Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 419 नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलड़तो गयोपदेशः। वक्तुं तात्पर्यमज्ञात्वाप्येतदुनीय वास्तवम् / प्रामाण्यमप्रमाणेऽपि, वाक्ये सम्यग्दृशां मतम् // 11 // सम्यक्श्रुतस्य मिथ्यात्वं मिथ्यादृष्टिपरिग्रहात्। मिथ्याश्रुतस्य सम्यक्त्वं सम्यग्दृष्टिग्रहादतः // 12 // लौकिकान्यपि वाक्यानि प्रमाणानि श्रुतार्थतः / तात्पर्यार्थे प्रमाणं तु सप्तभङ्गात्मकं वचः // 13 // नाप्रमाणं प्रमाणं वा स्वतः किन्त्वर्थतः श्रुतम् / इति यत् कल्पभाष्योक्तं तदित्थमुपपद्यते // 14 // तात्पर्य खल्वपेक्षा नय इति च समं स्थापितं शास्त्रगर्भे, तत्कल्लोलैर्विचित्रैः समयजलनिधौ जायते चिद्विवर्तः। यत्त्वेकं निस्तरङ्गं परमसुखमयं ब्रह्म सर्वातिशायि, स्थायिज्ञानस्वभावं तदिह दहतु वोऽनल्पसङ्कल्पजालम्॥१५ निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गात्मका वा, शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः / / ननु शुकवचने वक्तुः शुकस्य तात्पर्य नास्तीति कस्य तात्पर्यस्य ज्ञानं तत्र कारणं स्यादित्यत आह-वक्तुरिति / "वक्तं तात्पर्य" इत्यस्य स्थाने "वक्तुस्तात्पर्य" इति पाठो युक्तः, वक्तुः शुकस्य, तात्पर्यस्यैवाभावात् तज्ज्ञानं न सम्भवतीत्यतस्तात्पर्यमक्षात्वा तात्पर्यमगृहीत्वा, अपि, वास्तवं पारमार्थिकम् / एतत् तात्पर्यम् , यत्र वक्तुस्तात्पर्य नास्ति शुकादेस्तत्र तदध्यापयितुस्तात्पर्यमन्ततः सर्वज्ञस्यैव शुकाद्यच्चरितं वाक्यमेतदर्थ बोधयत्वित्याकारकं समस्त्येव पारमार्थिकम् / तदुन्नीय यथार्थश्रुतस्यैकान्ताद्यात्मकस्याघटमानत्वादेतत्तदपेक्षयवमेतदित्यत्रैवोक्तवाक्यतात्पर्यमित्येवं ज्ञात्वा / अप्रमाणेऽपि वाक्ये अप्रमाणभूतेऽपि तीर्थान्तरीयागमवाक्ये / प्रामाण्यं सम्यग्दृशां सम्यग्दृष्टीनाम् / मतं सम्मतमित्यर्थः // 11 // ... तात्पर्यग्रहस्य सम्यगर्थविषयकस्य मिथ्यार्थविषयकस्य च वैचित्र्यात् तत्तात्पर्यविषयीभूतार्थप्रतिपादकत्वेन सम्यक्श्रुतस्यापि मिथ्यादृष्टयुनीतातथाभूतार्थविषयकत्वेन मिथ्यात्वम् , मिथ्याश्रुतस्यापि सम्यग्दृष्टयुन्नीतसम्भवदर्थप्रतिपादकत्वेन सम्यक्त्वमित्युपदर्शयति- सम्यक्श्रुतस्येति / अतः तात्पर्यग्रहवैचित्र्यात् / अन्यत् स्पटम् // 12 // . श्रुतार्थानुसार्यर्थप्रतिपादकानि लौकिकान्यपि प्रमाणानि तात्पर्यविषयीभूतसम्यगर्थप्रतिपादकत्वात् , सप्तभनयात्मकं वाक्यं पुनः प्रमाणमेवेत्याह-लौकिकाम्यपीति- अपिना अलौकिकवाक्यस्य प्रामाण्यं समुचितम् / श्रुतार्थतः श्रुतार्थानुसारेण / तात्पर्याथै इति च देहलीदीपन्यायेन पूर्वोत्तरत्र चान्वेति, अन्यत् स्पष्टम् // 13 // * 'प्रामाण्या-ऽप्रामाण्ययोः सम्यक्तात्पर्या- सम्यक्तात्पर्यापेक्ष्यत्वमित्यभिप्रायत एवं कल्पभाष्योक्तिसङ्गतिरित्याह-नाप्रमानमित्ति / श्रुतम् आगमः / स्वतः स्वरूपतः / अप्रमाणं प्रमाणं वा न भवति, किन्त्वर्थतः प्रमाणमप्रमाणं वा भवति, इति एवम् , यत् कल्पभाष्योकं तत् कल्पभाष्योक्तम् , अनन्तरोपदर्शितप्रकारेण, उपपद्यते घटते, अन्यथा यस्मिन्नथें प्रमाणं तस्मिन्नर्थेऽप्रमाणमिति न सजतं स्यादिति // 14 // तात्पर्यमिति / खल निश्चयेन / सममिति- एकमित्यर्थः। तात्पर्यमेवापेक्षा, सैव नय इत्येवं शास्त्रगर्भ सिद्धान्तमध्ये / स्थापितं निर्णीतम् / विचित्रः अनेकप्रकारैः / तत्कलोलेः नयविचारलक्षणतरः। समयजलधी जैनागमसमुद्रे / चिद्विवर्तः चितश्चैतन्यलक्षणज्ञानस्य विवर्तः परिणामः / जायते उत्पद्यते / एवं सत्यपि यत्तु तत् पुनः / निस्तर वस्तुगत्या निरुपाधिकत्वेन सोपाधिकधर्मरहितत्वात् तत्तदौपाधिकधर्मावलम्बनेन प्रवर्तमानानेकप्रकारकविशिष्टबुद्धधात्मकतरजविकलम् / परमसुखमयम् ऐकान्तिकात्यन्तिकसुखैकस्वरूपम् / अत एव सर्वातिशायि सर्वापेक्षयोस्कृष्टम् / स्थायिज्ञानस्वभावं स्थिरात्मकं यज्ज्ञानं केवलं तत्स्वभावं तदात्मकम् / ब्रह्म परमात्मचैतन्यं समस्तीति शेषः / तत् निरुक्तस्वरूपं ब्रह्म। इह अस्मिन् नयविचारे संसारे वा। वः युष्माकम् , एतप्रन्थविचारपर्यालोचनपरिपक्वसूक्ष्ममतीनां संसारासारताभावनापरिणतबुद्धीनां वा / अनल्पसंकल्पजालं बहुप्रकारमानसिकविचारात्मकतन्तुसबटननिष्पनबन्धनकार्यकारिजालम् / दहतु विनाशयत्वित्यर्थः // 15 // निक्षेपा वैति / सार्ववाचः शशारा यस्याग्रे किञ्चिन्न भान्ति, स्वीयं तद्रूपं हे भगवन् / उच्चैः प्रकटय, हे आत्मन् / बाद. प्रसीदेति सम्बन्धः / के सार्ववाचः शृङ्गारा इत्यपेक्षायामाह-निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गा

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282