Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समतो गयोपदेशः / 411 भोगनाश्यत्वेन ज्ञानस्य तदनाशकत्वान्नान्यथासिद्धिः, नहि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात्, तेन विनापि कर्मण एव तदुत्पत्तेश्च, न च वासुदेवादीनां कायव्यूहश्रवणात् तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इत्यपि साम्प्रतम् , तपःप्रभावादेव तत्त्वज्ञानानुत्पादेऽपि कायव्यूह. सम्भवात् , भोगजननार्थ कर्मभिरवश्यं तत्सकार्यनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः, योगपद्यं च कागानां तजनककर्मस्वभावात् तपःप्रभावाद् इति, न च " तावदेवास्य चिरं यावन्न विमोक्षोऽथ सम्पत्स्यते कैवल्येन " [ ] इति श्रुतौ तावदेवास्य- उत्पन्नतत्त्वज्ञानस्य, चिरं विलम्बो, यावन्नोत्पन्नकर्मणो विमोक्षः, अथ सम्पत्स्यते कैवल्येन भोगेना( न ) क्षपयित्वेति शेषः, इति व्याख्यानाद् भोगस्य तत्त्वज्ञानव्यापारत्वं युक्तमेव, न च शेषदाने मानाभावः सत्यपि ज्ञाने कर्मावस्थाने क्लुप्तसामान्यस्य भोगस्यैव नाशकत्वेनाक्षेपादिति वाच्यम्, तत्त्वज्ञाने सति तत्वज्ञानदशायां न मोक्षः किन्तु तदपि म्रक्षण इत्यर्थेनाप्युपपत्तेरिति चेत् ? मैवम् , कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम् , भोगस्य तत्त्वज्ञाना( न )व्यापारत्वात् , न च तत्त्वज्ञानं विनापि भोगेन कर्मनाशे व्यभिचारः, कर्मप्रागभावासहवृत्तिकर्मनाशे युगपभोगे वा व्यभिचाराभावादिति मणिकृतैवोक्तत्वात् , अस्मसिद्धातत्त्वज्ञानस्याप्यन्यथासिद्धत्वमापादयितुं शक्यम् , न चैवम् , कर्मणो भोगनिवर्त्यत्वेन तत्त्वज्ञाननिवर्त्यत्काभावे तत्त्वज्ञाना. जन्यायाः प्रतिबन्धककर्मनिवृत्तेस्तत्त्वज्ञानव्यापारत्वाभावादित्याशङ्कते- अथेति / तदनाशकत्वात् कर्मनाशकत्वाभावात् / : ननु भोगद्वारैव मोक्षं प्रति तत्त्वज्ञानं कारणमिति भोगेनैव तत्त्वज्ञानस्यान्यथासिद्धत्वमापादनीयमित्यत आह- नहीति / तत्र हेतुः- तथाऽश्रवणादिति- तत्वज्ञानव्यापारतया भोगस्यागमवचनाप्रतिपाद्यत्वादित्यर्थः। भोगस्य तत्त्वज्ञानजन्यत्वे सति तत्त्वज्ञानव्यापारत्वं कल्पयितुं शक्यम् , न च भोगस्य तत्त्वज्ञानजन्यत्वं कर्मण एव भोगोत्पत्तरित्याह- तेन विनाऽपीतितत्त्वज्ञानमन्तरेणाऽपीत्यर्थः / तदुत्पत्तेः भोगोत्पत्तः। न चेत्यस्य साम्प्रतमित्यनेनान्वयः। " तत्कार्यनिष्पादन " इत्यस्य स्थाने " तत्कायनिष्पादन" इति पाठो युक्तः, तत्कायनिष्पादनं भोगजनककायसम्पादनम् / तत्र भोगजनककायनिष्पादने / नन्वेवं कर्मभिस्तत्तद्भोगजनककायानां क्रमेण भवनं भवेत् न योगपद्येन, युगपदुत्पद्यमानानामेव कायानां कायव्यूहशब्दव्यपदेश्यत्वम्, न क्रमोत्पन्नानामिति युगपत्कायसमूहलक्षणकायव्यूहस्तत्त्वज्ञानादेव, तत्र तत्त्वज्ञानोपयोग इत्यत आह-योगपचं चेति-युगपत्कायजनकेत्यर्थः / अचिन्त्यशक्तिश्च तपसामिति तत्प्रभावात् तत्सामर्थ्याधुगपदनेककायोत्पत्तिरित्येतावता तत्त्वज्ञानमन्तरेणापि कायव्यूहः सम्भवतीत्याह- तपःप्रभावाद् वेति / भोगस्य तत्त्वज्ञानव्यापारत्वमाशङ्कय प्रतिक्षिपति - न चेति- अस्य वाच्यमित्युत्तरेण सम्बन्धः। तावदेवेति श्रुतेस्तत्त्वज्ञाने भोगव्यापारकत्वावेदकत्वस्पष्टप्रतिपत्तये तयाख्यानमाह- तावदेवेति- यावदित्युत्तरापेक्षं तावदिति / अस्येत्यस्य विवरणमुत्पन्नतत्वज्ञानस्येति / चिरमित्यस्य विवरण-विलम्ब इति। न विमोक्ष इत्यस्य विवरणं-नोत्पन्नकर्मणो विमोक्ष इति / अथ सम्पत्स्यते इत्यत्र केन सम्पत्स्यते ! कथं सम्पत्स्यते ? इति प्रकारकर्तव्यताकालयोनिवृत्त्यर्थमाह- कैवल्येन भोगेन क्षपयित्वेति शेष इति- भोगेन प्रारब्धकर्म क्षपयित्वा कैवल्येन स्वस्वरूपमात्रावस्थानलक्षणमोक्षेण सम्पत्स्यते मुक्तो भवतीति यावत् / इति व्याख्यानात् एवंस्वरूपव्याख्यानात् / शेषकरणे मानाभावमाशय प्रतिक्षिपति-न चेति / शेषदाने शेषकरणे / प्रतिक्षेपहेतुमाह- सत्यपीति / भोगस्य तत्त्वज्ञानव्यापारत्वाशङ्काप्रतिक्षेपहेतुमुपदर्शयति-तत्त्वज्ञाने सतीति / " तदपि म्रक्षणे” इत्यस्य स्थाने " तदपगमक्षणे" इति पाठो युक्तः, तस्य तत्त्वज्ञानविनाशक्षणे इत्यर्थः / अथ कर्मणो भोगनाश्यत्वेनेत्याद्याशङ्का प्रतिक्षिपति- मैवमिति / "ज्ञानस्य कर्मनाशकत्वं, भोगस्य" इत्यस्य स्थाने " ज्ञानस्य कर्मनाशकत्वे भोगस्य " इति पाठो युक्तः, यथा कर्मणो भोगनाश्यत्वं श्रुत्या प्रतिपादितं तथा तत्त्व'ज्ञानस्य कर्मनाशकत्वमपि श्रुत्या प्रतिपादितम्, तत्र श्रुतिप्रतिपादिते ज्ञानस्य कर्मनाशकत्वे भोगस्य तत्त्वज्ञानव्यापारत्वाभावाद् भोगमद्वारीकृत्यैव तत्त्वज्ञानेन कर्मणो नाशसम्भवादित्यर्थः / ननु तत्त्वज्ञानत्वेन कर्मनाशत्वेन च कार्यकारणभावो न भवति, तत्त्वज्ञानाभावेऽपि भोगात् कर्मनाशस्य सम्भवेन तत्र व्यतिरेकव्यभिचारादित्याशय प्रतिक्षिपति-न चेति /

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282