________________
पंचसंगहो
तकं रसनाम । यदि स्पर्शनामकर्म न स्यात् , नानास्पर्श [ अस्पर्श'] वा शरीरं स्यात् । अतः स्पर्शनिवर्तकं स्पर्शनाम । ___अनुपूर्वे भवा आनुपूर्वी, अनुगतिः अनुक्रान्तिरित्यर्थः । आदिलाभे च क्षेत्रम् प्रतिगमानुपूर्वी। यद्यानुपूर्वी नामकर्म न स्यात् क्षेत्रान्तरप्राप्तिर्जीवस्य न स्यात् । अतः क्षेत्रान्तरप्रापकमानुपूर्वी नाम । यद्यगुरुलघु नामकर्म न स्यात् , लोह-तूलवद् गुरुर्वा लघुर्वा शरीरं स्यात् । अतः शरीरस्य अगुरुकलहुकनिवतेक अगुरुकलहुकनाम । उपेत्य घातः उपघातः। उपघात आत्मघात इत्यर्थः । यद्यपघातकर्म न स्यात् , स्वशरीरेण घातो न स्यात् । तद्यथा-महाशृङ्ग-लम्बस्तन-तुण्डोदरमित्येवमादि। अतः आत्मघातनिवतेक उपघातनाम। परेषां घातः परघातः। यदि परघातनामकर्म न स्यात् , अपरघातं शरीरं स्यात् । यथा सिंह-व्याघ-कुञ्जर-वृषभादीनां घातो न स्यात् । अतः परघातनिर्वर्तकं परघातनाम । ऊर्ध्वः श्वासः उच्छासः। यद्युच्छासनामकर्म न स्यात् , जीवस्योच्छ्रसनं न स्यात् । अतः उच्छासनिर्वतकं उच्छासनाम । यद्यातपनामकर्म न स्यात् , अनातपशरीरः स्यात् । अत आतपशरीरनिर्वर्तकं आतपनाम । गद्युद्योतनामकर्म न स्यात् , उद्योतशरीरं न स्यात् । अतः उद्योतशरीरनिर्वर्तकं उद्योतनाम । विहाय आकाशं गगनमम्बरमित्यर्थः । विहायसि गतिः विहायोगतिः। यदि विहायोगतिनामकर्म न स्यात् , आकाशे जीवगतिन स्यात् , तदभावे अल्पप्रदेशानां भूम्यवस्थानं बहूनां आकाशव्यवस्थापनं पतनमेव स्यात् । अत आकाशगतिनिर्वतकं विहायोगतिनाम । यदि त्रसनामकमें न स्यात् , न त्रसति जीवः; आकुश्चनप्रसारण-निमीलनोन्मीलन-स्पन्दनादि वसनं तद् द्वीन्द्रियादीनां न स्यात् । अतः त्रसनिर्वर्तकं त्रसनाम । यदि स्थावरनामकर्म न स्यात् , नावतिष्ठति जीवः, स्पन्दनाभावात् । अतः स्थावरनिवर्तकं स्थावरनाम । यदि बादरनामकर्म न स्यात् , सूक्ष्मजीव एव स्यात् , वर्णविभागाभावात् , चक्षुषा न ग्राह्यत्वात् ; अनन्तानां जीवानां समुदीरितानामपि तमसि प्रक्षिप्ताञ्जनरेणुवत् अचक्षुविषयः स्यात् । अतः बादरनिर्वर्तकं बादरनाम । यदि सूक्ष्मनामकर्म न स्यात् , बादर एव जीवः स्यात् , पल्योपमस्यासंख्येयभागे जीवसमुदीरितेऽपि चक्षुषा ग्राह्यः स्यात् । अतः सूक्ष्मनिर्वर्तकं सूक्ष्मनाम । यदि पर्याप्तनामकर्म न स्यात् , आहारादीनामसंपूर्णत्वादपर्याप्त एव जीवः स्यात् । अतः पर्याप्तनिर्वर्तकं पर्याप्तनाम । यद्यपर्याप्तनामकर्म न स्यात् । आहारादीनां सम्पूर्णत्वात्पर्याप्त एव जीवः स्यात् । अतः अपर्याप्तनिर्वर्तकं अपर्याप्तनाम । यदि प्रत्येकनामकर्म न स्यात् , जीवस्य साधारणशरीरलब्धिः स्यात् । अतः प्रत्येकशरीरनिवर्तकं प्रत्येकशरीरनाम। यदि साधारणशरीरनामकर्म न स्यात् , एकैकस्य जीवस्य प्रत्येकशरीरं स्यात् । अतः साधारणशरीरनिवर्तकं साधारणशरीरनाम। यदि स्थिरनामकर्म न स्यात् , रस-रुधिर-मांसमेदास्थि. मज्जा-शुकादीनां स्थैर्याभावाद् गतिरेव स्यात् । अतस्तेषां स्थिरतानिर्वर्तकं स्थिरनाम । यदि अस्थिरनामकर्म न स्यात, रसादीनां स्थैर्य स्यात् , परस्पर-संक्रान्तिन स्यात् । अत एकधातुशरीरं स्यात् । अतस्तेषां अस्थिरतानिर्वर्तकं अस्थिरनाम । यदि शुभनामकर्म न स्यात् , अशुभागाण्येव स्युः, कक्षोपस्थादिवत् । अतः शुभनिवर्तकं शुभनाम । यद्यशुभनामकर्म न स्यात् , नयनललाटादिवत् शुभाङ्गाण्येव स्युः । अतः अशुभनिर्वर्तकं अशुभनाम । यदि सुभगनामकर्म न स्यात् , दुर्भगत्वं अकान्तित्वं भवति । अतः कान्तित्व निर्वर्तकं सुभगनाम । यदि दुर्भगनामकर्म न स्यात् , सुभगकान्तित्वं भवति । अतः दुर्भगं अकान्तित्वनिवर्तकं दुर्भगनाम । यदि सुस्वरनामकर्म न स्यात् , परुषनाद-शृगालोष्ट्रादिवत् [ ]। अतः सुस्वरनिर्वर्तकं सुस्वरनाम । यदि दुःस्वरनामकर्म न स्यात् , मधुरनाद-मयूरकोकिलादिवत् [ ]। अतः दुःस्वरनिवर्तकं दुःस्वरनाम । आदेयं ग्रहणीयता बहुमानतेत्यर्थः । अतः आदेयनिर्वर्तकं आदेयनाम । अनादेयमग्रणीयता अवमानतेत्यर्थः। अतः अनादेयनिर्वतकं अनादेयनाम । यशः गुणोद्भावनं कीर्तिः ख्यातिरित्येकार्थः। अतः गुणख्यातिनिर्वर्तकं यशःकीर्तिनाम । अयशः अगुणोद्भावन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org