Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 624
________________ पाइय-वित्ति सहिओ माया चमरि-गोमुत्ति-विसाण - वंसमूलसमा । हालिद - कद्दम- णिली- किमिरागसमो हवे लोहो ||१५|| संयोजयन्ति भवमनन्तसंखेयभवः (?) कषायास्ते संयोजनावानन्ता (?) वानन्तानुबन्धिता बाधकतास्तेषाम् । स्तृणाति छादयति आत्मपरदोषमिति स्त्री । पुरु कर्माणि करोतीति पुरुषः । न पुमान्, न स्त्री नपुंसकम् | इसनं हासः । रमणं रतिः । न रतिः अरतिः । शोचनं शोकः । भीतिर्भयम् । जुगुप्सनं जुगुप्सा । [नारकाः] नारकभवधारक इत्यर्थः । [तिर्यगायुः ] तिर्यग्भवधारक इत्यर्थः । [मनुष्यायुः ] मनुष्य भवधारक इत्यर्थः । [देवायुः ] देवभवधारक इत्यर्थः । ५५७ गतिर्भवः संसार इत्यर्थः । यदि गतिनामकर्म न स्यात्, अगतिः एव जीवः स्यात् । पुनर्भवनिर्वर्तकं गतिनाम । जातिः लब्धिः प्राप्तिः शक्तिरित्यर्थः । यदि जातिनामकर्म न स्यात् जीवस्यालब्धिः स्यात् । अत इन्द्रियाणां लब्धिनिर्वर्तकं जातिनाम । यदि शरीरनामकर्म न स्यात्, अशरीरी आत्मा स्यात् । अतः शरीरनिर्वर्तकं शरीरनाम । यदि शरीरबन्धननामकर्म न स्यात्, परस्परेणाबन्धनं शरीरस्य स्यात् सिकतापुरुषवत् । अतः परस्परेण शरीरप्रदेशबन्धननिर्वर्तकं शरीरबन्धननाम | यदि शरीरसंघातनामकर्म न स्यात् तिलमोदकवत् शरीरं स्यात् । अयःपिण्डवदेकीकरणं शरीरसंघातनाम । समप्रतिभागेन शरीरावयवसन्निवेशव्यवस्थापनं कुशल शिल्पिनिर्वर्तितं अवस्थित चक्रवत् अवस्थानकरणं समचतुरस्रसंस्थानं नाम । नाभेरुपरिष्टाद् भूयसो देहसन्निवेशस्य अधस्ताचाल्पशो जातं न्यग्रोधपरिमण्डलसंस्थानं नाम । न्यग्रोधाकारसमताप्राप्तितार्थः (?) तद्विपरीतसन्निवेशकं सातिसंस्थानं नाम । वाल्मीकतुल्याकारम् । पृष्ठकप्रदेश भाविबहुपुद्गलप्रचयविशेषलक्षणस्य निर्वर्तकं कुब्ज संस्थाननाम । सर्वाङ्गोपाङ्गह्रस्वव्यवस्था विशेषकरणं वामनसंस्थानं नाम | सर्वाङ्गोपाङ्गानां हुण्डसंस्थितव्यं हुण्डसंस्थाननाम । यदि संस्थाननामकर्म न स्यात्, लोष्ठवत् [ शरीरं स्यात् ] अतः शरीर संस्थान निर्वर्तकं संस्थाननाम । यद्यङ्गोपाङ्गनामकर्म न स्यात् लोष्ठवत् । अतः अङ्गोपाङ्ग निर्वर्तकं अङ्गोपाङ्गनाम । तत्र तावदङ्गानि [पादौ] बाहू पृष्ठवत्नोसिरसि ( नितम्ब -शिरांसि ) । शेषाण्युपाङ्गानि । उक्तं च या बाहूय तहा णियंत्र पुट्ठी उरो य सीसो य । १ अव अंगाई देहे सेसा उवंग इ " || १६ | वज्राकारोभयास्थिसन्धिः । प्रत्येकमध्ये सवल्यबन्धनं सनाराचसंगूढनं वज्रर्षभनाराचशरीरसंहनननाम | तदेवोभयवज्राकारो संप्राप्तवलयवन्धनं वज्रनाराचशरीरसंहनननाम । तदेवोभयवज्राकारत्वव्यपेतमवलयबन्धनं सनाराचशरीरसंहनननाम । तदेवैकपार्श्व सनाराचमितरमनाराचमर्धनाराचशरीरसंहननं नाम । तदुभयविरहितमन्ते सकीलिका नाम शरीरसंहननं नाम । अन्तरे प्राप्त (?) परस्परास्थिसन्धि बहिः शरीरछाद्र (?) मांसघटितमसंप्राप्तासृपाटिकासंहननं नाम । यदि संहनननामकर्म न स्यात्, असंहननशरीरः स्यात्, देवशरीरवत् । अतः संहनननिर्वर्तकं संहनननाम अस्थिबन्धनमित्यर्थः । Jain Education International यदि वर्णनामकर्म न स्यात्, अवर्णं शरीरं स्यात्, नानावर्णं वा स्यात् । अतः वर्णनिर्वर्तकं वर्णनाम । यदि गन्धनामकर्म न स्यात् नानागन्धमगन्धं वा शरीरं स्यात् । अतः गन्धनिर्वर्तकं गन्धनाम | यदि रसनामकर्म न स्यात्, नानारसं अरसं वा शरीरं स्यात् । अतः रस निर्व १. गो० क० २८ । कम्मप० ७४ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872