________________
जीवसमासाख्यः प्रथमः संग्रहः
६६६
मनसाऽन्यमनो यातं साक्षादर्थं करोति यः । स मनःपर्ययो भेदावस्यर्जुविपुले मती ॥१५॥ मनःपर्ययबोधः स्यात्संयतेषु प्रकर्षतः । क्षेत्रे नृलोकमात्रे च मूर्तद्रव्यप्रकाशकम् ॥१६०॥ त्रिलोकगोचराशेषपदार्थान् विदधाति यत् । सामाजिनैरनन्तं तत्केवलज्ञानमीरितम् ॥१६॥ मिथ्यात्वेन सहैकार्थसमवायाद्विपर्ययम् । जनयेद्यत्तु रूपादौ तन्मत्यज्ञानमधजम् ॥१६२॥ यग्छब्दप्रत्ययं ज्ञानं मिथ्यात्वेन च सङ्गतम् । धर्म रिक्ततया तुच्छं श्रुताज्ञानं वदन्ति तत् ॥१६३॥ मिथ्यात्वसमवेतो यः पर्याप्तस्यास्ति देहिनः । अवधिः स विभङ्गाख्यः क्षयोपशमसम्भवः ॥१६४।।
कषाया नोकषायाश्च भेदाश्चारित्रमोहने । तेषामुपशमादौपशमिकं हायिक क्षयात् ॥१६५॥ द्वादशाद्याः कषाया ये स्युस्तेषामुदयक्षयात् । तत्सत्तोपशमान्मिश्रं चारित्रं संयमाभिधम् ॥१६६॥ चतुःसंज्वलनेष्वन्यतमपाकाच्च तत्तथा । नवानां नोकरायाणां यथासम्भवपाकतः ॥१६७॥ व्रतानां धारणं दण्डत्यागः समितिपालनम् । कषायनिग्रहोऽक्षाणां जयः संयम इष्यते ॥१६॥ व्रतानामेकभावेन यदात्मन्यधिरोपणम् । नियतानियतः कालः स्यात्सामायिकसंयमः ॥१६॥ व्रतानां भेदरूपेण यदात्मन्यधिरोपणम् । व्रतलोपे विशुद्धिर्वा छेदोपस्थापनं तु तत् ॥१७॥ परिहृत्यव सावधं सम्यक समिति-गुप्तिभिः । यदासौ प्राप्यते तेन स्यात्परिहारसंयमः ॥१७१७ यः सूचनसाम्परायाख्ये शमके सपकेऽपि वा। स्यात्सूचमसाम्परायोऽसौ संयमः सूचमलोमतः ॥१७२॥ चारित्रमोहनीयस्य क्षयेणोपशमेन वा । अवाप्नुतो यथाख्यातं छमस्थौ यदि वा जिनौ ॥१७३॥ संयतेषु चतुर्वाधौ परिहारस्तथाऽऽद्ययोः। सूचमे स्यासंयमः सूचमो यथाख्यातश्चतुवतः ॥१७४॥
सघातानिवृत्तो यः प्रवृत्तः स्थावराईने । जीवः श्रावकधर्म स संयमासंयम श्रितः ॥१७५॥ दर्शन्यणुवतश्चैव स सामायिक इत्यपि । प्रोषधी विरतश्चैव सचित्तादिनमैथुनात् ॥१७६॥ ब्रह्मवती निरारम्भः श्रावको निःपरिग्रहः । निरनुज्ञो निरनुद्दिष्टः स्यादेकादशधेति सः ॥१७७॥ अष्टौ स्पर्शा रसाः पञ्च द्वौ गन्धौ वर्णपञ्चकम् । पड्जादयः स्वराः सप्त दुर्मनोऽक्षेष्वसंयमः ॥१७॥ इत्यष्टाविंशतिर्जीवसमासेपु चतुर्दश । नैतेभ्यो विरता ये स्युर्जीवास्ते सन्त्यसंयताः ॥३७६॥
इन्द्रियेष्वसंयमाः २८ । जीवेष्वसंयमाः १४ ।
रूपादिग्राहकत्वेन सामान्याख्यस्य वेदनम् । आत्मनो द्वन्तरङ्गं यदर्शनं तजिनोदितम् ॥१०॥ तच्चक्षदर्शनं ज्ञेयं चक्षषा यत्प्रकाशते । शेषेन्द्रियप्रकाशस्त्वचक्ष दर्शनमीरितम् ॥१८॥ परमाण्वन्त्यभेदानि रूपिद्रव्याणि पश्यति । सम्यक् प्रत्यक्षरूपेण यत्तच्चावधिदर्शनम् ।।१८२।। उद्योता बहवः सन्ति नियते क्षेत्रगोचराः । केवलो दर्शनोद्योतः पुनर्विश्वं प्रकाशते ।।१८३॥ लेश्या योगप्रवृत्तिः स्यात्कषायोदयरञ्जिताः । भावतो द्रव्यतोऽङ्गस्य छविः षोढोभयी तु सा ॥१८॥ कृष्णा नीलाऽथ कापोती पीता पद्मा सिता च षट् । लेश्याः सन्यात्मसारकुर्वन्त्याभिः कर्माणि जन्तवः ।१८५। धराऽप्तेजोमरुक्षकायिकेषु यथाक्रमम् । लेश्याः स्युः षट् सिता पीता कापोता षट् च जन्तुषु ॥१८६।।
अत्र पण्णां लेश्यानां शरीरमाश्रित्य प्ररूपणा-तत्र बादरपर्याप्त पृथिवीकायिकानां पडलेश्यानि शरीराणि । तथा अप्कायिकानां शुकुलेश्यानि । अग्निकायिकानां तेजोलेश्यानि । वातकायिकानां कापोतलेश्यानि । वनस्पतिकायिकानां षड्लेश्यानीति श्लोकार्थः । सर्वसूचमेपु कापोता सर्वांपर्याप्तकेषु च । लेश्या सर्वेषु शुक्लेका विग्रहतौ गतेषु च ॥१८॥
अत्र सर्वेषां सूचमाणां शरीराणि कापोतलेश्यानि । सर्वे चापर्याप्ताः कापोतलेश्याङ्गाः । सर्वेषां च विग्रहगतौ शुक्ललेश्यानि शरीराणि ।
१. सहितः । २. सरागचारि इति औपरामिकादि त्रिविधं चारित्रं भावसंग्रहोक्तं ज्ञेयम् । ३. संयमः । ४. दीप-चन्द्रादयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org