________________
श्रीपालसुत-डड्ड-विरचिते संस्कृत-पञ्चसंग्रहे जीवसमासाख्यः प्रथमः संग्रहः
चतुर्णिकायामरवन्दिताय घातिजयावाप्तचतुष्टयाय ।
कुतीर्थतांर्जितशासनाय देवाधिदेवाय नमो जिनाय ॥१॥ षडद्रव्याणि पदार्थाश्व नव द्रव्यादिभेदतः । विजानतो जिनानत्वा वक्ष्ये जीवप्ररूपणाम् ।।२॥ स्थानयोगुण-जीवानां पर्याप्तौ प्राण-संज्ञयोः । मार्गणासूपयोगे च विंशतिः स्युः प्ररूपणाः ॥३॥
१४।१४।६।१०।४।१४ (४।५।६।१५।३।१६।।७।४।६।२।६।२।२) उपयोगाः १२ । जीवस्यौदयिको भावः क्षायिकः पारिणामिकः । क्षायोपशमिकोऽयौपशमिकोऽस्ति गुणाह्वयः ॥४॥ मोतं कुर्वन्ति मिश्रौपशमिकक्षायिकाभिधाः । बन्धमौदयिका भावाः निःक्रियाः पारिणामिकाः ॥५॥
भत्र निःक्रिया इति बन्धं मोक्षं च न कुर्वन्तीत्यर्थः । उदयादिभवैर्भावैर्जीवा यैर्लच्यतां गताः । गुणसंज्ञाः समादिष्टास्ते समस्तावभासिभिः ॥६॥ मिथ्याहक्सासनो मिश्रोऽसंयतो देशसंयतः । प्रमत्त इतरोऽपूर्वानिवृत्तिकरणावपि ॥७॥ सूचमोपशान्तक्षीणकषाया योग्ययोगिनौ । चतुर्दश गुणस्थानान्येवं सिद्धास्ततोऽपरे ।।८।। मिथ्यात्वस्योदयाज्जीवः स्यान्मिध्याहग जिनोदितम् । श्रद्दधाति न तत्त्वार्थ जीवाजीवानवादिकम् ।।६।। मिथ्यात्वोदयवान् जीवो जायते विपरीतक । रुचिमात्रं न धर्मेऽस्ति ज्वरिवन्मधुरे रसे ॥१०॥ सासादनः प्रकर्षण सम्यक्त्वस्याऽऽदिमस्य तु । शेपेऽस्त्यावलिकाषटके समये च जघन्यतः ॥११॥ सम्यक्त्वात्प्रथमाद् भ्रष्टो मिथ्यास्थानमसादयन् । सासादनोऽस्त्यनन्तानुबन्ध्यन्यतमपाकतः ॥१२॥ सम्यग्मिथ्यात्वपाकेन सम्यग्मिध्याहगाह्वयः । मिश्रभावो भवेजीवो मिश्रं दधिगुडं यथा ।।१३।। मिश्रं दधिगुडं नैव कतुं याति यथा पृथक । मिश्रभावस्तथा सम्यग्मिथ्यादृष्टिरितीरितः ॥१४॥ विरतो नेन्द्रियार्थेभ्यस्त्रसस्थावरहिंसकः । पाकाचारित्रमोहस्य त्रिसम्यक्त्वोऽस्त्यसंयतः ॥१५॥ युक्तोऽष्टान्त्यकपायर्यः स्थावरेन्द्रियसंयमैः । नाऽप्यथ[युक्तः]सम्यक्त्वाकादशगुणैश्च सः ॥१६॥ न हन्ता सजीवानां स्थावराणां तु हिंसकः । एकस्मिन् समये जीवः संयतासंयतः स्मृतः ।।१७।। . संयते वाऽऽत्मसात्कुर्वन् यः प्राणीन्द्रियसयमम् । किश्चित्स्खलितचारित्रः प्रमत्तोऽसौ प्रमादतः ॥१८॥ सवाल-नोकायाणां यस्मात्तीवोदयो यतेः । प्रमादः सोऽस्यनुत्साहो धर्म शुद्धयष्टके तथा ॥१६॥ तितिक्षा मार्दवं शौचमार्जवं सत्य-संयमौ । ब्रह्मचर्य तपस्त्यागाऽऽकिञ्चन्ये धर्म उच्यते ॥२०॥
१. अनाश्रयन् । २. सम्यक्त्वायेकादशप्रतिमालक्षणैर्गुणैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org