________________
प्रकृतिसमुत्कीर्तनाख्यः द्वितीयः संग्रहः
मुक्तं प्रकृतिबन्धेन प्रकृतिस्वात्मदेशकम् । प्रगम्योरुश्रियं वीरं वक्ष्ये प्रकृतिकीर्तनम् ॥१॥ ज्ञानदर्शनयो रोधौ वेद्यं मोहायुषी तथा। नाम-गोत्रान्तरायौ च मूलप्रकृतयोऽष्ट वै ॥२॥ क्रमात्पन्च नव द्वे च विंशतिश्चाष्टसंयुताः । चतस्रस्यधिका नवतिद्वै पम्चोत्तरा मताः ॥३।। तत्र प्रकृतयः पञ्च ज्ञानरोधस्य रुन्धतः । मतिश्रतावधीन् जन्तोर्मनः पर्ययकेवले ॥४॥ निद्रानिद्वादिका ज्ञया प्रचलाप्रचलादिका । स्त्यानगृद्धिस्तथा निद्रा प्रचला च प्रकीर्तिता ॥५॥ वृक्षाग्रे वाऽथ रथ्यायां तथा जागरणेऽपि वा । निद्रानिद्राप्रभावेन न दृष्टय द्धाटनं भवेत् ॥६॥ स्यन्दते मुखतो लालां तनुं चालयते मुहुः । शिरो नमयतेऽत्यर्थ प्रचलाप्रचलाक्रमः ॥७॥ स्वपित्युत्थापितो भूयः स्वयं कर्म करोति च । अबद्धं वा प्रलपति स्त्यानगृद्धिक्रमो मतः ॥८॥ यान्तं संस्थापयत्याशु स्थितमासयते शनैः । आसितं शाययत्त्येव निद्रायाः शक्तिरीदशी ॥६।। किञ्चिदन्मीलितो जीवः स्वपित्येव मुहमुहः । ईषदीपद्विजानाति प्रचलालक्षणं हि तत् ॥१०॥ चक्षषोऽचक्षपोष्टरवधेः केवलस्य च । रोधो दर्शनरोधस्य नव प्रकृतयो मताः ॥११॥ वेद्यस्य प्रकृती द्वे तु सातासातानुवेदिके । अष्टाविंशतिसंख्याना मोहनीयस्य तद्यथा ॥१२॥ मोहनं द्विविधं दृष्टश्चारित्रस्य च मोहनात् । दृग्मोहस्तत्र मिथ्यात्वं तत्स्यादेकं तु बन्धतः ॥१३॥ तच्च सम्यक्त्व मिथ्यात्व सम्यग्मिथ्यात्वभेदतः । सत्कर्म तु पुनस्तस्य दृग्मोहस्य निधा भवेत् ॥१४॥ यत्तच्चारित्रमोहाख्यं कर्म तद् द्विविधं मतम् । कषायवेदनीयं स्यानोकषायाभिधं परम् ॥१५॥ कषायवेदनीयं तु तत्र षोडशधा भवेत् । क्रोधो मानस्तथा माया लोभोऽनन्तानुबन्धिनः ॥१६॥ तथा त एव वाऽप्रत्याख्यानावरणसंज्ञकाः । प्रत्याख्यानरुधश्चातस्तथा संज्वलनाभिधाः ॥१७॥ नवधा नोकषायाख्यं स्त्रीवेदो नपुंसकम् । हास्यं रत्यरती शोको भयं सार्क जुगुप्सया ॥१८।।
उक्कन्चषोडशव कषायाः स्यु!कषाया नवेरिताः । ईषभेदो न भेदोऽत्र कषायाः पञ्चविंशतिः ॥१६॥ श्वभ्रतिर्यनदेवायु दादायुश्चतुर्विधम् । पिण्डापिण्डाभिधा नाम्ना द्वाचत्वारिंशदीरिताः ॥२०॥ पिण्डाश्चतुर्दशैतासामष्टाविंशतिरन्यथा।
पिण्डाः १४ । भपिण्डा: २८ । मोलिताः ४२ ।
गतिर्जातिः शरीरं तबन्धसङ्घातयोयम् ॥२१॥ संस्थानं तस्य तस्याङ्गोपाङ्गं तस्यैव संहतिः । वर्णगन्धरसस्पर्शाः आनुपूर्वी च तीर्थकृत् ॥२२॥ निर्माणागरुलध्वाख्य उपंधातोऽन्यघातयुक् । उच्छास भातपोद्योती विहायोगतिरित्यसः ॥२३॥ त्रसं बादर-पर्याप्त प्रत्येकं च स्थिरं शुभम् । सुभगं सुस्वरादेये यश-कीर्तिश्च सेतराः ॥२४॥ श्वभ्रतियङनदेवानां गतिनाम चतुर्विधम् । एकेन्द्रियादिभेदेन जातिनामापि पन्चधा ॥२५।।
औदारिकं तथा वैक्रियिकमाहार-दैजसे । कार्मणं चेति भेदेन कायनामास्ति पन्चधा ॥२६॥ बन्धनात्पन्चकायानां बन्धनं पञ्चधा स्मृतम् । एतेषामेव सङ्घातासङ्घातोऽपि च पञ्चधा ॥२७॥ समादिचतुरन हि न्यग्रोधं साति-कुब्जके । वामनं हुण्डकं चेति षोढा संस्थानमिष्यते ॥२८॥ औदार्यादित्रिदेहानामाङ्गोपाङ्ग त्रिधा मतम् । स्याद्वज्रर्षभनाराचं वज्रनाराचमेव च ॥२६॥ नाराचमर्धनाराचं कीलिका चासपाटिका । असम्प्राप्तपरा'षोढत्येवं संहननं मतम् ॥३०॥
१. असम्प्राप्तमुपाटिकमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org