________________
जीवसमासाख्यः प्रथमः संग्रहः
पूर्णा पूर्णानि वस्तूनि वस्त्रादीनि यथा तथा । पूर्णाsपूर्णतया जीवाः पर्याप्तेतरका मताः ||५४|| आहारानेन्द्रियेष्वाने पर्याप्तिर्वाचि मानसे । चतस्रः पञ्च षट् ताः स्युरेकाक्ष न्यूनसंज्ञिनाम् ||५५ ॥
बहिर्भवैर्यथा प्राणैरेवमाभ्यन्तरैरपि । यैखिकालेऽपि जीवन्ति जीवाः प्राणा भवन्ति ते ॥५६॥ पञ्चेन्द्रियाणि वाक्कायमानसानां बलानि च । त्रीण्यानापान आयुश्च प्राणाः स्युः प्राणिनां दश ॥ ५७॥ कायाक्षायूंषि सर्वेषु पर्याप्तेष्वान इष्यते । वाग् द्वयज्ञादिषु पूर्णेषु मनः पर्याप्त संज्ञिषु ॥ ५८ ॥ दश संज्ञिन्यतो हेयमेकैकं द्वयमन्त्ययोः । पूर्णेध्वन्येषु सप्ताद्ये रेकैकोनाश्च तेऽप्यतः ॥५६॥ इति प्राणाः | ४|४|६| ७|८|६|१०|७|७|६:५|४|३|३|
अत्राऽऽहारशरीरेन्द्रियाऽऽनापानभाषामनोनिष्पत्तिः पर्याप्तिः । शरीरेन्द्रियादिपर्याप्तिभ्यः आयुष श्वोत्पन्नशक्तयः प्राणाः । ते चोत्पन्नसमयादारम्भ यावज्जीवितचरमसमयं तावन्न विनश्यन्ति, आजन्मन आमरणाच्च भवधारणत्वेनोपलम्भात् । उक्तञ्च
६६५
प्राणिस्येभिरात्मेति प्राणाः ।
कामिर्दुःखमाप्रोति जन्तुरत्र परत्र ताः । संज्ञाश्वतत्र आहार भी मैथुन - परिग्रहाः ||६०|| एकाक्षादिष्विमाः सर्वाः पर्याप्तेष्वितरेषु च । प्रमत्तान्तेष्वथाऽऽहारसंज्ञोनाः स्युरतो द्वयोः ।। ६१ ।। "पन्वस्वाथेऽनिवृत्यंशे द्वौ मैथुन - परिग्रहौ । संज्ञात्वेन ततः सूक्ष्मं यावत्संज्ञा परिग्रहे ।। ६२||
अत्राप्रमत्तनाम्न्यसद्वेद्यस्योदीरणाभावादाहारसंज्ञा नास्ति, कारणभूतकर्मोदयसद्भावादुपचारेण भयमैथुनपरिग्रहसंज्ञाः सन्तीति ।
जन्तोराहारसंज्ञा स्यादसातोदीरणे यथा । रिक्तकोष्ठताऽऽहारदृष्टस्तदुपयोगतः ||६३|| भयसंज्ञा भवेद् भीतिकृत्कर्मोंदीरणात्तथा । भीमस्य दर्शनात्तस्योपयोगात्सत्त्वहानितः ।।६४।। स्ववेदोदोरणात्संज्ञा मैथुनी वृष्यभोजनात् । स्त्रीषु संगोपयोगाभ्यां स्यात्पुंसः पुंसि च स्त्रियः ||६५॥ च शब्दादुभयोरपि षण्ढस्य । लोभोदीरणतश्चास्ति संज्ञा जन्तोः परिग्रहे । उपयोगीक्षणात्तस्योपयोगान्मूर्च्छनादपि ॥ ६६ ॥
काभिर्यासु वा जीवा मार्ग्यन्तेऽत्र यथास्थिताः । श्रुतज्ञाने विनिश्चेयास्ताश्चतुर्दश मार्गणाः ॥६७॥ गध्यक्षकाययोगाख्या वेदक्रोधादिवित्तयः । संयमो दर्शनं लेश्या भव्य सम्यक्त्वसंज्ञिनः ॥६८॥ | भाहारकश्च सन्ध्येता याश्चतुर्दश मार्गगाः । सदाचैराशु माग्यन्ते जीवा मिथ्याडगादयः ॥ ६६ ॥ ४|५|६|१५|३|४|८|७|४|६| २|६|२:२
अपर्याप्ता नरा गत्यां योगेष्वाहारकद्वयम् । मिश्रवैक्रियिकोपेतं संयमे सूक्ष्मसंयमः ॥७०॥ सम्यक्त्वे सासनो मिश्रस्तथौपशमिकं च तत् । सान्तरा मार्गणाचाष्टौ विकल्पा इति नापरे ॥ ७१ ॥
ral at १ त्रितयं योगे ३ एकः संयमे १ त्रयं सम्यक्त्वे ३ इत्यष्टौ सान्तरा मार्गणासु
समुदिताः ।
गतिकर्मकृता चेष्टा या सा निगदिता गतिः । संसारं वा यया जीवा भ्रमन्तीति गतिस्तु सा ||७२ || न रमन्ते यतो द्रव्ये क्षेत्रेऽथ काल-भावयोः । नित्यमन्योन्यतश्चापि तस्मात्ते सन्ति नारकाः ॥ ७३ ॥ तिरो यान्ति यतः पापबहुलाः संज्ञाभिरुत्कटाः । सर्वेष्वभ्यधिकाज्ञानास्तिर्यञ्चस्तेन कीर्त्तिताः ॥७४॥
१. सकाशात्, २. सकाशात्, ३. जीवति, ४. अप्रमत्तापूर्वयोः, ५. शेषपञ्चगुणस्थानेषु, ६. नवमगुणस्थानक पूर्वार्धे, ७. वक्रभावम् ।
८४
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org