Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 274
________________ नवायततरङ्गिणा सरशिणीतरणिया समहतो भयोपण। न च नयवचनेषु पक्षपातः, कचन समाकलितप्रमाणदृष्टेः / अभिमतविषये हि गोपनीया, अनभिमते यदमी विगोपनीयाः // 4 // ब्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् / तदिह सविधमोहि मा स्पृशेति, छलवदिदं न विशङ्कनीयमार्यैः // 5 // प्रथमत इह लौकिकोऽर्थबोधस्तदनु नयात्मक एव मध्यमः स्यात् / तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः // 6 // श्रुतमय उदितः किलाद्यबोधो, मतहतकृनयचिन्तया द्वितीयः / स्वमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः // 7 // न चेति। समाकलिता- समीचीनतयाऽऽलोचिता, प्रमाणदृष्टियन स समाकलितप्रमाणदृष्टिस्तस्य समाकलितप्रमाणहष्टः, मम, नयवचनेषु नयात्मकवचनेषु नयप्रभववचनेषु वा मध्ये, वचन कस्मिन्नपि नयवचने, पक्षपात: अयमेव इत्येवमभिनिवेशः, न च नैव, हि यतः, ममी नयाः, अभिमतविषये यद् वस्तु यदपेक्षया यथाभूतमभिमतं तथाभूते वस्तुनि, गोपनीयाः रक्षणीयाः, एवं यत् यस्मात् , अभिमते यद् वस्तु यद्रूपेणाभिमतं न भवति तथाभूते वस्तुनि, विगोपनीयाः अप्रकटनीया इत्यर्थः // 4 // बजतीति / फलवति निराकाससम्पूर्णार्थावबोधकत्वात् संशय-विपर्ययज्ञाननिवर्तनलक्षणफलशालिनि / प्रमाणवाक्ये स्यादस्त्येव घटः स्यान्नास्त्येव घट इति सप्तभङ्गात्मकप्रमाणवाक्ये। नयवचनम् अस्तित्वाोकधर्मप्रतिपादकं संग्रहादिनयसमुत्थवचनं नयात्मकवचनं वा / बहुरूपभङ्गभावम् अनेकप्रकारभङ्गतां व्रजति, प्रत्येकनयप्रवृत्तवचनानां नयात्मकवचनानां वा परस्परविभिन्नभकरूपतागमनं युज्यत एव / तत् तस्मात् / इह नयनिरूपणे। "सविधमोहि" इत्यस्य स्थाने "सविधमेहि" इति पाठो युक्तः, सविघं निकटम् , एहि आगच्छ / मा स्पृश मत्स्पर्शनं न कुरु। इति एवंस्वरूपं, वचनम् / छलवत् यथा छलं तथा, यो हि यन्निकटमागच्छति, स तं स्पृशत्यपि, अतिसमीपागमनस्य तस्संयोगजनकत्वात् , तथा चाशक्यार्थप्रतिपादकत्वाद् भवति सविधमेहि मा स्पृशेति वचनं छलम् / एवं छलस्वरूपम्। इदम् अस्ति घटो नास्ति घट इति नयवचनम्। आयः निर्मलमतिमिः / न शङ्कनीयम् एकनयसमुत्थं किश्चिदपेक्षयाऽस्ति घट. इति वचनम् , अपरनयसमुत्थं निमित्तान्तरापेक्षया नास्ति घट इति, तयोर्द्वयोरपि परस्पराविरुद्धसम्भकदर्थकत्वेन छलत्वाभावादित्यर्थः // 5 // इत्यं पञ्चभिः पद्यैः समूलां नयामृततरङ्गिणी स्तुत्वा तज्जन्यबोधवैचित्र्यमुपदर्शयति- प्रथमत इहेति / प्रथमतः निमित्तमेदालोचनतः प्रागेव / इह शब्दव्यवहारे / लौकिकः आपामरलोकसम्बन्धी आकांक्षाऽऽसत्ति-योग्यताज्ञानादिघटितसामप्रीप्रभवः / अर्थबोधः पदार्थद्वयान्वयबोधः / तदनु तदनन्तरम् / नयात्मक एव निमित्तभेदापेक्षयैकैकधर्मप्रकारकषाद्यर्थविशेष्यकनयात्मकबोध एव / मध्यमः स्यात् लौकिकबोध-प्रमाणबोधयोर्मध्यभावी बोधो भवेत् , तथा च सौकिकबोधोऽस्तित्वप्रकारकघटविशेष्यकः नयात्मकबोधश्च स्वद्रव्याद्यपेक्षयाऽस्तित्वप्रकारकघटविशेष्यकः / तदुपरि नयात्मक- . बोधानन्तरम् / परितः सर्वतोभावेन, स्वस्वविषयधर्मावस्थाननिमित्तापेक्षाभेदव्यापनेनेति यावत् / प्रसर्पिण:- प्रवर्तमानाः, भनाः-स्यादस्त्येव घटः, स्यानास्त्येव घट इत्यादयस्तेषां व्यतिकरः-परस्परसाकाङ्कभावेनैकवाक्यतालक्षणः सम्बन्धः, तेन संवलित:- जन्यजनकभावसम्बन्धेन प्रतिबद्धः / प्रमाणबोधः प्रमाणात्मकबोधः, सप्तमात्मकमहावाक्यप्रभवः अमागास्मकतृतीयबोध इत्यर्थः // 6 // भ्रतमय इति- यथा यथा श्रूयते शब्दस्तथैवार्थबोधो भवतीति श्रुतमनतिक्रम्य जायमानत्वाच्छ्रतमयः / किल इतीत्यतिखे, एवं वृद्धपरम्परयाऽवगम्यते / आद्यबोधो लौकिकोऽर्थबोधः / मतहतकृदित्यस्य स्थाने मतहतिकृदिति मतशतकदिति वा पाठो भवितुमर्हति प्रथमपाठे एको नयः स्वप्रतिपक्षनयमतं विनाशयतीति मतहतिकृदिति द्वितीयपाठे

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282