________________
जीवसमासाख्यः प्रथमः संग्रहः
६७१
लेश्याकर्मोच्यतेदुर्गाहो दुष्टचित्तश्च रागद्वेषादिभियुतम् । क्रुन्मानवञ्चनालोभैस्तथाऽनन्तानुबन्धिभिः ।।२०२॥ चण्डः सन्ततरश्च निर्दयः कलहप्रियः । मधुमांससुरासक्तः कृष्णलेश्यो मतोऽसुमान् ॥२०३॥ निर्बुद्धिर्मानवान मायी मन्दो विषयलस्पटः । निर्विज्ञानालसो भीरुनिद्रालुः परवञ्चकः ॥२०४।। नानाविधे धने धान्ये सर्वत्रवातिमूच्छिताः । सारम्भो नीलया प्राणी लेश्यया संयुतो भवेत् ॥२०५।। बहशः शोकभीग्रस्तो रुषत्यपि च निन्दति । भसूयन दूपन्नित्यं पर परिभवत्यपि ॥२०६॥ . आत्मानं बहुशः स्तौति स्तूयमानश्च तुष्यति । मन्यमानः परं स्वं वा न प्रत्येति कुतश्चन ।।२०७।। हानि नावेति वृद्धिं वा वष्टि मृत्यु रणाङ्गणे । श्लाध्यमानस्तरां दत्ते जीवः कापोतलेश्यया ॥२०८।। सर्वत्र समग वेत्ति कृत्याकृत्यं हिताहितम् । दयादानरतो विद्वांस्तेजोलेश्यावशोऽसुमान् ।।२०६॥ त्यागी क्षान्तिपरश्चोतो भद्रामा सरलक्रियः । साधुपूजोद्यतो जीगेऽधिष्ठितः पद्मलेश्यया ॥२१०।। सर्वत्रापि समोऽपक्षपातस्त्यक्तनिदानकः । रागद्वेषव्यपेतात्मा स्यात्प्राणी शुक्ललेश्यया ॥२११॥
इति लेश्याकर्म समाप्तम् । त्यक्त कृष्णादिलेश्याकाः सिद्धिं याता निरापदः । अन्तातीतसुखा जीवा निलेश्याः परिकीर्तिताः ॥२१२॥
जीवाः सिद्धत्वयोग्या ये भवसिद्धा भवन्ति ते । न तेषु नियमः शुद्धरस्ति हेमोपलेष्विव ॥२१३॥ सङ्ख्येयेनाप्यसयन कालेनानन्तकेन वा । जीवाः सिद्धयन्ति ये भव्या न त्वभव्याः कदाचन ॥२१॥ न भव्या नापि ये भव्या निर्द्वन्द्वा मुक्तिमाश्रिताः । विज्ञेया सन्ति ते जीवा भव्याभव्यत्ववर्जिताः ॥२१५॥
भव्यः पञ्चेन्द्रियः संज्ञी जीवः पर्याप्तकस्तथा । काललब्ध्यादिभिर्युक्तः सम्यक्त्वं प्रतिपद्यते ॥२१६॥
सप्तकर्मणां सागरोपमान्तःकोटीकोटिस्थितौ सत्यां काललब्धिर्भवति । अत्र क्षयोपशम-विशुद्धिदेशन-प्रायोग्य-लब्धीलब्ध्वा पश्चादधःप्रवृत्तापूर्वानिवृत्तिकरणान् कृत्वोपशम-क्षयोपशम-क्षयसम्यक्त्वरूपां बोधिं लभते जीवः। पूर्वसश्चितकर्मपटलस्यानुभागस्पर्धकानि २दा विशुद्धया प्रतिसमयमनन्तगुणहीनानि भूत्वोदीयन्ते तदा क्षयोपशमलब्धिर्भवति १ । प्रतिसमयमनन्तगुणहीनक्रमेणोदीरितानुभाग-स्पर्धकजनितजीवपरिणामः सातादिसुख (शुभ) कर्मबन्धनिमित्तः सावद्यासुख (शुभ) कर्मबन्धविरुद्धो विशुद्धिलब्धिर्नाम २ । पञ्चास्तिकाय-षडद्रव्य-सप्ततत्व-नवपदार्थोपदेशः, उपदेशकाचार्याधुपलब्धिर्वा उपदिष्टार्थग्रहण-धारण-विचारणशक्तिर्वा देशनालब्धिर्नाम ३। सप्तकर्मणामुत्कृष्टस्थितिमुत्कृष्टानुभागं च हत्वाऽन्तःकोटीकोटिस्थितौ द्विस्थानानुभागस्थान प्रायोग्यलब्धिर्नाम ४। तथोपरिस्थितपरिणामैरधःस्थितपरिणामाः समानाः अधःस्थितपरिणामैरुपरिस्थितपरिणामाः समाना भवन्ति यस्मिन्नवस्थाविशेषे काले सोऽधःप्रवृत्तकरणः । अपूर्वाः अपूर्वाः शुद्धतराः करणाः परिणामा यस्मिन् कालविशेषे सोऽपूर्वकरणपरिणामः । एकसमये प्रवर्तमानैः करणः परिणामैन विद्यते निवृत्ति दो यत्र सोऽनिवृत्तिकरग इति ५ । श्रद्धानं य जिनोक्तार्थेष्वाज्ञयाऽधिगमेन च । षट-पञ्च-नवभेदेषु सम्यक्त्वं तत्प्रवचयते ॥२१७॥ तच्च प्रशमसंवेगानुकम्पास्तिक्यलक्षणम् । चारित्रदर्शनघ्नाश्चत्वारोऽनन्तानुबन्धिनः ॥२१॥ सम्यक्त्वमथ मिथ्यात्वं सम्यग्मिथ्यात्वमेव च । त्रीणि दर्शनमोहे चेत्येतत्प्रकृतिसप्तकम् ॥२१६॥ यत्तस्योपशमादौपशमिकं क्षायिक क्षयात् । बायोपशमिक सम्यक्त्वाख्यहरमोहपाकतः ।।२२०॥ भवेत्सम्यग्मिथ्यात्व मिथ्यात्वानन्तानुबन्धिनाम् । पाकक्षयाच्च सम्यक्त्वं तत्सत्त्वोपशमाच्च'तत् ॥२२१॥ .
अत्रानन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्यग्मिथ्यात्वयोश्चोदयायासेषामेव सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्धकम्योदये तत्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वं भवति । दृष्टिमोहे क्षयं जाते यच्छद्धानं सुनिर्मलम् । सम्यक्त्वं क्षायिकं तस्यात्सदा कर्मक्षयावहम् ॥२२२॥
१. सत्तारूपोपशमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org