Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 281
________________ ve नयाभूततरहिणी-तरङ्गिणीतरणिभ्या समतो नबोपदेया। शानादेव तु मुक्तिरत्र तु मता ज्ञाने क्रियाद्वारता, ज्ञानं मुक्तिनिदानमित्युदयनाचार्यस्तु संमन्यते / / शानं कर्म च मुक्तिकारणमुझे ज्ञाने क्रियाद्वारता, नेष्टेत्येवमुदीरयन्ति कृतिनः श्रीभास्करीयाः स्फुटम् // 55 // वार्ता चात्र तु विस्तृतोभयमतप्रागल्भ्यसम्पादिनी, अन्ते स्वानुमतं समुच्चयमत युक्त्या समुल्लासितम् / मिथ्यात्वापगमेन मोक्षकलिका टीका सुसेव्या बुधैः, श्रीवीरस्य नयोपदेशवचनं सम्यक् स्तुतं कामदम् // 56. // भस्यां न स्मय-रोषरागप्रमुखो हेतुर्जिनोक्त्यादरः, किन्त्वेको ननु हेतुरभ्युपगतो नो पक्षपातः कचित् / नीत्युतिः सफले प्रमाणवचने यात्यङ्गभङ्गात्मता, तस्मानो छलवत्त्विदं नयवचो विज्ञस्य शङ्कास्पदम् // 57 // बोधो लौकिक आदिमो नयमयः स्यान्मध्यमोऽथान्तिमो, भानात्माखिलभङ्गतो गुरुमते यद्वत्तथा स्यात् क्रमात् / तात्पर्यानियताद् भवेदिह भिदा वाक्यैकमात्रोद्भवे, तात्पर्यज्ञ-तदज्ञयोरनुमता बोधे ततो भिन्नता // 58 // तात्पर्य शुकशारिकादिवचने तच्छिक्षकाद्याधितं, ज्ञात्वा लौकिकबोधभिन्नविषये बोधस्ततोऽपेक्षया। वतुष्वान्यपरे तथव वचने तात्पर्यमन्यत् स्वयं, ज्ञात्वा वास्तवमप्रमाऽजननतः प्रामाण्यमिष्टैषिणाम् // 59 // . मिथ्यादृष्टिपरिग्रहादिह भवेत् सम्यक् श्रुते वस्तुतो, मिथ्यात्वं ननु तत्परत्वमतितो मिथ्याश्रुते तत्त्वतः। सम्यग्दृष्टिपरिप्रहादनुमतं सम्यक्त्वमिष्टप्रदं, तस्मात् तत्परतामतिस्तु वचने बोधोद्भवेऽपेक्षिसा / / 60 // ... स्यादेवं तु प्रमाणमर्थघटनातो लौकिकं चामुखे, तात्पर्यार्थगतौ प्रमाणमुदिता गीः सप्तभङ्गात्मिका। इत्थं सत्युपपद्यते ननु वचो यत्कल्पभाष्ये स्थितं, नाप्रामाण्यप्रमाणते स्वत इह स्यादर्थतस्ते इति // 1 // .. तात्पयामिधया य एव प्रथितोऽपेक्षेति सैवोच्यते, नीत्याख्यः स च शास्त्रगर्भप्रथिलस्तेनोत्थिताः कल्पनाः / सिद्धान्ताम्बुधिगाः स्थिरं विरहितं ताभिः सुखैकात्मकं, ब्रह्म ज्ञानमयं भवेदिह तु वोऽनल्पं विकल्पोश्चयम् // 2 // निक्षेपादिविचारणा वचनगा शृङ्गारमात्रात्मिका, यस्याने न विभाति तच्च भगवन् / रूपं निजं दर्शय / आत्मन् ! बाढमपि प्रसीद कुशलाशंसा पर-स्वात्मगा, टीकाकर्तुरियं निजान्यविधुरां स्वात्मस्थिति गाहते // 3 // संक्षेपा विषया इमे निगदिता टीकागताः सुन्दरा, अभ्यासादयं गता नयविदामानन्ददाः स्युन वा। अस्माकं तु जिनागमाम्बुधिगतज्ञानादिरत्नस्पृहां, स्वज्ञानाभ्यसनादतीव सफलो काले करिष्यन्ति वै / / 64 // वर्षे विक्रमगेऽनलाम्बरनभोनेत्रप्रमाणं गते, वर्षावासगवेन भावनगरे सौराष्ट्रसद्भूषणे। लावण्याभिधसूरिणा गुरुकृपापात्रेण यत्नादिय, दक्षामोदकृत कृता स्फुटतरा टीका तरण्याख्यया / / 65 // नयामृततरङ्गिणीविषयबोधिनीयं कृतिमिताऽपि समुपासिता ध्रवममन्दमोदप्रदा / गुरुप्रवरभक्तितो ननु मया मितप्रज्ञया, समुद्भवमुपागता स्थितिमुपेतु * कल्पान्तगाम् // 6 // इतिश्रीविजयलावण्यसूरिप्रणीता टीकाप्रशस्तिः समाप्ता / छद्मस्थेषु सदा स्खलद्वतितया दोषप्रबन्धान्वये, नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् / नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जनविधिः स्वाभाविकोऽयं यतः // 1 // शुभं भवतु

Loading...

Page Navigation
1 ... 279 280 281 282