Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 229
________________ 376 मेवामृततरहिणी-तरङ्गिणीतरणिम्यां समाहतो नयोपदेशः। ष्णस्पर्शवतेजः कारणमिति नव्याः, तेजस्त्वेन तत्र हेतुत्वम् , व्यणुकात्मकवह्नौ तृणत्वादिना, त्रसरेण्वादि. निष्ठवैजात्यावच्छिन्ने ब्यणुकादिनिष्ठवह्नित्वेनेत्येतस्मात् कचिर्देकान्तेन कचिच्च विकल्पेन, दण्डत्वादिना घटादौ तृणत्वादिना च वतिविशेषादौ कारणतायुक्तागमबलात् तत्त्वज्ञानत्वेन कर्मविशेषत्वादिना च कारणताऽऽवश्यकीति नानुपायवादः श्रेयानिति नैयायिकादयः / वयं तु ब्रूमः- तन्तोरेव पटो न कपालादेरिति, कुन इति प्रश्ने स्वभावादेवेति यदुत्तरं तत्र प्रश्नोत्तरे किं हेतुविषये, उत नियामकविषये ? उभयत्रापि किं धालम्बने, उत धर्मालम्बने ? आधे-तन्तु. जन्यकपालाजन्यपटे स्वभावो हेतुरित्यागतम् , स च स्वात्मैवेत्यात्माश्रयः, द्वितीयेऽपि स एव दोषः स्वस्य स्वनियामकत्वासम्भवात् , भेदगर्भनियामकस्यैव जिज्ञासितत्वाच्च, न तृतीयः- धर्महेतोरजिशासि. कस्यचित् कारणस्यानुपदर्शनाद् वह्नित्वावच्छिन्ने किं कारणमित्याकासायास्तन्मतेऽनिवृत्तः, तस्मादन्यमतमेवैतत् / तथा च . "मित्यन्ये" इत्यस्य स्थाने “मिति / अन्ये" इति पाठः "कारणमिति" इति स्थाने " कारणमिति।" इति पाठः / “मव्या," इत्यस्य स्थाने "नव्यास्तु" इति पाठेन भाव्यम्, तस्य तेजस्त्वेनेत्याद्यानिमग्रन्धे समन्वय इंति बोध्यम् / तत्र वहित्वावच्छिन्ने / तृणत्वादिनेत्यनन्तरं हेतुत्वमित्यनुषज्यते, एवमग्रेऽपि, तेजस्त्वावान्तरजाते: परमाण्वात्मकतेजस्वनुपगमान द्वयणुकात्मकवह्नौ परमाणुनिष्ठववित्वेन कारणत्वसम्भव इति व्यणुकात्मकवह्नौ तृणत्वादिना हेतुत्वमजीकृतम् / प्रसरेण्वादिनिष्ठेति-व्यणुके तेजस्त्वावान्तरवह्नित्वजातिः सम्भवतीति तद्रूपेण व्यणुकात्मकवह्वेनसरेण्वात्मकवहिगतवैजात्यावच्छिन्नं प्रति कारणत्वं सम्भवतीति / उपसंहरति-तस्मादिति / "नेत्यतस्मात्" इत्यस्य स्थाने " नेति, तस्मात्" इति पाठो युक्तः / क्वचिदेकान्तेनेति-घटादौ दण्डादेर्दण्डत्वादिना यत् कारणत्वं : तदेकान्तेन, न हि दण्डादिकमन्तरेण कस्यापि घटादिजातीयस्य सम्भव इति, वह्निविशेषादौ तृणत्वादिना तृणादेर्यत् कारणत्वं तद् विकल्पेन, तृणाद् वा मण्यादितो वा वह्निविशेषादेः सम्भव इति / “कारणतायुक्तागम" इत्यस्य स्थाने " कारणता युक्ता, आगम" इति पाठो युक्तः। तत्त्वज्ञानत्वेनेति- मोक्ष प्रति तत्वज्ञानत्वेन कर्मविशेषवादिना च कारणताऽवश्यमभ्युपेयेत्यर्थः। इति एतस्मात् कारणात् / अनुपायवादः नियतिवादिनां स्वभावादेव कार्यमात्रमुपजायते न कस्यचित् किञ्चित् कारणमिति तत्त्वज्ञानादिकमन्तरेणापि मोक्षो भविष्यत्येवेति न तदर्थमायासो विधेय इत्यनुपायवादो न श्रेयान् न युक्त इति नैयायिकादयो वदन्तीत्यर्थः / स्वयं नियतिवादखण्डनमुपदर्शयति-वयं स्विति-स्याद्वादिनोऽस्मदादय इत्यर्थः / “रिति, कुत" इत्यस्य स्थाने "रिति कुत" इति पाठो युक्तः / किं हेतुविषये इति-तन्तोरेव पटो न कपालादेरिति कस्माखेतोरिति हेतुविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेवेति हेतुविषयकमुत्तरमित्येवं प्रश्नोत्तरे किं हेतुविषये इत्यर्थः, उत नियामक विषये इति- तन्तोरेव पटो न कपालादेरिति कस्मानियामकादिति नियामकविषयः प्रश्नः, तन्तोरेव पटो न कपालादेरिति स्वभावादेव नियामकादित्येवं किं नियामकविषये प्रश्नोत्तरे इत्यर्थः / उभयत्रापि हेतुविषयप्रश्नोत्तरयोनियामकविषयप्रश्नोत्तरयोध। माघे धालम्बने हेतुविषये प्रश्नोत्तरे इति प्रथमपक्षे / आगतम् उत्तरस्वरूप प्राप्तम् / धालम्बनपक्षे स्वमेव भावः स्वभाव इत्येतत्पक्षे व्युत्पत्या स्वभावः स्वमेव भवेत् , तथा च स्वस्मादेव भवतीति, न चैकस्यैव पौर्वापर्यनियतकार्यकारणभावः संभवत्यात्माश्रयश्चात्र दोष इत्याह-सचेति स्वभावश्चेत्यर्थः / द्वितीयेऽपि धालम्बने नियामकविषये प्रश्नोत्तरे इति द्वितीयपक्षेऽपि / स एव आत्माश्रय एव, यथाऽऽत्माश्रयात् स्वं न स्वस्य हेतुस्तथाऽऽत्माश्रयात् स्वं न स्वस्य नियामकमित्याह-स्वस्येति / जिज्ञासितविषयत्वात् प्रश्नस्य नहि स्वं स्वनियमकारीति स्वभिन्ननियमकारिणो जिज्ञासितत्वात् तद्विषयकप्रश्नस्योत्तरं स्वभिन्ननियामकविषयकमेव भवितुमर्हतीति निरुक्कोत्तरस्य स्वात्मनियामकगोचरस्य न तथात्वसम्भव इत्याह- मेदगर्भति। न तृतीय इति धर्मालम्बने हेतुविषयप्रश्नोत्तरे इति तृतीयपक्षोऽपि न युक्त इत्यर्थः / निरकनिषेधेऽपि पूर्वोक्तमेव हेतुमुपदर्शयति-धर्महेतोरिति / नापि चतुर्थ इति * धर्मालम्बने नियामकविषये प्रश्नोत्तरे इति

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282