________________
पाइय-वित्ति सहिओ
माया चमरि-गोमुत्ति-विसाण - वंसमूलसमा ।
हालिद - कद्दम- णिली- किमिरागसमो हवे लोहो ||१५||
संयोजयन्ति भवमनन्तसंखेयभवः (?) कषायास्ते संयोजनावानन्ता (?) वानन्तानुबन्धिता बाधकतास्तेषाम् ।
स्तृणाति छादयति आत्मपरदोषमिति स्त्री । पुरु कर्माणि करोतीति पुरुषः । न पुमान्, न स्त्री नपुंसकम् | इसनं हासः । रमणं रतिः । न रतिः अरतिः । शोचनं शोकः । भीतिर्भयम् । जुगुप्सनं जुगुप्सा ।
[नारकाः] नारकभवधारक इत्यर्थः । [तिर्यगायुः ] तिर्यग्भवधारक इत्यर्थः । [मनुष्यायुः ] मनुष्य भवधारक इत्यर्थः । [देवायुः ] देवभवधारक इत्यर्थः ।
५५७
गतिर्भवः संसार इत्यर्थः । यदि गतिनामकर्म न स्यात्, अगतिः एव जीवः स्यात् । पुनर्भवनिर्वर्तकं गतिनाम । जातिः लब्धिः प्राप्तिः शक्तिरित्यर्थः । यदि जातिनामकर्म न स्यात् जीवस्यालब्धिः स्यात् । अत इन्द्रियाणां लब्धिनिर्वर्तकं जातिनाम । यदि शरीरनामकर्म न स्यात्, अशरीरी आत्मा स्यात् । अतः शरीरनिर्वर्तकं शरीरनाम । यदि शरीरबन्धननामकर्म न स्यात्, परस्परेणाबन्धनं शरीरस्य स्यात् सिकतापुरुषवत् । अतः परस्परेण शरीरप्रदेशबन्धननिर्वर्तकं शरीरबन्धननाम | यदि शरीरसंघातनामकर्म न स्यात् तिलमोदकवत् शरीरं स्यात् । अयःपिण्डवदेकीकरणं शरीरसंघातनाम । समप्रतिभागेन शरीरावयवसन्निवेशव्यवस्थापनं कुशल शिल्पिनिर्वर्तितं अवस्थित चक्रवत् अवस्थानकरणं समचतुरस्रसंस्थानं नाम । नाभेरुपरिष्टाद् भूयसो देहसन्निवेशस्य अधस्ताचाल्पशो जातं न्यग्रोधपरिमण्डलसंस्थानं नाम । न्यग्रोधाकारसमताप्राप्तितार्थः (?) तद्विपरीतसन्निवेशकं सातिसंस्थानं नाम । वाल्मीकतुल्याकारम् । पृष्ठकप्रदेश भाविबहुपुद्गलप्रचयविशेषलक्षणस्य निर्वर्तकं कुब्ज संस्थाननाम । सर्वाङ्गोपाङ्गह्रस्वव्यवस्था विशेषकरणं वामनसंस्थानं नाम | सर्वाङ्गोपाङ्गानां हुण्डसंस्थितव्यं हुण्डसंस्थाननाम । यदि संस्थाननामकर्म न स्यात्, लोष्ठवत् [ शरीरं स्यात् ] अतः शरीर संस्थान निर्वर्तकं संस्थाननाम । यद्यङ्गोपाङ्गनामकर्म न स्यात् लोष्ठवत् । अतः अङ्गोपाङ्ग निर्वर्तकं अङ्गोपाङ्गनाम । तत्र तावदङ्गानि [पादौ] बाहू पृष्ठवत्नोसिरसि ( नितम्ब -शिरांसि ) । शेषाण्युपाङ्गानि । उक्तं च
या बाहूय तहा णियंत्र पुट्ठी उरो य सीसो य ।
१
अव अंगाई देहे सेसा उवंग इ " || १६ |
वज्राकारोभयास्थिसन्धिः । प्रत्येकमध्ये सवल्यबन्धनं सनाराचसंगूढनं वज्रर्षभनाराचशरीरसंहनननाम | तदेवोभयवज्राकारो संप्राप्तवलयवन्धनं वज्रनाराचशरीरसंहनननाम । तदेवोभयवज्राकारत्वव्यपेतमवलयबन्धनं सनाराचशरीरसंहनननाम । तदेवैकपार्श्व सनाराचमितरमनाराचमर्धनाराचशरीरसंहननं नाम । तदुभयविरहितमन्ते सकीलिका नाम शरीरसंहननं नाम । अन्तरे प्राप्त (?) परस्परास्थिसन्धि बहिः शरीरछाद्र (?) मांसघटितमसंप्राप्तासृपाटिकासंहननं नाम । यदि संहनननामकर्म न स्यात्, असंहननशरीरः स्यात्, देवशरीरवत् । अतः संहनननिर्वर्तकं संहनननाम अस्थिबन्धनमित्यर्थः ।
Jain Education International
यदि वर्णनामकर्म न स्यात्, अवर्णं शरीरं स्यात्, नानावर्णं वा स्यात् । अतः वर्णनिर्वर्तकं वर्णनाम । यदि गन्धनामकर्म न स्यात् नानागन्धमगन्धं वा शरीरं स्यात् । अतः गन्धनिर्वर्तकं गन्धनाम | यदि रसनामकर्म न स्यात्, नानारसं अरसं वा शरीरं स्यात् । अतः रस निर्व
१. गो० क० २८ । कम्मप० ७४ ।
For Private & Personal Use Only
www.jainelibrary.org