________________
६६८
संस्कृत पञ्चसंग्रहे
अस्याप्यर्थः-स्त्रीपुनपुंसका जीवा द्रव्य-भावाभ्यां सदृशाः प्रायो भवन्ति, विसदृक्षाश्च सम्भवन्ति । कथम् ? द्रव्यतः पुंवेदस्यापि भावतः स्त्रीवेदयो भवति, द्रव्यतः स्त्रीवेदस्यापि भावतः पुंवेदोदयः स्यादित्यादि। __पुनरपि भाव-द्रव्यवेदमाहमार्दवक्लैव्यपुंस्कामनादीन् भावान् दधाति यत् । स्त्रैणान्' यस्माच्च गर्भोऽस्यां स्त्यायति स्त्रीत्यतोऽस्ति सा । १३३।
ति चात्मानं पुरुषं वाऽभिकात्तति । सदाऽऽच्छादनशीला च तेन सा स्त्रीति वर्णिता ॥१३४।। पारुष्य-रभसत्व-स्त्रीकामनादीन् दधाति यत् । पौंस्नान् भावान् पुमान् तेन भवेत्पुरुगुणश्च यत् ॥१३५।। कुर्यात्पुरुगुणं कर्म शेते पुरुगुणेषु च । आकाङ्क्षति स्त्रियं सूतेऽपत्यं यत्पुरुषस्ततः ।।१३६॥
अत्र शेते प्रमदयति, सूते जनयति । भावतो न पुमान स्त्री द्वयाकाङ्क्षो नपुंसकः । स्त्रीरूपो नररूपश्व पापोऽभ्यधिकवेदनः ।।१३७॥ कारीषाग्नि-तृणाग्निभ्यां सदृशो नेष्टकाग्निना । वेदत्रयेण निर्मुक्ता जिनाः सन्ति सुखात्मकाः ।।१३८।। कर्मक्षेत्रं कृषन्त्येते सुख-दुःखाख्यशस्यभृत् । यच्चतुर्गतिपर्यन्तं कषायास्तेन कीर्तिताः ॥१३॥
भत्र कृषन्ति फलवत्कुर्वन्ति । चारित्रपरिणामं वा कर्षन्तीति कषायकाः । ऋन्मानवाचनालोभाः प्रत्येकं ते चतुर्विधाः ॥१४॥ सन्त्यनन्तानुबन्ध्याख्याः अप्रत्याख्यानसंज्ञकः । ते प्रत्याख्याननामानस्तथा संज्वलनाभिधाः ।।१४१॥ आद्याः सम्यक्त्व-चारित्रे द्वितीया घ्नन्त्यणुव्रतम् । तृतीयाः संयमं तुर्या यथाख्यातं ऋधादयः ॥१४२॥ दृषभूमिरजोवारिराजीभिः क्रोधतः समात् । श्वभ्रतिर्यग्नूदेवेषु जीवो याति चतुर्विधात् ॥१४३।। शिलास्तम्भास्थिकाष्ठालतातुल्याच्चतुर्विधात् । श्वभ्रतिर्यग्नूदेवेषु जायते मानतोऽसुमान् ॥१४४।। मायया वंशमूलाविशृङ्गगोमूत्रचामरैः । श्वभ्रतिर्यग्नृदेवेषु जन्तुजति तुल्यया ॥१४५॥ कृमिनीलीहरिद्राङ्गमलरागैः समाद् व्रजेत् । श्वभ्रतिर्यग्नदेवेषु प्राणी लोभाच्चतुर्विधात् ॥१४६।। क्रुधः श्वाभ्रेषु तिर्यक्षु मायायाः प्रथमोदयः । नृषूत्पन्नस्य मानस्य स्याल्लोभस्य सुरेषु हि ॥१७॥ मतेनापरसूरीणां समुत्पन्नेषु जन्तुषु । गतिध्वनियमेन स्युः क्रोधादिप्रथमोदयः ।।१४८।। स्व-परोभयबाधाया वधस्यासंयमस्य च । येषां हेतुः कषाया नो निःकषाया हि ते जिनाः ॥१४९।।
स्थित्युत्पादव्ययैर्युक्तं गुणपर्ययवच्च यत् । द्रव्यं जीवादि याथात्म्यावगमो ज्ञानमस्य तत् ।।१५०॥ इन्द्रियर्मनसा चाथग्रहणं यन्मतिस्तु तत् । ज्ञानमस्य विकल्पाः स्युः षत्रिंशत्रिशतप्रमाः ॥१५॥ मतिपूर्व श्रुतं तच्च द्वयनेकद्वादशात्मकम् । शब्दादग्न्यादिविज्ञानं धूमादिभ्योऽपि च श्रुतम् ॥१५२।।
तथा चोक्तम्-शब्दधूमादिभ्योऽर्थावगमः श्रतम् । अवाच्यानामनन्तांशो भावाः प्रज्ञाप्यमानकाः । प्रज्ञाप्यमानभावानामनन्तांशः श्रुतोदितः ॥१५३|| मूर्त्ताशेषपदार्थान् यज्ज्ञानं साक्षात्करोत्यसौ । अवधिः स्यादवाग्धानात्क्षायोपशमिकश्च सः॥१५॥ देवानां नारकाणां च स्याद् भवप्रत्ययोऽवधिः । क्षयोपशमहेतुस्तु स्याच्लेषाणां च षडविधः ।।१५५।। अनुगोऽननुगामी च तदवस्थानवस्थितः । प्रवृद्धो हीयमानः स्यादित्थं षडविधोऽवधिः ।।१५६॥ श्वाभ्रतिर्यग्नदेवानामेको देशावधिर्भवेत् । परमावधि-सर्वावध्यभिधं यतिषु द्वयम् ॥१५॥ तीर्थकृच्छ्रानदेवानां सर्वाङ्गोत्थोऽवधिर्भवेत् । नृ-तिरश्चां तु शङ्खाजस्वस्तिकाद्यङ्गचिह्वजम् ॥१५॥
___ अत्र शङ्खाब्जस्वस्तिकश्रीवत्सध्वजकलशनन्द्यावर्तहलादीन्यवधेरुत्पत्तिक्षेत्रसंस्थानानि तिर्यङ्-मनुष्याणां नाभेरुपरिमभागे भवन्ति, नाधस्तात् । विभङ्गास्तु पुनः सरटाद्यशुभाकृतीन्युत्पत्तिस्थानानि नाभेरधस्ताद्भवन्ति, नोपरिष्टात् ।
१. स्त्रियाः इमे स्त्रैणाः, तान् स्त्रैणान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org