Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 43
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः / चेत् ? सत्यम्- प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवम्भूतनयस्य स्वार्थातिप्रसङ्गो न दूषणम् , किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेव; एतदुपजीवी व्यवहारस्तु यथावृत्ति, हरिपदे तु पशुत्वं प्रयोगोपाधिर्यथा वा धेन्वादिपदे गोत्वं शक्त्युपाधिस्तथा गवादिपदे घटादिपदे च गोत्व-घटत्वादेस्तथात्वेनातिप्रसङ्गभङ्गमाह; न चवं घटादिपदात् निर्विकल्पकापत्तिः, क्रियाशब्दमात्रवादिन एतस्य मते क्रियोपरागेणैव पदार्थोपस्थिति.' अन्यथा तु अतिप्रसक्तस्यापि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वाभ्युपगमे पुनः / तथा च केनचिद् रूपेणानतिप्रसक्तस्य व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वव्यवस्थितौ च / तत्प्रयुकेति-छत्र-चामरादिप्रयुक्त्यर्थः / इतरातिशायीति- राज. व्यतिरिक्तजनवृत्तिपुण्याद्यवधिकातिशयवदित्यर्थः। अनतिप्रसक्तस्य राजेतरावृत्तेः / अव्याहतत्वात् छत्र-चामरादिविरहकालेऽपि राबनि पुरुषविशेषेऽस्खलद्रूपतया सत्त्वात् / समाधते-सत्यमिति / तत् किं छत्र-चामरादिविरहकाळेऽपि राजशब्दवाच्यत्वं पुरुषविशेषे एवम्भूतनयस्येष्टमेवेत्यत आह-प्रसिद्धार्थपुरस्कारेणेति- गच्छतीति गौरिति व्युत्पत्तेर्गम्धातोः प्रसिद्धो यो गमनमोऽर्थस्तत्पुरस्कारेण- तदाश्रयेण, गमनवति गोशब्दवाच्यत्वे प्रवृत्तस्य स्वीकृतिपरायणस्यैवम्भूतनयस्य, स्वार्थातिप्रसङ्गः स्वविषयातिप्रसङ्गो गमनवति गोभिनेऽश्वादावपि गोशब्दवाच्यत्वप्रसङ्गः, न दूषणं न दोषावहं तत्प्रसङ्गस्ये टापतिरूपत्वात् / तर्हि गमनत्यश्वेऽयं गौरिति व्यवहारस्तन्मते कथं न भवतीति पृच्छति-किन्विति / उत्तरयतितन्निवारकेति- उकातिप्रसङ्गनिवारकं यनयान्तरं व्यवहाराख्यं तदुपायको गौरिति व्यवहारस्तत्वेन अतिप्रसजनलक्षणं दूषणं भूषणमेव, व्यवहारो हि व्यवहर्तृजनावितव्यवहारपरतन्त्रो न वस्तुपरतन्त्रः, यथा यथा लोके यद् यद् व्यवह्रियते तथैव व्यवहारनयस्तदुपायभूतमतिप्रशनिवार कमुत्प्रेक्ष्य तत्र सङ्घटयति, ततो वस्तुस्थित्याऽतिप्रसङ्गो नास्त्येव, नहि लक्ष्ये समन्वयोऽतिप्रसाः, किन्तु तथाऽव्याहियमाणवाद् व्यवहारदृष्ट्यपातिप्रमजयाऽऽभातीति यावन्न व्यवहारनयः सम्मुखीनो भवति तावन्नातिप्रसङ्गः, सम्मुखी नश्च स स्ववश एक व्यवहृति स्थापयतीति अतिप्रसङ्गनिवारकधर्मसमर्पणेनातिप्रसङ्गं वारयतीत्येवमतिप्रपङ्गस्य भूषणत्वम् , 'तनिवारकनयान्तरोपायकत्वेन' इत्यस्य स्थाने "तनिवारकनयान्तरोपस्थापकत्वेन' इति पाठो युक्तः, परेणोक्तातिप्रपको दते सति ततो व्यवहारनयः समुपतिष्ठत एव, स चोपस्थितो व्युत्पत्तिनिमित्ते उपाधिविशेषवशिष्ट्या चानेनाति सङ्गं वारयतीति भावः / व्यवहारो यथोक्तातिप्रसङ्ग वारयति तथोपदर्शयति- एतदुपजीवीति- 'एवम्भूननयोपजीवीयर्थः। 'व्यवहारस्त' इत्यस्य 'आह' इत्यनेन सम्बन्धः / यथावृत्ति, हरिपदे तु' इत्यस्य स्थाने 'यथाऽनेकार्थवृत्तहरिपदे' इति पाठो युक्तः, अयमर्थः-यथा सिंह-सूरेन्द्रोपेन्द्रादिनानार्थशक्तहरिपदे हरतीति हरिरिति व्युत्पत्त्यर्थस्य सर्वत्राविशेऽपि पशुत्वमुर्वि समाश्रित्य सिंहे हरिशब्दप्रयोग इति पशुलं सिंहे हरिशब्दप्रयोगस्य हरणकिनिमित्त हस्योराषिः, यथा वा धेनुपदव्युत्पत्तिनिमित्तस्य धानकर्मत्वस्य महिध्यादौ सत्त्वेऽपि धेनुपदं न महिध्यादौ श कमिति गोले धेमादिदे शत्युगधिः, तथा गवादिपदे गच्छनीति गौरिति व्युत्पत्तिनिमित्तस्य गमनक्रियावत्त्वस्याश्वादी सत्त्वेऽपि गोस्वस्य शक्त्यु गावित्वेन तस्याश्वादावभावेन नाश्वादौ गोशब्दवाच्यत्वप्रसङ्गः, एवं घटते चेष्टते इति घट इति व्युत्पत्ति. निमित्तस्य क्रियाविशेषलक्षणचेष्टावत्त्वस्य घटभिने सत्त्वेऽपि घटपदे घटत्वस्य शत्युगधित्वेन तस्य घटभिन्नेऽभावान्न घटपद. वाच्यत्वासा इयेवमतिप्रसाभङ्गमाह व्यवहार इत्यर्थः। ननु घटपदाद् घटत्वलक्षणशक्त्युपाधिपुरस्कारेण घटस्य निर्विकलको स्थितिरपि स्पादियाशङ्कय प्रतिक्षिपति-न चेति। एवं घटादिपदे घटत्वादेः शक्त्युपाधित्वाभ्युपगमे / निवेधे हेतुमाह-किरोति / एतस्प एवम्भूतस्य तदुाजीवितो व्यवहारस्य च, सर्वे शब्दाः क्रियाप्रवृत्तिनिमित्तकत्वात् क्रियाशब्दा एवेतिवादिन एवम्भूनस्य तदुरजोविनो व्यवहारस्थ मते सर्वैरपि शब्दैः क्रियोपरागेणैव क्रियाविशिष्टतयैव पदार्थानामुपस्थितिरिति क्रियाप्रकारकपदार्थविशेष्यकोपस्थितेः सविकल्पिकाया एव भावाद् घटादिपदानिर्विकल्पकबोधापत्त्यसम्भवादित्यर्थः। अत्रत्र प्रसगाच्छिष्यमतिविस्कारणार्थमेवम्भूतनयावलम्बनमन्यनयानुसारिणोऽपि कृतवन्त इत्युपदर्शयति-सर्वे शब्दा इति- अत्र "एतस्मादेव सर्वे शब्दा व्युत्पना एवेति वैयाकरणकदेशिनों पक्ष उद्गतः" इति पाठः समुचितः। 'पतन्मतेनैव' इत्यस्य 'पङ्कजादिपदे योगमात्रमेवाहुः' इत्यनेनान्वयः, 'एतम्मतेनैव ' इत्यस्वम्भूननयमतसमाश्रयणेनैवेत्यर्थः, जाति-गुण-क्रिया-यदृच्छाशब्दवादिनः शब्दनयानुसारिण' एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः, एवं यहच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिण एतन्मतेनैव पङ्कजादिपदे योगमात्रमेवाहुरित्यन्वयः, जातिशब्दो जातिप्रवृत्तिनिमित्तको घट-पटादिशब्दः, गुणशब्दो गुणप्रवृत्तिनिमित्तकः शुक्ल-नीलादिशब्दः, क्रियाशब्दः

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282