Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 735
________________ ६६८ संस्कृत पञ्चसंग्रहे अस्याप्यर्थः-स्त्रीपुनपुंसका जीवा द्रव्य-भावाभ्यां सदृशाः प्रायो भवन्ति, विसदृक्षाश्च सम्भवन्ति । कथम् ? द्रव्यतः पुंवेदस्यापि भावतः स्त्रीवेदयो भवति, द्रव्यतः स्त्रीवेदस्यापि भावतः पुंवेदोदयः स्यादित्यादि। __पुनरपि भाव-द्रव्यवेदमाहमार्दवक्लैव्यपुंस्कामनादीन् भावान् दधाति यत् । स्त्रैणान्' यस्माच्च गर्भोऽस्यां स्त्यायति स्त्रीत्यतोऽस्ति सा । १३३। ति चात्मानं पुरुषं वाऽभिकात्तति । सदाऽऽच्छादनशीला च तेन सा स्त्रीति वर्णिता ॥१३४।। पारुष्य-रभसत्व-स्त्रीकामनादीन् दधाति यत् । पौंस्नान् भावान् पुमान् तेन भवेत्पुरुगुणश्च यत् ॥१३५।। कुर्यात्पुरुगुणं कर्म शेते पुरुगुणेषु च । आकाङ्क्षति स्त्रियं सूतेऽपत्यं यत्पुरुषस्ततः ।।१३६॥ अत्र शेते प्रमदयति, सूते जनयति । भावतो न पुमान स्त्री द्वयाकाङ्क्षो नपुंसकः । स्त्रीरूपो नररूपश्व पापोऽभ्यधिकवेदनः ।।१३७॥ कारीषाग्नि-तृणाग्निभ्यां सदृशो नेष्टकाग्निना । वेदत्रयेण निर्मुक्ता जिनाः सन्ति सुखात्मकाः ।।१३८।। कर्मक्षेत्रं कृषन्त्येते सुख-दुःखाख्यशस्यभृत् । यच्चतुर्गतिपर्यन्तं कषायास्तेन कीर्तिताः ॥१३॥ भत्र कृषन्ति फलवत्कुर्वन्ति । चारित्रपरिणामं वा कर्षन्तीति कषायकाः । ऋन्मानवाचनालोभाः प्रत्येकं ते चतुर्विधाः ॥१४॥ सन्त्यनन्तानुबन्ध्याख्याः अप्रत्याख्यानसंज्ञकः । ते प्रत्याख्याननामानस्तथा संज्वलनाभिधाः ।।१४१॥ आद्याः सम्यक्त्व-चारित्रे द्वितीया घ्नन्त्यणुव्रतम् । तृतीयाः संयमं तुर्या यथाख्यातं ऋधादयः ॥१४२॥ दृषभूमिरजोवारिराजीभिः क्रोधतः समात् । श्वभ्रतिर्यग्नूदेवेषु जीवो याति चतुर्विधात् ॥१४३।। शिलास्तम्भास्थिकाष्ठालतातुल्याच्चतुर्विधात् । श्वभ्रतिर्यग्नूदेवेषु जायते मानतोऽसुमान् ॥१४४।। मायया वंशमूलाविशृङ्गगोमूत्रचामरैः । श्वभ्रतिर्यग्नृदेवेषु जन्तुजति तुल्यया ॥१४५॥ कृमिनीलीहरिद्राङ्गमलरागैः समाद् व्रजेत् । श्वभ्रतिर्यग्नदेवेषु प्राणी लोभाच्चतुर्विधात् ॥१४६।। क्रुधः श्वाभ्रेषु तिर्यक्षु मायायाः प्रथमोदयः । नृषूत्पन्नस्य मानस्य स्याल्लोभस्य सुरेषु हि ॥१७॥ मतेनापरसूरीणां समुत्पन्नेषु जन्तुषु । गतिध्वनियमेन स्युः क्रोधादिप्रथमोदयः ।।१४८।। स्व-परोभयबाधाया वधस्यासंयमस्य च । येषां हेतुः कषाया नो निःकषाया हि ते जिनाः ॥१४९।। स्थित्युत्पादव्ययैर्युक्तं गुणपर्ययवच्च यत् । द्रव्यं जीवादि याथात्म्यावगमो ज्ञानमस्य तत् ।।१५०॥ इन्द्रियर्मनसा चाथग्रहणं यन्मतिस्तु तत् । ज्ञानमस्य विकल्पाः स्युः षत्रिंशत्रिशतप्रमाः ॥१५॥ मतिपूर्व श्रुतं तच्च द्वयनेकद्वादशात्मकम् । शब्दादग्न्यादिविज्ञानं धूमादिभ्योऽपि च श्रुतम् ॥१५२।। तथा चोक्तम्-शब्दधूमादिभ्योऽर्थावगमः श्रतम् । अवाच्यानामनन्तांशो भावाः प्रज्ञाप्यमानकाः । प्रज्ञाप्यमानभावानामनन्तांशः श्रुतोदितः ॥१५३|| मूर्त्ताशेषपदार्थान् यज्ज्ञानं साक्षात्करोत्यसौ । अवधिः स्यादवाग्धानात्क्षायोपशमिकश्च सः॥१५॥ देवानां नारकाणां च स्याद् भवप्रत्ययोऽवधिः । क्षयोपशमहेतुस्तु स्याच्लेषाणां च षडविधः ।।१५५।। अनुगोऽननुगामी च तदवस्थानवस्थितः । प्रवृद्धो हीयमानः स्यादित्थं षडविधोऽवधिः ।।१५६॥ श्वाभ्रतिर्यग्नदेवानामेको देशावधिर्भवेत् । परमावधि-सर्वावध्यभिधं यतिषु द्वयम् ॥१५॥ तीर्थकृच्छ्रानदेवानां सर्वाङ्गोत्थोऽवधिर्भवेत् । नृ-तिरश्चां तु शङ्खाजस्वस्तिकाद्यङ्गचिह्वजम् ॥१५॥ ___ अत्र शङ्खाब्जस्वस्तिकश्रीवत्सध्वजकलशनन्द्यावर्तहलादीन्यवधेरुत्पत्तिक्षेत्रसंस्थानानि तिर्यङ्-मनुष्याणां नाभेरुपरिमभागे भवन्ति, नाधस्तात् । विभङ्गास्तु पुनः सरटाद्यशुभाकृतीन्युत्पत्तिस्थानानि नाभेरधस्ताद्भवन्ति, नोपरिष्टात् । १. स्त्रियाः इमे स्त्रैणाः, तान् स्त्रैणान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872