेदाः
.......................
अष्टानामस्त्यनुत्कृष्टोऽनुभागश्चतुरंशकः । त्रिचत्वारिंशतोऽपि स्यादजघन्यश्चतुर्विधः ॥२४५॥ अनुभागाख्यबन्धास्तु परिसृष्टास्त्रयोऽत्र ये। साद्यध्रवप्रकारेण द्वितिकल्पा भवन्ति ते ॥२४६॥ तेजसागुरुलध्वाह्न शस्तं वर्णचतुष्टयम् । कार्मणं निर्मिदष्टानामनुत्कृष्टश्चतुर्विधः ॥२४७॥ दृष्टिरोधे नव ज्ञाने विध्ने च दश षोडश । कषाया भोजुगुप्से च निन्यं वर्णचतुष्टयम् ॥२८॥
** श्रादर्शप्रतावेते भेदा लिखिता न सन्ति, श्रतः शतकगाथाङ्क ४४३ स्य संस्कृतटीकातो बोध्याः ।
सम्पादकः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org