Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
शतकाख्यः चतुर्थः संग्रहः
६१७ अत्र द्वितीयपञ्चविंशतौ परघातोच्छासविहायोगतिस्वरनाम्नामपर्याप्तेन सह बन्धो नास्ति, विरोधात्, अपर्याप्तकाले चैषामुदयाभावाच्च । अत्र चत्वारो जातिभङ्गाः ४ । अयोविंशतिरेकाक्षं तिर्यद्वितयकार्मणे । तेजोऽशुभं तथौदार्यदुर्भगागुरुलध्वपि ॥१४७॥ हुण्डं वर्णचतुष्कं चोपधातमयशोऽस्थिरम् । सूचम-वादरयोरेकमेकं साधारणान्ययोः ॥१४॥ स्थावरापूर्णनिर्माणानादेयानि च वामहक । सतियंग्गत्यपर्याप्तकाक्षं बन्धात्यमुमपि ॥१४॥
अनाङ्गोपाङ्गसंहननबन्धो नास्ति, एकेन्द्रियेष्वङ्गोपाङ्गसंहननयोरुदयाभावात् । अत्र बादर-सूचमभङ्गयोः प्रत्येकसाधारणभङ्गगुणनायां चत्वारो भङ्गाः ४ ।
एवं तिर्यग्गतियुक्ताः सर्वे भङ्गाः १३०८ । दशभिर्नवभिर्युक्ता विंशतिः पञ्चभिः व्रमात् । बन्धस्थानानि युक्तानि नृगत्यां त्रीगि नामनि ।।१५०॥
३०२६।२५। त्रिंशदेशाऽत्र पञ्चाक्ष नृद्वयौदारिकद्वये । सुस्वरं सुभगादेयमाद्य संस्थान-संहती ॥१५॥ शुभस्थिरयशोयुग्मैकतराणि च सद्गतिः । वर्णाद्यगुरुलध्वादिवसादिकचतुष्टयम् ॥१५२॥ तीर्थकृत्कार्मणं तेजो निर्मिद्व नात्यसंयतः। एतां नृगतिपञ्चाक्षपूर्णतीर्थकरैर्युताम् ॥१५३॥
अन प्रथम त्रिंशति दुर्भगदुःस्वरानादेयानां तीर्थकरेण सम्यक्त्वेन च सह विरोधान्न बन्धः, सुभगसुस्वरादेयानामेव बन्धः । तेन त्रीण्येवान युग्मानि २।२।२ । अन्योन्यगुणानि भङ्गा । हीना तीर्थकृता त्रिंशदेकान्नत्रिंशदस्त्यमूम् । युक्ता मनुष्यगत्याचे बंधनीतो मिश्र-निव्रतौ ॥१५४॥
अत्राष्टौ भङ्गाः ८ पुनरुक्ता इति न गृहीताः, वक्ष्यमाणैकान्नत्रिंशद्भङ्गेषु प्रविष्टत्वात् । द्वितीयाप्येवमेकाम्नत्रिंशदेकतरैरियम् । युग्मानां सुस्वरादेयसुभगानां त्रिभिर्युता ॥१५५॥ एतां संहति-संस्थानषट कैकतरसंयुताम् । सनभोगतियुग्मैकतरां बध्नाति वामह ॥१५६॥
अत्रैषां २।२।२।२।२।२।६।६।२ परस्परवधे भङ्गाः ४६०८ । तृतीयापि द्वितीयेव बध्नात्येतां च सासनः । त्यक्त्वा हुमसम्प्राप्तं तरछेकतरान्विताम् ॥१५७॥
___ अत्रैषां २।२।२।२।२।२।५।५।२ अन्योन्यवधे भङ्गाः ३२०० । एते पुनरुक्ता इति न गृहीताः । स्यास्पञ्चविंशतिरत्र मनुष्य द्विककार्मणे । तेजोऽसम्प्राप्तहुण्डानि पञ्चाक्षौदारिकद्वये ॥१५८॥ प्रत्येकागुरुलध्वाह्वस्थूलापर्याप्तदुर्भगम् । वसं वर्णचतुष्कं चानादेयमयशोऽस्थिरे ॥१५६॥ निर्माणं चाशुभं चोपघातोऽभूमादिमोऽर्जयेत् । मनुष्यगत्यपर्याप्तयुजं पञ्चाक्षसंयुताम् ॥१६०॥
२५
अत्र पञ्चविंशतौ संक्लेशेन बध्यमानापर्याप्तेन सह स्थिरादीनां विशुद्धिप्रकृतीनां बन्धो नास्ति, तेन भगः ।
एवं मनुष्यगतेः सर्वभङ्गाः ४६१७ । एकत्रिंशंदतस्त्रिंशन्नवाष्टाने च विंशती। चत्वार्यमरगत्याऽमा निर्गत्येकं तु पञ्चमम् ॥१६॥
३१॥३०॥२६॥२८।१। तकत्रिंशदेपाऽत्र देवद्वितयकामणे । पञ्चाक्षमाद्यसंस्थानं तेजोवै कियिकद्वयम् ॥१६२॥ वर्णाद्यगुरुलध्वादि सादि च चतुष्टयम् । सुभगं सुस्वरं शस्तनभोगतियशःशुभम् ॥१६३॥ स्थिराऽऽहारद्विकाऽऽदेयं निर्माणं तीर्थकृत्तथा । बध्नाति चाप्रमत्तोऽमूमपूर्तकरणस्तथा ॥१६॥ देवगत्या च पर्याप्तपञ्चाक्षाऽऽहारकद्वयैः । युक्तं तीर्थकृता चकत्रिंशस्थानमिदं भवेत् ॥१६५॥
अत्र देवगत्या सह संहननानि न बध्यन्ते, देवेषु संहननानामुदयाभावात् । अत्र भङ्गः । ८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872