SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ जीवसमासाख्यः प्रथमः संग्रहः चतुर्थे दिवसाः सप्त पञ्चमे तु चतुर्दश । गुणे 'प्रथमहच्छेदस्ततः पञ्चदश द्वयोः ॥२५२॥ मुहूर्ताः पञ्चचत्वारिंशत्पञ्चदश वासराः । मासा एक-द्वि-चत्वारः षट् द्वादश च सान्तरम् ॥२५३॥ रत्नादिषु औपशमिकसम्यक्त्वस्य । मनःपर्यय आहारयुग्मं सम्यक्त्वमादिमम् । परीहारयमोऽस्त्येषां यधिकत्वत्र नापरः ॥२५४॥ अत्र मनःपर्ययज्ञानेन सहोपशमश्रेण्या अवतीर्य प्रमत्तगुणं प्रपन्नस्योपशमसम्यक्त्वेन सह मन:पर्ययज्ञानं लभ्यते न पश्चात्कृतमिथ्यात्वस्योपशमसम्यग्दृष्टेः प्रमत्तस्य च तत्रोत्पत्तिसम्भवाभावात् । आहारद्धिः परीहारो मनःपर्यय इत्यमी । तीर्थकृच्चोदये न स्युः स्त्री-नपुंसकवेदयोः ॥२५५॥ प्रमाण-नय-निक्षेपानुयोगादिषु विंशति । भेदान् विमार्गयन्नस्ति जीवसद्भाववेदकः ॥२५६॥ जीवस्थान-गुणस्थान-मार्गणास्थानतत्व वित् । तपोनिर्जीर्णकर्मात्मा निर्योगः सिद्धिमृच्छति ॥२५॥ इति जीवसमासाख्यः प्रथमः संग्रहः समाप्तः । १. उपशमसम्यक्त्वाभावः । २. प्रमत्ताप्रमत्तयोः। ३. उदये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy