Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नबोपदेशः / न्तेऽपि नाशार्थिप्रवृत्तौ नाश्यनिश्चय विधयैव केवलज्ञानस्य कर्महेतुत्वमनपायम् , तदुक्तं नियुक्तौ समुद्আবাঘিাই- " णाऊण वेयणिज्जं अइबहुअं आऊयं च थोवागं / कम्मं पडिलेहे वञ्चति जिणा समुग्घायं " // अत्र क्त्वाप्रत्ययबलादेव नियतपौर्वापर्यस्यार्थाच्चानन्यसिद्धत्वस्य प्रतीतेः कारणत्वलाभः / अन्यदप्याभोगवीर्यस्यैव केवलिनः कर्मक्षयहेतुत्वादाभोगान्वितवीर्यत्वेन वीर्यान्विताभोगत्वेनापि हेतुत्वादुक्तार्थ. सिद्धिः, यत् पुन:-. " दोषपक्तिर्मतिज्ञाना अकिश्चिदपि केवलात् / तमःप्रचयनिःशेषविशुद्धिफलमेव तत् // 1 // " इत्यनेन केवलज्ञानस्याकिश्चित्करत्वमुच्यते तदोषपक्तिरूपकार्यापेक्षया, न तु पकानां भवोपप्राहिणां क्षपणरूपकार्यमाश्रित्य, तत्तव्यापारस्य तदा जागरूकत्वात् , यदि च स्वरूपशुद्धिग्राहकनयेन केवलज्ञानस्य निर्व्यापारत्वं स्वीक्रियते तदा यथाख्यातचारित्रात्मकक्रियाया अपि तथात्वमेवाभ्युपगन्तुं युक्तम् , समुद्घातादिना कर्मक्षपणव्यापारस्य योगविशेषेणैव वक्तुं शक्यत्वात् // 1 // मुक्तिबन्धहेतुविवेकेन फलशुद्धिग्राहकनयेन तत्र चारित्रहेतुत्वाभ्युपगम्यमानो ज्ञानहेतुतामपि न व्याहन्ति // 2 // प्रतिक्षेपहेतुमाह- कर्मप्रागभावासहवृत्तीति- स्वसमानाधिकरणकर्मप्रागभावाधिकरणकालावृत्तीत्यर्थः, न तु स्वसमानाधि. करणकर्मप्रागभावाधिकरणकालवृत्तीत्यर्थः, तथा सति संसारदशाकालीनकर्मनाशस्यापि स्वसमानाधिकरणकर्मप्रागभावानधिकरणमुक्तिकालवृत्तित्वेन निरुक्तकार्यतावच्छेदकाऽऽक्रान्ततया तस्य तत्त्वज्ञानं विनैव व्यतिरेकव्यभिचारस्तदवस्थः स्यादिति बोध्यम् , कायव्यूहद्वारा युगपद्भोगस्तत्वज्ञानादेव भवति, तत्र तत्त्वज्ञानस्य कारणत्वे व्यतिरेकव्यभिचाराभावादित्यर्थः / अस्मसिद्धान्तेऽपि जनैसिद्धान्तेऽपि / “कर्महेतुत्व" इत्यस्य स्थाने " कर्मनाशहेतुत्व" इति पाठो युक्तः। . अनपायं निर्विघ्नम्। उक्कार्थे नियुक्तिवचनं प्रमाणयति- तदुक्तमिति / णाउण० इति- "ज्ञात्वा वेदनीयमतिबहुकमायुष्कं च स्तोकम् / कर्म प्रतिलेखितुं व्रजन्ति जिनाः समुद्घातम् // " इति संस्कृतम् / अत्र उक्तनिरुक्तिवचने। त्वाप्रत्ययबलात् णाउण-ज्ञात्वेति क्त्वाप्रत्ययबलात्, अस्य प्रतीतेरित्यनेनान्वयः. एवं नियतपौर्वापर्यस्येत्यस्यापि तेनैवान्वयः। "नन्यसिद्धत्वस्य" इत्यस्य स्थाने " नन्यथासिद्धत्वस्य" इति पाठो युक्तः / कारणत्वलाभः। अनन्यथासिद्धत्वे मति नियतपूर्ववर्तित्वस्वरूपं कारणत्वं तस्य घटकयोरनन्यथासिद्धत्व-नियतपूर्ववर्तित्वयोः प्रतीत्या लाभः। अन्यदपीतियुक्त्यन्तरमपि तत्र प्रमाणमित्यर्थः / युक्त्यन्तरमेव दर्शयति- आभोगवीर्यस्यैवेति- आभोग:- उपयोगात्मकज्ञानस्वरूपः, तद्वीर्यस्य कर्मक्षयं प्रति कारणत्वे ज्ञानस्य कर्मक्षयं प्रति कारणत्वमायातमेवेत्याशयः। यत्पुनरित्यस्य 'अकिञ्चित्करत्वमुच्यते' इत्यनेन सम्बन्धः / "शाना अ" इत्यस्य स्थाने " ज्ञानाद" इति पाठो युक्तः / तमःप्रचयेत्यत्र तमःपदमज्ञानार्थकम् / तत् केवलज्ञानम् / तत् केवलज्ञानस्याकिञ्चित्करत्ववचनम् / “तत्तद्वयापारस्य" इत्यस्य स्थाने " तत्र तद्वयापारस्य " इति पाठो युक्तः / तत्र पक्कमवोपप्राहिकर्मक्षये / तव्यापारस्य तत्त्वज्ञानव्यापारस्य / तदा भवोपप्राहिकर्मणां पक्वतादशायाम् / जागरूकत्वात् अवश्यम्भावात् , यो हि स्वकार्यमवश्यमेव सम्पादयति स तत्र समर्थस्तस्मिन् कार्य जागरूको न तु तत्र सुप्तः, एवं तझ्यापारोऽपि तथा, जागर-स्वापादीनां ज्ञानाज्ञानाद्यवस्थाविशेषाणां वस्तुगत्या चेतनधर्माणां व्यापारे वस्तुतोऽभावादुपचारादेव तत्तत्कार्येऽवश्यम्भावमुपादाय तथा व्यपदेश इति बोध्यम् / स्वरूपशुद्धिग्राहकनयेनेति- केवलज्ञानं स्वरूपतः शुद्धमेव न तु किञ्चिद्धर्मकलङ्कितमित्येवस्वरूपशुद्धकेवलप्राहिनयेनेत्यर्थः / तथात्वमेव निव्यापारत्वमेव / ननु यदि यथाख्यातचारित्रात्मिका क्रिया निर्व्यापारा तदा समुद्घातादिना कर्मक्षपणव्यापारः केन भवेदित्यपेक्षायामाह- समुद्घातादिनेति / मुक्ति-बन्धहेतुविवेकेनेति- अयं मुक्तिहेतुरयं च बन्धहेतुरित्येवं

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282