Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 736
________________ जीवसमासाख्यः प्रथमः संग्रहः ६६६ मनसाऽन्यमनो यातं साक्षादर्थं करोति यः । स मनःपर्ययो भेदावस्यर्जुविपुले मती ॥१५॥ मनःपर्ययबोधः स्यात्संयतेषु प्रकर्षतः । क्षेत्रे नृलोकमात्रे च मूर्तद्रव्यप्रकाशकम् ॥१६०॥ त्रिलोकगोचराशेषपदार्थान् विदधाति यत् । सामाजिनैरनन्तं तत्केवलज्ञानमीरितम् ॥१६॥ मिथ्यात्वेन सहैकार्थसमवायाद्विपर्ययम् । जनयेद्यत्तु रूपादौ तन्मत्यज्ञानमधजम् ॥१६२॥ यग्छब्दप्रत्ययं ज्ञानं मिथ्यात्वेन च सङ्गतम् । धर्म रिक्ततया तुच्छं श्रुताज्ञानं वदन्ति तत् ॥१६३॥ मिथ्यात्वसमवेतो यः पर्याप्तस्यास्ति देहिनः । अवधिः स विभङ्गाख्यः क्षयोपशमसम्भवः ॥१६४।। कषाया नोकषायाश्च भेदाश्चारित्रमोहने । तेषामुपशमादौपशमिकं हायिक क्षयात् ॥१६५॥ द्वादशाद्याः कषाया ये स्युस्तेषामुदयक्षयात् । तत्सत्तोपशमान्मिश्रं चारित्रं संयमाभिधम् ॥१६६॥ चतुःसंज्वलनेष्वन्यतमपाकाच्च तत्तथा । नवानां नोकरायाणां यथासम्भवपाकतः ॥१६७॥ व्रतानां धारणं दण्डत्यागः समितिपालनम् । कषायनिग्रहोऽक्षाणां जयः संयम इष्यते ॥१६॥ व्रतानामेकभावेन यदात्मन्यधिरोपणम् । नियतानियतः कालः स्यात्सामायिकसंयमः ॥१६॥ व्रतानां भेदरूपेण यदात्मन्यधिरोपणम् । व्रतलोपे विशुद्धिर्वा छेदोपस्थापनं तु तत् ॥१७॥ परिहृत्यव सावधं सम्यक समिति-गुप्तिभिः । यदासौ प्राप्यते तेन स्यात्परिहारसंयमः ॥१७१७ यः सूचनसाम्परायाख्ये शमके सपकेऽपि वा। स्यात्सूचमसाम्परायोऽसौ संयमः सूचमलोमतः ॥१७२॥ चारित्रमोहनीयस्य क्षयेणोपशमेन वा । अवाप्नुतो यथाख्यातं छमस्थौ यदि वा जिनौ ॥१७३॥ संयतेषु चतुर्वाधौ परिहारस्तथाऽऽद्ययोः। सूचमे स्यासंयमः सूचमो यथाख्यातश्चतुवतः ॥१७४॥ सघातानिवृत्तो यः प्रवृत्तः स्थावराईने । जीवः श्रावकधर्म स संयमासंयम श्रितः ॥१७५॥ दर्शन्यणुवतश्चैव स सामायिक इत्यपि । प्रोषधी विरतश्चैव सचित्तादिनमैथुनात् ॥१७६॥ ब्रह्मवती निरारम्भः श्रावको निःपरिग्रहः । निरनुज्ञो निरनुद्दिष्टः स्यादेकादशधेति सः ॥१७७॥ अष्टौ स्पर्शा रसाः पञ्च द्वौ गन्धौ वर्णपञ्चकम् । पड्जादयः स्वराः सप्त दुर्मनोऽक्षेष्वसंयमः ॥१७॥ इत्यष्टाविंशतिर्जीवसमासेपु चतुर्दश । नैतेभ्यो विरता ये स्युर्जीवास्ते सन्त्यसंयताः ॥३७६॥ इन्द्रियेष्वसंयमाः २८ । जीवेष्वसंयमाः १४ । रूपादिग्राहकत्वेन सामान्याख्यस्य वेदनम् । आत्मनो द्वन्तरङ्गं यदर्शनं तजिनोदितम् ॥१०॥ तच्चक्षदर्शनं ज्ञेयं चक्षषा यत्प्रकाशते । शेषेन्द्रियप्रकाशस्त्वचक्ष दर्शनमीरितम् ॥१८॥ परमाण्वन्त्यभेदानि रूपिद्रव्याणि पश्यति । सम्यक् प्रत्यक्षरूपेण यत्तच्चावधिदर्शनम् ।।१८२।। उद्योता बहवः सन्ति नियते क्षेत्रगोचराः । केवलो दर्शनोद्योतः पुनर्विश्वं प्रकाशते ।।१८३॥ लेश्या योगप्रवृत्तिः स्यात्कषायोदयरञ्जिताः । भावतो द्रव्यतोऽङ्गस्य छविः षोढोभयी तु सा ॥१८॥ कृष्णा नीलाऽथ कापोती पीता पद्मा सिता च षट् । लेश्याः सन्यात्मसारकुर्वन्त्याभिः कर्माणि जन्तवः ।१८५। धराऽप्तेजोमरुक्षकायिकेषु यथाक्रमम् । लेश्याः स्युः षट् सिता पीता कापोता षट् च जन्तुषु ॥१८६।। अत्र पण्णां लेश्यानां शरीरमाश्रित्य प्ररूपणा-तत्र बादरपर्याप्त पृथिवीकायिकानां पडलेश्यानि शरीराणि । तथा अप्कायिकानां शुकुलेश्यानि । अग्निकायिकानां तेजोलेश्यानि । वातकायिकानां कापोतलेश्यानि । वनस्पतिकायिकानां षड्लेश्यानीति श्लोकार्थः । सर्वसूचमेपु कापोता सर्वांपर्याप्तकेषु च । लेश्या सर्वेषु शुक्लेका विग्रहतौ गतेषु च ॥१८॥ अत्र सर्वेषां सूचमाणां शरीराणि कापोतलेश्यानि । सर्वे चापर्याप्ताः कापोतलेश्याङ्गाः । सर्वेषां च विग्रहगतौ शुक्ललेश्यानि शरीराणि । १. सहितः । २. सरागचारि इति औपरामिकादि त्रिविधं चारित्रं भावसंग्रहोक्तं ज्ञेयम् । ३. संयमः । ४. दीप-चन्द्रादयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872