________________
संस्कृत पञ्चसंग्रहे
कार्मणं शुक्ललेश्यं स्यारोजोलेश्यं च तैजसम् । औदारिकं नृ-तिर्यक्षु षड्लेश्यं तु शरीरकम् ॥ १८८ ॥ मूलनिर्वर्तनात्तत्स्याल्लेश्या वैक्रियिकाह्वये । पीता पद्मा सिता चाङ्गो देवे कृष्णा तु नारके || १८ ||
अत्र नृ-तिरश्चां षड्लेश्यानि शरीराणि । देवानां मूलनिर्वर्तनातः पीत- पद्म शुक्कलेश्यानि । उत्तरनिर्वर्तनातः पड्लेश्यानि । देवीनां मूलनिर्वर्तनातः पीतलेश्यानि । उत्तरनिर्वर्तनातः पड्लेश्यानि । नारकाणां कृष्णलेश्यानि । किमुक्तं भवति ? वैक्रियिकं मूलनिर्वर्तनातः सामान्येन कृष्णलेश्यं पीतलेश्यं पद्मलेश्यं शुकुलेश्यं वा कथितं भवति । शेषं सुगमम् ।
षड्लेश्याङ्गा मतेऽन्येषां ज्योतिष्क भौमभावनाः । कापोतमुद्गगोमूत्रवर्णलेश्या निलाङ्गिनः ॥ १६०॥
इति सिद्धान्तालापे । इति द्रव्यलेश्या प्ररूपिता । भावलेश्योच्यते-योगाविरति मिथ्यात्व कषायजनितस्तु यः । संस्कारः प्राणिनां भावलेश्याऽसौ कथिताऽऽगमे ॥१६६॥ तीव्रोलेश्या स कापोता नीला तीव्रतरश्च सः । कृष्णा तीव्रतमः पीता संस्कारो मन्द इष्यते ।। १६२ || पद्मा मन्दतरः शुक्ला सः स्यान्मन्दतमस्त्विमाः । पट्स्थानगतया वृद्धया प्रत्येकं षडपीरिताः ॥ १६३ ॥
अत्र मिथ्यात्वा संयमकषाययोगजनितो जीवस्य संस्कारो भावलेश्या । तत्र यस्तीत्रः संस्कारः स कापोतलेश्या, तीव्रतरो नीललेश्येत्यादि नेयम् । एताः षडपि लेश्याः अनन्तभागवृद्धवसंख्यात भागवृद्धिसंख्यातभागवृद्धि-संख्यात गुणवृद्धय संख्यात गुणवृद्धयनन्तगुणवृद्धिक्रमेण प्रत्येकं षट्स्थानपतिताः । निर्मूल-स्कन्ध-शाखोपशाखच्छेदे तरोर्वचः । उच्चये पतितादाने भावलेश्याः फलार्थिनाम् ॥१६४॥
तत्र फलार्थिनां पुंसां तरोर्निग्र्मूलोच्छेदे तीव्रतमकषायानुरक्षितं वचः वाकूप्रवृत्तिर्भावलेश्या कृष्णा १ | तरोः स्कन्धोच्छेदे तीव्रतरकषायानुरञ्जितं वचः नीला २ । तरोः शाखोच्छेदे तीव्रकपायानुरञ्जितं वचः कापोता ३ । तरोरुपशाखोच्छेदे मन्दकषायानुरञ्जितं वचः पीता ४ । तरोः फलोच्चये मन्दतरकषायानुरञ्जितं वचः पद्मा ५ | तरोरधःपतितफलादाने मन्दतमकषायानुरञ्जितं वचः शुक्का ६ । एवं मनसि काये च नेयम् । लेश्याश्चतुर्षु षट् च स्युस्तिस्तस्तिस्रः शुभास्त्रिषु । गुणस्थानेषु शुक्का पट्षु निर्लेश्यमन्तिमम् ॥ ११५ ॥ इति मिथ्यादृष्टयादिषु लेश्याः ६ | ६ | ६ | ६ |३|३।३।१।१।१।१।१।११० ।
६७०
आद्यास्तिस्रोऽप्यपर्याप्तेष्व संख्येयाब्दजीविषु । लेश्या क्षायिकसद्द्दष्टौ कापोता स्याज्जघन्यका ॥ १३६ ॥ षट् नृ-तिर्यतु तिस्रोऽन्स्यास्तेष्व संख्याब्दजीविषु । एकाच विकलासंज्ञिष्वाद्यं लेश्यात्रयं मतम् ॥ १६७॥ * द्विष्कपोताऽथ कापोता नीले नीलाऽथ मध्यमा । नीलाकृष्णे च कृष्णातिकृष्णा रत्नप्रभादिषु ॥ १६८॥ अत्र रत्नप्रभायां जघन्या कापोता । शर्करायां मध्यमा कापोता । वालुकायां द्वे लेश्ये - उत्कृष्टश
० ०
० ० ० ०
कापोता नीला व जघन्येत्येवं त्रिकत्रयं नेयम् । न्यासश्च रत्नप्रभादिषु - ३ ३ ३ २ २ १ 91
२
ง
अपर्याप्तेषु कृष्णाद्या लेश्यास्तिस्रो जघन्यका । पीतका भावनाद्येषु त्रिषु पर्याप्तकेषु च ॥१६६॥ सौधर्मैशानयोः पीता पीतापद्मे द्वयोस्ततः । कल्पेषु षट्स्वतः पद्मा पद्माशुक्ले ततो द्वयोः ॥ २००॥ आनतादिषु शुक्लाऽतस्त्रयोदशसु मध्यमा । चतुर्दशस सोत्कृष्टाऽनुदिशानुत्तरेषु च ॥ २०१ ॥
अत्र भावन-भौम-ज्योतिष्केषु त्रिषु निकायेषु देवानामपर्याप्तकानां कृष्णा नीला कापोतास्तिस्रो लेश्याः । तेषामेव पर्याप्तकानामेकैव जघन्या पीतलेश्येति चतस्त्रो लेश्याः । सौधर्मेशानयोर्मध्यमा पीता । ततो द्वयोर्द्वे लेश्ये - उत्कृष्टा पीता जघन्या पद्मेत्येवं त्रिकत्रयं नेयम् । न्यासस्तु
०० ० O ० ०
४
०
Jain Education International
०
०
४
०
०
४
५
० ० ०
० ० ०
०
५
०
० ०
० ०
०
For Private & Personal Use Only
० ०
५
६
६
॥ इति भावलेश्या समाप्ता ॥
१. षड्वर्णमित्यर्थः । २. संस्कारस्तीत्रः सन् कापोता भवति । ३. पर्याप्तेषु । ४. द्विः द्विवारम् |
० ० ० • ०
०
०
C
०
www.jainelibrary.org