Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 739
________________ ६७२ संस्कृत पञ्चसंग्रह वचनैहें तुभी रूपैः सर्वेन्द्रियभयाव हैः । जुगुप्साभिश्च वीभत्सनैव क्षायिकदृक् चलेत् ( युग्मम् ) ॥२२३॥ दृग्मोहनक्षतेः कर्मभूजः प्रस्थापको मतः । मनुष्येष्वेव सर्वत्र भवेनिष्ठापकः पुनः ॥२२४॥ क्षयस्थारम्भको यस्मिन् भवे स्यादपरांस्ततः । नारयेत्येव भवांस्त्रीन् स क्षीणे दर्शनमोहने ॥२२५॥ शमको दर्शनमोहस्य गतिष्विष्टोऽखिलास्वपि । संज्ञी पन्चेन्द्रियश्चास्ति पर्याप्तः सान्तरश्च सः ॥२२६॥ ज्योतिर्भावनभौमेषु षट्स्वधः श्वभ्रभूमिषु । तिर्यग्नर-सुरस्त्रीषु सदृष्टिनैव जायते ॥२२७॥ सम्यक्त्वान्ययतायेषु चतुषु त्रीणि वेदकम् । मुक्त्वोपशमकेषु द्वे शेषेषु क्षायिकं परम् ॥२२८॥ ०1०1०।३।३।३।३।२।२।२।२।१।१।। ११1१1१1१। सौधर्मादिष्वसंख्याब्दायुः लिया नृतपि । रत्नप्रभावनौ च स्यात्सम्यक्त्वत्रयमङ्गिनाम् ॥२२९॥ शेषेषु देवतिर्यक्षु षट्वधःश्वभ्रभूमिषु । वे वेदकोपशमिके स्यातां पर्याप्तदेहिनाम् ॥२३०॥ जन्तोः सम्यक्त्वलाभोऽस्ति बद्धेऽप्यायुश्चतुष्टये । वद्धे नतद्वयप्राप्तिर्देवायुष्यपरेषु न ॥२३॥ सम्यक्त्वात्प्रथमा भ्रष्टो मिथ्यास्वमगतोऽन्तरा । पारिणामिकभावोऽसौ सासादन इति स्मृतः ॥२३२॥ मिथ्यात्वे वधसंशुद्ध कोद्रवे मदशक्तिवत् । शुद्धाशुद्धात्मको भावः सम्यग्मिथ्यात्वमङ्गिनाम् ॥२३३॥ उपदिष्टं न मिध्यादृक् श्रद्दधाति जिनोदितम् । श्रद्दधाति तत्सद्भावं कथितं यदि वाऽन्यथा ॥२३४॥ सम्यक्त्वस्याऽऽदिमो लाभः सकलोपशमान्मतः । नियमेनापरस्त्विष्टः सर्व-देशोपशान्तितः ॥२३५॥ सम्यक्त्वस्याऽऽदिमाल्लाभान्मिथ्यात्वं पृष्ठतो भवेत् । मिथ्यात्वं मिश्रकं वा स्याल्लाभेष्वन्येषु पृष्ठतः ॥२३६।। शिक्षालापोपदेशानां ग्राही संज्ञी मनोबलात् । हिताहितपरीक्षायां योऽसमर्थोऽस्त्यसंझ्यसौ ॥२३७।। कार्याकार्य पुरा तत्त्वमतत्त्वं च विचारयेत् । शिक्षते वापि नाम्नेति समनस्कोऽन्यथेतरः ॥२३८।। एवं कृते मया भूय एवं कार्य भविष्यति । एवं विचारको यो हि स संज्ञी वितरोऽन्यथा ॥२३६।। अत्र संज्ञी नाम कथं भवति ? नोइन्द्रियावरणसर्वधातिस्पर्धकानामुदयक्षयेण तेषामेव सतामुपशमेन देशघातिस्पर्धकानामुदयेन संज्ञी भवति । नोइन्द्रियावरणस्य सर्वधातिस्पर्धकानामुदयेनासंज्ञिनो भवन्ति । विक्रियाऽऽहारकौदार्याङ्गषटपर्याप्तिपुद्गलान् । योग्यान गृह्णाति यो जीवः सः स्यादाहारकाभिधः ॥२४०॥ समुद्धातं गतो योगी मिथ्याक्सासनायताः । विग्रहर्तावयोगश्च सिद्धाश्चाऽऽहारका न हि ॥२४१॥ दण्ड औदारिको मिश्रः स स्याद्दण्ड-कपाटयोः । कार्मणो योगिनो योगः प्रतरे लोकपूरणे ॥२४२।। ॥२४७॥ अन्तरङ्गोपयोगः स्यादर्शनं तच्चतुर्विधम् । बहिरङ्गोपयोगस्तु ज्ञानमष्टविधं तु तत् ॥२४३॥ ज्ञानदररोधमोहान्तरायाणां जिनयोः क्षयात् । तद्वृत्तिः स ममान्येषु तत्क्षयोपशमात् क्रमात् ॥२४४॥ छद्मस्थेषूपयोगः स्याद्विधाऽप्यन्तर्मुहगः । साद्यपर्यवसानोऽसौ जिनयोयुगपद् भवेत् ॥२४५॥ जीवयोगितयोत्पन्नो यो भावो वस्तुहेतुकः । उपयोगो द्विधा सोऽस्ति साकारतरभेदतः ॥२४६॥ मतिश्रुतावधिस्वान्तर्य द्विशेषावधारणम् । उपयोगः स साकारो भवत्यन्तम यदिन्द्रियावधिस्वान्तैरविशेषार्थभासनम् । उपगोगो निराकारः स स्यादन्तमुहर्तगः ॥२४८॥ &[ द्वि-त्रि-सप्त-द्विषु ज्ञेया गुणेषु क्रमतो बुधैः। ] पञ्च पट् सप्त च द्वौ चैवोपयोगा यथायथम् ॥२६॥ ५।५।६।६।६।७।७।७।७।७७७।२।२ । ये मारणान्तिकाऽऽहारतेजो विक्रियकेवलिकषायवेदनाभेदात्समुदाता हि सप्त तु ॥२५०॥ सम्भूयात्मप्रदेशानां बहिरुद्रमनानि च । एकदिक्कौ तु तेष्वाद्यौ दशदिक्काः पञ्च चापरे ॥२५१॥ १. जिनवचनम् । २. तत्सद्भावं कथितं सत् अन्यथा अन्येन प्रकारेण श्रद्दधाति । * आदर्शप्रतौ कोष्ठकान्तर्गतः पाठो नास्ति । स त्वमितगतिपञ्चसंग्रहाद् योजितः,-सम्पादकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872