________________
३८४
पञ्चसग्रह
सुभग-दुर्भगयोमध्ये एकतरं १ भादेयानादेययोर्मध्ये एकतरं १ यशोऽयशसोर्मध्ये एकतरं १ चतुरानुपूर्येषु मध्ये एकतरं १ इत्येकविंशतिकं स्थानं २१ चातुर्गतिकार्ना विग्रहगतौ कार्मणशरीरे भवति । तदानुपूर्व्ययुतस्वाद्विग्रहगतवेवोदेति । तदानुपूर्व्यमपनीयौदारिकादित्रिशरीरेषु एकं शरीरं १ पटसंस्थानेषु एकं संस्थानं १ प्रत्येक-साधारणयोर्मध्ये एकतर उपघातं १ इति प्रकृति चतुष्कं विंशतिके युतं चतुर्विशतिकं स्थानम् २५ । इदमेकेन्द्रियाणां शरीरमिश्रे योगे एवोदेति, नान्यत्र । पुनः एकेन्द्रियस्य शरीरपर्याप्तौ तत्र चतुर्विंशतिके परघातयुते इदं २५। वा विशेषमनुष्यस्याऽऽहारकशरीरमिश्रकाले तदङ्गोपांगे युते इदं २५ । वा देव-नारकयोः शरीरमिश्रकाले वैक्रियिकाङ्गोपांगे युते इदं २५। पुनः एकेन्द्रियस्य पञ्चविंशतिके तच्छरीरपर्याप्तौ आतपे उद्योते वा युते इदं २६ । वा तस्यैवैकेन्द्रियस्योच्छ्रासनिःश्वासपर्याप्ती उच्छ्रासे युते इदं २६ । वा चतुर्वि शतिके द्वि-त्रि-चतुः-पञ्चेन्द्रियाणां सामान्यमनुष्यस्य निरतिशयकेवलिकपाटद्वयस्य च औदारिकमिश्रकाले तदङ्गोपाङ्गसंहनने युते इदं २६ । पुनश्चतुर्विशतिके प्रमत्तस्य शरीरपर्याप्ती आहारकाङ्गोपाङ्ग-परघात-प्रशस्तविहायोगतिषु युतासु इदं २७ । तत्केवलिषड्विंशतिकं कपाटद्वयस्यौदारिकमिश्रे तीर्थयुते इदं २७ । चतुर्विशतिके देव-नारकयोः शरीरपर्याप्तौ वैक्रियिकाङ्गोपाङ्ग-परघाताविरुद्ध विहायोगतिषु युतासु इदं २७ । वा तत्रेवेकेन्द्रियस्योच्छासपर्याप्तौ परघाते आतपोद्योतके तस्मिन्नुच्छ वासे च युते इदं २७ । पुनस्तत्रैव सामान्यमनुष्यस्य मूलशरीरप्रविष्टसमुद्धातसामान्यकेवलिनः द्वि-त्रि-चतुः-पञ्चेन्द्रियाणां च शरीरपर्याप्तौ अङ्गोपाङ्ग-संहनन-परघाताऽविरुद्धविहायोगतिषु युतासु इदं २८ । वा प्राप्ताऽऽहारकर्द्धस्तच्छरीरोच्छ्वासपर्याप्त्योस्तदङ्गोपाङ्ग-परघात-प्रशस्तविहायोगत्युच्छ वासेषु युतेषु इदं २८ । वा देव-नारकयोरुच्छ वासपर्याप्तौ वैक्रियिकाङ्गोपाङ्ग-परघाताऽविरुद्धविहायोगत्युच्छ वासेषु युतेषु इदं २८ । पुनस्तत्सामान्यमनुष्याष्टाविंशतिके तस्य च मूलशरीरप्रविष्टसमुद्धातसामान्यकेवलिनश्वोच्छ वासपर्याप्तौ उच्छ वासयुते इदं २६ । वा तच्चतुर्विशतिके द्वि-त्रि-चतुः-पञ्चन्द्रियाणां शरीरपर्याप्तौ उद्योतेन समं अङ्गोपाङ्ग-संहनन-परघातविहायोगतिषु युतासु इदं २६ । वा समुद्धातकेवलिनः शरीरपर्याप्तौ अङ्गोपाङ्ग-संहनन-परघात-प्रशस्तविहायोगति-तीर्थषु युतेषु इदं २६ ! वा प्रमत्तस्याहारकशरीर-भाषापर्याप्स्योस्तदङ्गोपाङ्ग-परघात-प्रशस्तविहायोगत्युच्छ्वास स्वशरीरेषु युतेषु इदं २६ । वा देव नारकयोः भाषापर्याप्ती अविरुद्धकस्वरेण युते इदं २१ । पुनस्तत्रैव द्वि-त्रि-चतुः-पञ्च न्द्रियाणामुच्छ वासपर्याप्तावुद्योतेन समं सामान्यमनुष्य-सकल-विकलानां भाषापर्याप्तौ स्वरद्वयान्यतरेण समं चाङ्गोपाङ्ग-संहनन-परघात-विहायोगत्युच्छ वासेषु युतेषु इदं ३० । वा समुद्धाततीर्थक्करकेवलिन उच्छवासपर्याप्तौ तीर्थेन समं सामान्यसमुद्धातकेवलिनो भाषापर्याप्तौ स्वरद्वयान्यतरेण समं चाङ्गोपाङ्ग-संहनन-परघात-प्रशस्तविहायोगत्युच्छ वासेषु युतेषु इदं ३० । पुनस्तत्सयोगकेवलिस्थाने भाषापर्याप्तौ तीर्थयुते इदं ३१ । वा चतुर्विशतिके द्वि-त्रि-चतु:-पञ्चन्द्रियाणां भाषापर्याप्तौ अङ्गोपाङ्गसंहनन-परघातोद्योत-विहायोगत्युच्छ वास-स्वरद्वयान्यतरेषु युतेषु इदं ३१*।
विग्रहगतौ कार्मगशरीरे एकेन्द्रियाणां २१ स्थानमुदेति । शरीरमिश्रे २४ । २५ । शरीरपर्याप्ती २६ । २७ । उच्छ्रासपर्याप्तौ २६ उदयागतं भवति । देव-नारकयोः विग्रहगतौ कार्मणे २१ । २१ । वैक्रियिकमिश्रे २५ । २५ वैक्रियिकशरीरपर्याप्तौ २७ । २७ । आनापानपर्याप्तौ २८ । २८ । भाषापर्याप्तौ२६ । २६ उदयागतानि भवन्ति । द्वि-त्रि-चतुः-पञ्चन्द्रिय-तिरश्ची विग्रहगति [तौ] कार्मणे २१ औदारिकमिश्रे २६ शरीरपर्याप्तौ २७ उदेति । उच्छ्रासपर्याप्तौ २६।३० भाषापर्याप्तौ ३० । ३१ उदयारातानि। सामान्यमनुष्ये विग्रहगतौ कार्मणे २१ औदारिकमिश्रे २६ शरीरपर्याप्तौ २८ आनापानपर्याप्तौ २६ भाषापर्याप्तौ ३० उदयागतानि । सामान्यकेवलिनि कार्मणशरीरे प्रतरद्वये लोकपूरणे २० औदारिकमिश्रकाययोगे २६ शरीरपर्याप्ती २८ उच्छासपर्याप्तौ २६ भाषापर्याप्तौ ३० उदयस्थानानि । तीर्थकरकेवलिनि । प्रतरद्वये लोकपूरणे च कार्मणे २१ औदारिकमिश्ने २७ शरीरपर्याप्ती २६ उच्छवासपर्याप्तौ ३० भाषापर्याप्तौ ३१ । आहारकविशेषमनुष्ये आहारकमिश्रे २५ आहारकशरीरपर्याप्तौ २७ उच्छ वासपर्याप्तौ २८ भाषापर्याप्तौ २६ ।
*उपरितनोऽयं सन्दर्भः गो. कर्मकाण्डस्य गाथाङ्क ५६३-५६४ तमटीकया शब्दशः समानः । (पृ. ७६५-७६६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org