SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ पाइय-वित्ति-सहिओ ५५९ मित्येकार्थः । अतः दोषख्यातिनिर्वर्तकं अयशः कीर्त्तिनाम । नियतं नाम निर्माणं अनेकधा इत्यर्थः । निर्माणनिर्वर्तकं निर्माणनाम । निर्माणं तद् द्विविधं प्रमाणनिर्माणं स्थाननिर्माणमिति । . प्रमाणनिर्वर्तकं प्रमाणनिर्माणम् । यदि प्रमाणनिर्माणनामकर्म न स्यात् , असंख्येययोजनविस्तार आयामः [स्यात् ,] अतः लोके प्रमाणनिर्वर्तकं प्रमाणनिर्माणम् । अन्यथा तालश्रुचिवत् (?) आलोकान्तशरोरं स्यात् । अथवा हस्तिस्तम्भकीलवत् लोकान्तविस्तृतशरीरं स्यात् । अङ्गोपाङ्गानां प्रत्यङ्गगतानां स्वे स्वे स्थाने निर्मापकं स्थाननिर्माणम् । तदभावे ललाटे मूर्ध्नि कर्णनयन नासिकादीनां विपरीतविन्यासः स्यात् । अतः स्वजात्यनुरूपतः अङ्गोपाङ्गनिर्वतकं स्थाननिर्माणनाम । त्रिलोकजीवाहसर्वजीवहितोपदेशजनकतीर्थकरनिर्वर्तकं तीर्थकरनाम ।। जनपद-पितृ-मातृ-शुचिस्थान-मानैश्वर्य-धनादिप्राप्तिजन्मोच्चं (?) उच्चगोत्रम् । तद्विपरीतं नीचगोत्रम् । दानस्यान्तरायं दानान्तरायं दानविघ्नमित्यर्थः । लाभस्यान्तरायं लाभान्तरायं लाभविघ्नमित्यर्थः । भोगस्यान्तरायं भोगान्तरायं भोगविघ्नमित्यर्थः । परिभोगस्यान्तरायं परिभोगान्तरायं परिभोगविघ्नमित्यर्थः । वीर्यस्यान्तरायं वीर्यान्तरायं वीयविघ्नमित्यर्थः। एवं प्रकृतिवृत्तिः समाप्ता । इदि पढमो पयडिसमुक्कित्तणा-संगहो समत्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy