________________
६७२
संस्कृत पञ्चसंग्रह
वचनैहें तुभी रूपैः सर्वेन्द्रियभयाव हैः । जुगुप्साभिश्च वीभत्सनैव क्षायिकदृक् चलेत् ( युग्मम् ) ॥२२३॥ दृग्मोहनक्षतेः कर्मभूजः प्रस्थापको मतः । मनुष्येष्वेव सर्वत्र भवेनिष्ठापकः पुनः ॥२२४॥ क्षयस्थारम्भको यस्मिन् भवे स्यादपरांस्ततः । नारयेत्येव भवांस्त्रीन् स क्षीणे दर्शनमोहने ॥२२५॥ शमको दर्शनमोहस्य गतिष्विष्टोऽखिलास्वपि । संज्ञी पन्चेन्द्रियश्चास्ति पर्याप्तः सान्तरश्च सः ॥२२६॥ ज्योतिर्भावनभौमेषु षट्स्वधः श्वभ्रभूमिषु । तिर्यग्नर-सुरस्त्रीषु सदृष्टिनैव जायते ॥२२७॥ सम्यक्त्वान्ययतायेषु चतुषु त्रीणि वेदकम् । मुक्त्वोपशमकेषु द्वे शेषेषु क्षायिकं परम् ॥२२८॥
०1०1०।३।३।३।३।२।२।२।२।१।१।।
११1१1१1१। सौधर्मादिष्वसंख्याब्दायुः लिया नृतपि । रत्नप्रभावनौ च स्यात्सम्यक्त्वत्रयमङ्गिनाम् ॥२२९॥ शेषेषु देवतिर्यक्षु षट्वधःश्वभ्रभूमिषु । वे वेदकोपशमिके स्यातां पर्याप्तदेहिनाम् ॥२३०॥ जन्तोः सम्यक्त्वलाभोऽस्ति बद्धेऽप्यायुश्चतुष्टये । वद्धे नतद्वयप्राप्तिर्देवायुष्यपरेषु न ॥२३॥ सम्यक्त्वात्प्रथमा भ्रष्टो मिथ्यास्वमगतोऽन्तरा । पारिणामिकभावोऽसौ सासादन इति स्मृतः ॥२३२॥ मिथ्यात्वे वधसंशुद्ध कोद्रवे मदशक्तिवत् । शुद्धाशुद्धात्मको भावः सम्यग्मिथ्यात्वमङ्गिनाम् ॥२३३॥ उपदिष्टं न मिध्यादृक् श्रद्दधाति जिनोदितम् । श्रद्दधाति तत्सद्भावं कथितं यदि वाऽन्यथा ॥२३४॥ सम्यक्त्वस्याऽऽदिमो लाभः सकलोपशमान्मतः । नियमेनापरस्त्विष्टः सर्व-देशोपशान्तितः ॥२३५॥ सम्यक्त्वस्याऽऽदिमाल्लाभान्मिथ्यात्वं पृष्ठतो भवेत् । मिथ्यात्वं मिश्रकं वा स्याल्लाभेष्वन्येषु पृष्ठतः ॥२३६।।
शिक्षालापोपदेशानां ग्राही संज्ञी मनोबलात् । हिताहितपरीक्षायां योऽसमर्थोऽस्त्यसंझ्यसौ ॥२३७।। कार्याकार्य पुरा तत्त्वमतत्त्वं च विचारयेत् । शिक्षते वापि नाम्नेति समनस्कोऽन्यथेतरः ॥२३८।। एवं कृते मया भूय एवं कार्य भविष्यति । एवं विचारको यो हि स संज्ञी वितरोऽन्यथा ॥२३६।।
अत्र संज्ञी नाम कथं भवति ? नोइन्द्रियावरणसर्वधातिस्पर्धकानामुदयक्षयेण तेषामेव सतामुपशमेन देशघातिस्पर्धकानामुदयेन संज्ञी भवति । नोइन्द्रियावरणस्य सर्वधातिस्पर्धकानामुदयेनासंज्ञिनो भवन्ति ।
विक्रियाऽऽहारकौदार्याङ्गषटपर्याप्तिपुद्गलान् । योग्यान गृह्णाति यो जीवः सः स्यादाहारकाभिधः ॥२४०॥ समुद्धातं गतो योगी मिथ्याक्सासनायताः । विग्रहर्तावयोगश्च सिद्धाश्चाऽऽहारका न हि ॥२४१॥ दण्ड औदारिको मिश्रः स स्याद्दण्ड-कपाटयोः । कार्मणो योगिनो योगः प्रतरे लोकपूरणे ॥२४२।।
॥२४७॥
अन्तरङ्गोपयोगः स्यादर्शनं तच्चतुर्विधम् । बहिरङ्गोपयोगस्तु ज्ञानमष्टविधं तु तत् ॥२४३॥ ज्ञानदररोधमोहान्तरायाणां जिनयोः क्षयात् । तद्वृत्तिः स ममान्येषु तत्क्षयोपशमात् क्रमात् ॥२४४॥ छद्मस्थेषूपयोगः स्याद्विधाऽप्यन्तर्मुहगः । साद्यपर्यवसानोऽसौ जिनयोयुगपद् भवेत् ॥२४५॥ जीवयोगितयोत्पन्नो यो भावो वस्तुहेतुकः । उपयोगो द्विधा सोऽस्ति साकारतरभेदतः ॥२४६॥ मतिश्रुतावधिस्वान्तर्य द्विशेषावधारणम् । उपयोगः स साकारो भवत्यन्तम यदिन्द्रियावधिस्वान्तैरविशेषार्थभासनम् । उपगोगो निराकारः स स्यादन्तमुहर्तगः ॥२४८॥ &[ द्वि-त्रि-सप्त-द्विषु ज्ञेया गुणेषु क्रमतो बुधैः। ] पञ्च पट् सप्त च द्वौ चैवोपयोगा यथायथम् ॥२६॥
५।५।६।६।६।७।७।७।७।७७७।२।२ । ये मारणान्तिकाऽऽहारतेजो विक्रियकेवलिकषायवेदनाभेदात्समुदाता हि सप्त तु ॥२५०॥ सम्भूयात्मप्रदेशानां बहिरुद्रमनानि च । एकदिक्कौ तु तेष्वाद्यौ दशदिक्काः पञ्च चापरे ॥२५१॥
१. जिनवचनम् । २. तत्सद्भावं कथितं सत् अन्यथा अन्येन प्रकारेण श्रद्दधाति । * आदर्शप्रतौ कोष्ठकान्तर्गतः पाठो नास्ति । स त्वमितगतिपञ्चसंग्रहाद् योजितः,-सम्पादकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org