________________
संस्कृत पञ्चसंग्रहे
मन्यन्ते यतो नित्यं मनसा निपुणा यतः । मनसा चोत्कटा यस्मात्तस्मात्ते मानुषाः स्मृताः ॥७५ || अणिमादिभिरष्टाभिर्गुणैः क्रीडन्ति ये सदा । भासन्ते दिव्यदेहाश्च देवास्ते वर्णितास्ततः ॥ ७६।। न जातिर्न जरा दुःखमसंयोगवियोगजम् । नापि रोगादयो यस्यां सन्ति सिद्धिगतिस्तु सा ॥७७॥ अहमिन्द्रा यथा मन्यमाना अहमहं सुरा । एकैकमीशते यस्मादिन्द्रियाणीन्द्रवत्ततः ।।७८।। यवनालमसूरातिमुक्तेन्द्रर्धसमाः क्रमात् । श्रोत्राक्षिप्राणजिह्नाः स्युः स्पर्शनं नैकसंस्थितिः ॥७६॥ जीवे स्पर्शनमेकाक्षे द्वयक्षादिष्वेकवृद्धितः । भवन्ति रसनाघ्राणचक्षुः श्रोत्राण्यनुक्रमात् ||८०|| रूपं पश्यत्यसंस्पृष्टं स्पृष्टं शब्दं शृणोति च । बद्धास्पृष्टञ्च जानाति स्पर्शं गन्धं तथा रसम् ॥ ८१ ॥ अक्षेणैकेन यद्वेत्ति स्वामित्वं कुरुते च यत् । भुङ्क्ते पश्यति चैकाक्षोऽतः पृथिव्यादिकायिकः ॥ ८२॥ शम्बूकः शङ्खशुक्ती च गण्डूपदकपर्दकाः । कुक्षिकृम्यादयश्चैवं द्वीन्द्रियाः प्राणिनो मताः ॥ ८३ ॥ कुन्थुः पिपीलिका गुम्भी वृश्चिकाश्चेन्द्रगोपकाः । तथा मत्कुणयूकाद्यास्त्रीन्द्रियाः सन्ति जन्तवः ॥८४॥ भ्रमराः कीटका दंशा मशका मक्षिकादयः । एते जीवाः समासेन निर्दिष्टाश्चतुरिन्द्रियाः ॥ ८५॥ जरायुजाण्डजाः पोता गर्भजा औपपादिकाः । सम्मूच्छिमाश्च पञ्चाक्षा रसजाः स्वेदजोद्धिजाः ॥८६॥ अवग्रहादिभिर्नार्थग्राहकाः करणातिगाः । अनन्तातीन्द्रियज्ञाना ज्ञेया जीवा निरिन्द्रियाः ॥८७॥
६६६
यथा भारवहो भारं वहत्यादाय कावटिम् । कर्मभारं वहत्येवं देहवान् कायकावटिम् ||८|| कायः पुद्गलपिण्डः स्यादात्मप्रवृत्तिसन्चितः । भेदाः षट् तस्य भूम्यम्बुतेजोवाततरुत्रसाः ॥८६॥ मसूराम्बुपृषत्सूची कलापध्वजसन्निभाः । धराप्तेजोमरुत्काया नानाकारास्तरुत्राः ||१०|| पृथिवी - शर्करा - रत्न - सुवर्णोपलकादयः । षट् त्रिंशत्पृथिवीभेदा निर्दिष्टाः सर्वदर्शिभिः ॥ ६१ ॥ अवश्यायो हिमं बिन्दुस्तथा शुद्धघनोदके । शीकराद्याश्च विज्ञेया जिनैर्जीवा जलाश्रयाः ॥१२॥ ज्वालाङ्गरास्तथाऽर्चिश्व मुम्र्मुरः शुद्ध एव च (पावकः) । भग्निश्चेत्यादिकास्तेजःकायिकाः कथिता जिनैः ॥ १३ ॥ महान् घनस्तनुश्चैव गुञ्जा मण्डलिरुत्कलिः । वातप्रभृतयो वातकायाः सन्ति जिनोदिताः ॥६४॥ मूलाग्र पर्वकन्दोत्थाः स्कन्धबीजरुहास्तथा । सम्मूच्छिमाश्च विज्ञेयाः प्रत्येकानन्तकायिकाः ।। ६५ ।। साधारणो यदाहार आनपानस्तथाविधः । साधारणा तनुस्तेन जीवाः साधारणाः मताः ॥६६॥ यत्रको म्रियते तत्रानन्तानां मरणं मतम् । उत्पद्यते च यत्रकोऽनन्तानां जन्म तत्र तु ॥ ६७॥ अनन्ताः सन्ति जीवा ये न जातु नसतां गताः । न मुञ्चन्ति निगोतत्वमुच्चैर्भावकलङ्किताः ।।६८।। द्वीन्द्रियास्त्रोन्द्रियाश्चैव चतुरक्षाश्च संज्ञिनः । असंज्ञिनश्च पञ्चाक्षा जीवाः स्युखसकायिकाः ।।६६॥ न बहिर्लोकनाट्याः स्युर्जन्तवस्त्र सकायिकाः । मुक्त्वा परिणतांस्तेषु पपादे मारणान्तिके ॥१००॥ प्रत्येकाङ्गाः पृथिव्यम्बुतेजःपवनकायिकाः । देवाः श्वाभ्रास्तथाऽऽहारकाङ्गाः केवलिनोर्द्वयम् ॥ १०१ ॥ इत्यप्रतिष्ठिताङ्गाः स्युर्निगोतैः सूक्ष्म बादरैः । विकलाः शेषपञ्चाचा वृक्षाश्च तैः प्रतिष्ठिताः ॥ १०२ ॥ वह्निस्थं काञ्चनं यद्वन्मुच्यते द्विविधान्मलात् । कायबन्धविनिर्मुक्ता ध्यानतोऽकायिकास्तथा ।। १०३।। मनोवाक्काययुक्तस्य वीर्यरूपेण वृत्तिता । जीवस्यात्मनि योज्यो यः स योगः परिकीर्त्तितः ॥ १०४ ॥ योगो वीर्यान्तरायाख्यक्षयोपशमसन्निधौ । भवेदात्मप्रदेशानां परिस्पन्दः त्रिधेति सः ॥ १०५ ॥ मनोवाचौ चतुर्धा स्तः पृथक्सत्यमृषोभयैः । युक्तेश्वानुभयेनापि भवेत्कायोऽपि सप्तधा ।। १०६ ।। यथावस्तु प्रवृत्तं यन्मनः सत्यमनोऽस्ति तत् । मृषा मनोऽन्यथा चोभयाख्यं सत्यमृषात्मकम् ||१०७ || नो यत्सत्यं मृषा नैव तदसत्यमृपामनः । तैर्योगाः सन्ति चत्वारो मनोवत्सन्ति वाच्यपि ॥ १०८ ॥ अस्ति सत्यवचो योगो दशधा सत्यवाक् स्थितः । विपरीतो मृषा त्वन्यः सत्यासत्यद्वयात्मकः ||१०६ ॥
2
१. स्पृष्टम् । २. तेषु जन्तुषु मध्ये, ३. प्रवृत्तित्वम् ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org