Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयावततरहिणी तरङ्गिणीतरणियां लमहतो ज्योपदेशः। क्षेपककारणत्वरूपस्थूलापेक्षयैव तदेकान्ताभिधानोपपत्तेः, अत एव शैलेश्यन्तक्षणभाविधर्महेतुत्वमिति विशुद्धैवम्भूताभिप्रायेणैवास्माभिस्तत्र तत्र समर्थितम् / यत् तु मिथ्याशो मिथ्याज्ञानोन्मूलनद्वारा तत्त्व. ज्ञानमेव मुक्तिहेतुरिति मन्यन्ते ते मिथ्याज्ञानोन्मूलनेऽपि तत्तन्मनःप्रणिधानरूपायाः क्रियाया हेतुत्वं कथं न पश्यन्ति, मिथ्याज्ञानवासनोन्मूलनत एव कर्मनिरपेक्षं तत्त्वज्ञानं हेतुरिति चेत् ? तर्झदृष्टपरिकल्पनमेतत् मिथ्याज्ञानवासनायाः स्मृत्येकनाश्यत्वात् तत्त्वज्ञानस्य तन्नाशकताया लोकेऽदृष्टत्वात् , अदृष्टकल्पने वाऽऽगमानुसारेण ज्ञानवत् कर्मणोऽपि मलक्षयद्वारा मुक्तिहेतुत्वकल्पनमेव ज्यायः, तथा चाभ्यधादासुरोऽपि वासिष्ठे" तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिका / नश्यति क्रियया पुत्र ! पुरुषस्य तथा मलम् // 1 // " ] इत्यादि / किश्च, विहितत्वेन पुण्यपापक्षयान्यतरहेतुत्वव्याप्तेस्तत्त्वज्ञानस्य कर्मतुल्यत्वम्, न च चिकित्सा. दावेव व्यभिचारः, मुमुक्षुविहितत्वेन व्याप्ती व्यभिचाराभावादिति पुष्टिशुद्ध्यनुबन्धद्वारा ज्ञान-कर्मणो. मुक्तौ तुल्यवदेव हेतुतया समुच्चयपक्ष एव अनाविल इति सिद्धम् // * // .. संवलितमुक्तिक्षणे' इत्यादिना खण्डितत्वात् / निरासे हेतुमाह- एकैकस्येति - ऋजुसूत्राद्यैकैकनयस्येत्यर्थः / तदेकान्ताभिधानेति- सद्दुज्जुसुआणमित्येकान्तसंयमकारणत्वप्रतिपादकवचनेत्यर्थः / अत एवेत्यस्य समर्थितमित्यनेनान्वयः, शैलेश्यन्तक्षणभावी यो धर्मस्तस्यैव मुक्ति प्रति कारणत्वमित्यर्थः / अस्माभिः यशोविजयोपाध्यायः। तत्र तत्र स्वनिर्मितानेकप्रन्थेषु / मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानमेवैकं मोक्षजनकभित्येकान्तवादिनां केषाश्चिन्मतमुपन्यस्य दूषयतिये स्विति / " यत् तु" इत्यस्य स्थाने " ये तु" इति पाठो युक्तः, अस्य मन्यन्त इत्यनेनान्वयः / भवतु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुः किन्तु मिथ्याज्ञानोन्मूलने यथा तत्त्वज्ञानं हेतुस्तथा तत्तन्मनःप्रणिधानरूपा क्रियाऽपि हेतुरिति तत्तन्मनःप्रणिधानक्रियाऽपि मिथ्याज्ञानोन्मूलनद्वारा मोक्षहेतुर्भवेदिति तदनालोचनं तेषामज्ञानविज़म्भितमेवेति तन्मतदूषणमुपदर्शयति-ते इति- अस्य कथं न पश्यन्तीत्यनेनान्वयः / ननु मिथ्याज्ञानोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरित्येव नेष्यते, किन्तु मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा तत्त्वज्ञानं मोक्षहेतुरिति तत्र नोक्तदोष इति पराकूत. मुद्धाव्य दूषयति- मिथ्याशानवासनोन्मूलनत पवेति मिथ्याज्ञानजन्यवासनाया भावनाख्यसंस्काररूपायास्तत्त्वज्ञाना. जन्यत्वाद् भावनात्वावच्छिन्नप्रतियोगिताक,सत्वावच्छिन्नं प्रति स्मृतित्वावच्छिन्नस्यैव कारणस्वस्य दर्शनबलाद् व्यवस्थितेः, तत्त्वज्ञानस्य तु मिथ्याज्ञानजन्यवासनाध्वंसजनकत्वं लोके न दृष्टमिति तथाकल्पनाऽदृष्टचरी प्रामाणिकैरुपेक्ष्यैवेति दूषणं दर्शयति- तहीति / एतत् मिथ्याज्ञानवासनोन्मूलनत एवं कर्मनिरपेक्षं तत्त्वज्ञानं मोक्षहेतुरिति कल्पनम् / तत्कल्पनस्त्यापरिकल्पनत्वे हेतुमाह-मिथ्याज्ञानेति / स्मृत्येकनाश्यत्वात् स्मृतिमात्रजन्यनाशप्रतियोगित्वात् / तन्नाशकतायाः मिथ्याज्ञानजन्यवासनानाशजनकतायाः। ननु लोकेऽदृष्टमपि शास्त्रानुसारेण तत्त्वज्ञानस्य मिथ्याज्ञानजन्यवासनोन्मूलकत्वं मिथ्याज्ञानजन्यवासनोन्मूलनद्वारा मोक्षजनकत्वं च परिकल्प्यते आगमवचनप्रामाण्यादित्यत आह- अष्टकल्पने घेति / कर्मणो मलक्षयहेतुत्वे वासिष्ठवचनं प्रमाणयति-तथा चेति / तण्डलस्येति पद्यं स्पष्टम् / भपि च तत्त्वज्ञानं पुण्यपापक्षयाऽन्यतरकारणं विहितत्वात् कर्मवदित्यनुमानेन पापक्षयजनकतया सिद्धस्य तत्वज्ञानस्य तद्वारैव मोक्षजनकत्वमिति पुटिशुद्धधनुबन्धद्वारा मुको तुल्यवदेव हेतुत्वमिति समुच्चयपक्ष एवं दोषकलकरहित इत्याह-किश्चेति / ननु विहितवं चिकित्सादावस्ति न च तत्र पुण्यपापक्षयान्य तरजनकत्वमिति व्यभिचारिणा विहितत्वहेतुना न तत्त्वज्ञानस्थ पुण्यपापक्षयान्यतर हेतुत्वं सिद्धथतीत्याशक्य- प्रतिक्षिपति-न चेति / प्रतिक्षेपहेतुमुपदर्शयति-मुमचविहितत्वेनेतितथा च मुमुक्षुविहितत्वमेव हेतुः तस्याव्यभिचरितत्वात् प्रकृतसाध्यसाधकत्वं स्यादेवेति / समुच्चयपक्षमुपसंहरन् प्रन्थ.

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282