________________
जीवसमासाख्यः प्रथमः संग्रहः
यो न सत्यमृषारूपः स्यात्सोऽसत्यमृषात्मकः । सा भाषाऽमनसां संज्ञावतां चामन्त्रणादिकाः २ ॥११०॥ उदारे यो भवो वाऽस्योदारं वा स्यात्प्रयोजनम् । सः स्यादौदारिकः कायो मिश्रोऽपूर्णः स एव तु ॥ १११ ॥ विक्रियायां भवः कायो विक्रिया वा प्रयोजनम् । यस्य वैक्रियिकः सः स्यान्मिश्रोऽपूर्णः स एव तु ।। ११२ ।। अत्रोदारं स्थूलम् | एकानेकाणुमहच्छरीर विविधकारणं विक्रिया ।
सम्प्राप्तर्द्धिः प्रमत्ताख्यो गत्वा केवलिसन्निधौ । सूचमानाहरते येन पदार्थान् सति संशये ॥११३॥ भवेदसंयमस्यापि यो वा परिजिहीर्षया । आहारकः स कायः स्याद्धवलो धातुभिर्विना ।। ११४ || मूत् हस्तमात्रश्चान्याघात्युत्तमसंस्थितिः । स्थितिरन्तर्मुहूर्तोऽस्य मिश्रो पूर्णः स एव तु ॥ ११५ ॥ कर्मैव कार्मणः कायो भवेत्कर्मणि वा भवः । एक-द्वि-त्रिषु तद्योगो वक्रतौ ' समयेषु तु ॥ ११६ ॥ न कर्म बध्यते नापि जीर्यते तैजसेन हि । शरीरेणोपभुज्येते सुख-दुःखे च तेन नो ॥ ११७ ॥ सप्तैवं काययोगाः स्युः कायैरेतैस्तु सप्तभिः । जिनाः शुभाशुभैयोंगेः मुक्ताः सन्ति निरास्रवाः ।। ११८ ।। एकेन्द्रियेषु पर्याप्ताः स्थूला वाताग्निकायिकाः । विकुर्वते च पञ्चाचा नान्ये न विकलेन्द्रियाः ॥ ११६॥ वैक्रियिकाऽऽहारयोरेकं प्रमत्तेऽस्ति न ते समम् । विग्रहतौ तु सर्वस्य जन्तोस्तैजसकार्मणे ॥ १२०॥ ते च वैक्रियिकं च स्युर्देव श्वाश्रेष्ठ तानि च । औदार्यं च नृ-तिर्यचु नृष्दाहारं च तानि च ।। १२१।। सर्वे वक्रगतौ द्वयङ्गास्त्रिकाया देव-नारकाः । त्रिशरीरा नृ-तिर्यञ्चचतुःकायाश्च सन्ति ते ॥१२२॥ द्वयोस्त्रयोदशान्येषुळे दश योगास्त्रयोदश । नवैकादश पटू सु स्युर्नवातः सप्त योगिनि ॥ १२३ ॥ १३।१३।१०।१३ | ६ |११|६|| ६ ||६||७||
वेदोदीरणया जीवो बालस्तु बहुशो भवेत् । वेदस्तु त्रिविधोऽस्ति स्त्रीपुन्नपु ंसकभेदतः ॥ १२४॥ अत्र बाल: सुषुप्तपुरुषवदनवगतगुणदोषो भवेत् । नोकपायोदयाद् भाववेदो भवति जन्तुषु । योनि-लिङ्गादिको द्रव्यवेदः स्यान्नामपाकतः ।। १२५ । आत्मप्रवृत्तिसम्मोहोत्पादो वेदोऽस्ति भावतः । नोकषायविशेषः स्त्री- पु षण्ढोदयहेतुकः ॥ १२६॥ अत्र प्रवृत्तिः परिणामः ।
याssकाङ्क्षा स्यात्स्त्रियः पुंसि पुरुषस्य च या स्त्रियाम् । स्त्री-पुंसयोश्च षण्ढस्य वाऽसौ वेदोऽस्ति भावतः ।। १२७ ।।
६६७
१० " अनयोरर्थः - चारित्रमोहनीय विशेषस्त्री वेदद्रव्यकर्मोदयजनितः पुरुषाभिलाषो भावस्त्रीवेदः । एवं 'वेदद्रव्यकर्मोदयजनिताङ्गनाभिलाषो भावपुरुषवेद: । नपुंसकवेदद्रव्यकर्मोदयजनित उभयाभिलाषो भावनपुंसकवेदः । उक्तञ्च सिद्धान्ते - " कषायवनान्तर्मुहूर्तस्थायिनो भाववेदाः, आजन्मन भामरणं तदुदयसद्भावादिति" ।
स्त्रीपुन्नपुंसकाख्याभिर्योनिलिङ्गादिकः पुनः । नामकर्मोदयाद् द्रव्यवेदोऽपि त्रिविधो भवेत् ॥ १२८ ॥
अस्याप्यर्थः— नामकर्मोदय निर्वर्त्तितो योनि-जन-स्तन विशिष्टशरीराकारो द्रव्यस्त्रीवेदः । लिङ्गश्मश्रुप्रभृतिविशिष्टशरीराकारो द्रव्यपुंवेदः । उभयविशिष्टशरीराकारो द्रव्यनपुंसकवेद इति । योनिमृदुत्वस्तत्वं मुग्धता क्लीवता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वनिवेदने ॥ १२६ ॥ मेहनं खरता स्ताब्ध्यं शौण्डीर्यश्मश्रुष्टष्टता । स्त्रीकामितेति लिङ्गानि सप्त पुंस्त्वनिरूपणे ॥१३०॥ योनिः खरादिसंयुक्त मेढ मृद्वादिसंयुतम् । नपुंसके १२ तयोस्त्वेकप्राधान्यात्स्त्री पुमानिति ॥१३१॥ स्त्रीपुन्नपुंसकाः प्रायो जीवाः स्युर्द्रव्य-भावतः । सदृशाः विसदृत्ताश्च सम्भवन्ति यथाक्रमम् ॥१३२॥
.११
१. सा सत्यमृषात्मरूपा श्रनुभयभाषा श्रमनसां मनोरहितानां जीवानां भवति । २. आमन्त्रणी - प्रमुखा नवप्रकारा अनुभयभाषा संज्ञिनां भवति । ३. उदारशब्दोऽत्र स्थूलवाची । ४. येन कारणभूतेन कायेन कृत्वा । ५. पदानां श्रर्थाः पदार्थास्तान् । ६ विग्रहगतौ । ७ अपरे एकेन्द्रियाः । ८. ते द्वे युगपत् न । ६. अन्येषु मिश्रादिषु क्रमेण कथ्यन्ते । १०. श्लोकयोः । ११. मेहनम् । १२. योनि-मेढ्योर्मध्ये |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org