________________
६६४
संस्कृत-पञ्चसंग्रह
कालुष्यसमिधानेऽपि द्विषदाक्रोशनादिभिः । अकालुष्यं मुनेः प्राहुस्तितिक्षाऽतिविचक्षणा ॥२१॥ जात्याद्यष्टमदावेशविनाशः खलु गार्दवम् । शुचिभिः सर्वतो लोभान्निवृत्तिः शौचमुच्यते ॥२२॥ वाङ्-मनोऽङ्गक्रियारूपयोगस्यावक्रताऽऽर्जवम् । अपि सत्सु प्रशस्तेषु साधुत्वा त्सत्यमुच्यते ॥२३ ।। प्राण्यक्षपरिहारः स्यात्संयमो यमिनां मतः । वासी गुरुकुले नित्यं ब्रह्मचर्यमुदीर्यते ॥२४॥ परं कर्मक्षयार्थ यत्तप्यते तत्तपः स्मृतम् । त्यागः सुधर्मशास्त्रादिविश्राणमुदाहृतम् ॥२५|| शारीरादिकमात्मीयमनपेच्य प्रवर्तनम् । निर्ममत्वं मुनेः सम्यगाकिञ्चन्यमुदीरितम् ॥२६॥ मनोवाकायभिक्षासूत्सर्गे शयनासने । विनये च यतेः शुद्धिः शुद्धयष्टकमुदाहृतम् ॥२७॥ सर्वशीलगुणयुक्तः कर्बुराचरणो यतिः । व्यक्ताव्यक्तप्रमादेषु वर्तमानः प्रमत्तकः ॥२८॥ कषायविकथानिद्राप्रणयाक्षः प्रमाद्यति । स्याच्चतुश्चतुरेकैकपञ्चसङ्ख्यैः प्रमादवान् ॥२६॥
।१।१५। सर्वे १५। निःप्रमादोऽप्रमत्ताख्यः स्यादस्खलितसंयमः । शमको न स चारित्रमोहस्य क्षपकश्च न ॥३०॥ प्रसक्तः शुभयोगेषु व्रतशीलगुणान्वितः । भवेत्समितिभिर्युक्तो गुप्तिभिानवानसौ ॥३१॥ ध्मायमानं यथा लौहं शुद्धयत्यशुभतो मलात् । अपूर्वकरणात्तद्वदपूर्वकरणै युतः ॥३२॥ करणो न समो भिन्नसमयस्थेषु येष्वसौ । भावारसमोऽसमाश्चैकसमयस्थेषु सन्ति ते ॥३३।। अपूर्वकरणाः कर्म न किञ्चित्क्षपयन्ति नो । शमयन्ति परं मोहशमन-क्षपणोद्यताः ॥३४॥ शुक्लध्यानसमारूढस्तत्रोपस्थितसंयतः । न प्राप्ताः करणाः पूर्व तेऽपूर्वकरणास्ततः ॥३५॥ संस्थानादिषु भेदेऽपि परिणामैः समानता । समानसमयस्थानां स्यायेषां तेऽनिवृत्तयः ॥३६॥ भाव शुद्धतरैःकर्मप्रकृतीः शमयन यतिः । क्षपयंश्चानिवृत्तिः स्यात्कषाये बादरे स्थितः ॥३०॥ ततः शुद्धतरै वर्गालयल्लोभकिट्टिकाम् । सूचमेतरामसौ ज्ञेयोऽनिवृत्ताख्यः स संयतः ॥३८॥ पूर्वापूर्व विभागस्थः स्पर्धकाख्यानुभागतः । योऽनन्तगुणहीनाणुलोभोऽसौ सूचमसंयतः ।।३६॥ यत्रोपशान्तिमायाति कषायो यन्त्र च क्षयम् । लोभसंज्वलनः सूचमसाम्परायः स संयतः ॥४०॥ कुसुम्भस्य यथा रागो गतोऽप्यस्त्यन्तरा तनुः । सूचमलोभयुतस्तद्वत्सूचमलोभो भवेदसौ ।।४।। यथाम्भः कतकेनाधोमले नीतेऽतिनिसलम् । उपर्यस्त्युपशान्ताख्यो मोहे शान्ते तथा यतिः ।।४२॥ मलं विना तदेवाग्भः पात्रेऽन्यत्र यथा कृतम् । स्यात्प्रसन्नं तथा क्षीणकषायो मोहसंक्षये ॥४३॥ घातिकर्मक्षयोत्पन्ननवकेवललब्धिमान् । प्रणेता विश्वतत्त्वानां सयोगः केवली भवेत् ॥४४॥ ज्ञान-दर्शन-चारित्र-वीर्य-सम्यक्त्व-दानयुक् । भीगोपभोगलाभाख्या नवकेवललब्धयः ॥४५॥ वेद्याऽऽयुर्नामगोत्राणि हुवा सद्ध्यानदेजसि । मुक्तिं निरास्रवो याति शीलेशोऽयोगकेवली॥४६॥ अष्टकर्मभिदः शीतीभूता नित्या निरअनाः । लोकारवासिनः सिद्धाः जयन्वष्टगुणान्विताः ॥४७॥ देव-श्वाभ्रेषु चत्वारि गुणस्थानानि पञ्च तु । तिर्यक्षु नृषु सर्वाणि यथास्वं चेन्द्रियादिषु ॥४८।। ज्ञायन्तेऽनेकधाऽनेकजीवास्तजातिजास्तु यैः । संक्षिप्तार्थतया जीवसमालास्ते चतुर्दश ॥४॥ चतुर्दशैकविंशत्या त्रिंशद्व्यष्टपडादिकाः । त्रिंशत्पश्चाष्टचत्वारिंशच्चतुःसप्तपूर्विका ॥५०॥ पञ्चाशद्दशजीवानां स्थाने ज्ञेया विकल्पकाः । सूचम-बादरभेदेन कायेन्द्रियवितर्कर्णः ॥५१॥ एकाक्षा बादराः सूचमा द्वयक्षाद्या विकलास्त्रयः । पञ्चाख्याः संश्यसंश्याख्याः सर्वे पर्याप्तकेतरे ॥५२।।
११११२।३॥४॥५॥५॥ एकेन्द्रियेषु चत्वारि जीवानां विकलेषु षट् । पञ्चाक्षेष्वपि चत्वारि स्थानान्येवं चतुर्दश ॥५३॥
१. धर्मार्थिषु । २. मोक्षार्थिषु । ३. उपकारकत्वात् । ४. दानम् । ५. कर्बुरं मिश्रं आचरणं यस्य स कर्बुराचरणः । ६. अपूर्वपरिणामैः । ७. परिणामः । ८. इन्द्रियादिमार्गणादिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org