Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 271
________________ 414 मयामततरक्षिणी-तरक्षिणीतरणिभ्यां समहतो नयोपदेशः / प्रधानग्राहकज्ञाननयेन ज्ञानोत्कर्षः सुवच एव // 11 // 12 // दृष्टान्तौ चात्र पम्वन्धौ, तयोरन्यतरस्याकिश्चित्करत्वेन संयोगपक्ष एव श्रेयान् , न च कुर्वद्रूपत्वनये शैलेश्यन्तक्षणभाविचारित्रमेव मुक्तिरूपफलोपधायकत्वेन विशिष्यत इत्यपि शङ्कनीयम् , कुर्वद्रूपलक्षणस्य सहकारिसमवधाननियतत्वेन तत्कालीनजानक्षणस्यापि मुक्तिहेतुत्वात् / पुञ्जात् पुलोत्पत्तिपक्षे बीजपाथःपवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन हेतुत्वमिति चारित्रक्षणस्य मुक्तावुपादानत्वेन हेतुत्वाद् विशेष इत्यप्यसाम्प्रतम् , ज्ञानादिसंवलितमुक्तिक्षणे संवलितक्षणस्यैव हेतुत्वात् तच्चातव्यावृत्त्या शक्तिविशेषादिना वेत्यन्यदेतत् , कथं तर्हि " सदुज्जुसुआणं पुण निव्वाणं संजमो चेव" [ ] इति नियुक्तिकचनश्रद्धानवता तेषां कुर्वद्रूपक्षणावगाहित्वात् तत्र चैकान्तस्यानुपदमेव निरस्तत्वादित्याशङ्कनीयम् , एकैकस्य शवभेदत्वेना. श्वरणस्य प्राधान्येऽन्धो दृष्टान्त इत्याह- दृष्टान्तौ चात्र पडग्वन्धाविति / ज्ञानवानपि पङ्गुर्गन्तव्यग्राममार्ग पश्यन्नप्येको गन्तव्यमाम नासदयति, क्रियावानपि अन्धो गन्तव्यग्राममार्गादर्शनादमीष्टं प्रामं न शक्नोति प्राप्तुं किन्तु मिलितो ताव... भीष्टदेशं प्राप्नुत एवेत्येवं संयुक्त ज्ञानचरणे मोक्षं जनयत इति समुच्चयवाद एवादरणीय इत्याह-तयोरिति- पवनपयोरिसर्थः / न चेत्यस्य शङ्कनीयमित्यनेनान्वयः / कुर्वतपत्वनय इति- अङ्कुरादिकं प्रति बीजादीनां बीजवादिना न कारणत्वं किन्त्वकुरकुर्वद्रूपत्वेन बीजादीनामङ्कुरादिकं प्रति कारणत्वम् , धूमकुर्वद्रूपत्वने वयादीनां धूमं प्रति कारणत्वमित्येवं तत् तत् कार्य प्रति तत्तत्कार्यकुर्वद्रूपत्वेन तत्तत्कार्यकारणानां कारणत्वमित्यभ्युपगन्तृनय इत्यर्थः / निषेधे हेतुमाह- कुर्व गस्येति / तत्कालीनेति- शैलेश्यन्त्यक्षणमाविचारित्रकालीनेत्यर्थः। चारित्रस्य प्रकारान्तरेण ज्ञानाद् विशेषस्योपदर्शनपुरस्सरमयुक्तत्वमावेदयति- पुञ्जात् पुजोत्पत्तिपक्ष इति - पूर्वक्षणवर्तिरूप-रस गन्ध स्पर्शाणुपुजादुत्तरक्षणे रूप-रस-गन्ध-स्पर्शाणुपुलमुत्पद्यते, सत्र पूर्वक्षणवर्तिरूपाणोरुत्तरक्षणवर्तिरूपाणुं प्रत्युपादानविधया कारणत्वम्, रसाण्या- : दीनां तत्र सहकारिविधया कारणत्वम् , एवं पूर्ववर्तिरसाद्यनामुत्तरक्षणवर्तिरसाद्यणून प्रत्युपादानविधया कारणत्वं रूपादीनां च तत्र सहकारिविधया कारणत्वमित्यभ्युपगन्तृमते इत्यर्थः / बीजेति- शाल्यकुरान् प्रति शालिबीजादय उपादानविधया कारणं पाथः-पवनादयश्च तत्र सहकारिविधया कारणम् , एवं पाथः-पवनादीन् प्रति पाथःपवनादय उपादानविधया कारणं बीजादयश्च सहकारिविषया निमित्तत्वेन कारणमित्येवं बीज-पाथः-पवनादीनामेकत्रोपादानत्वेनान्यत्र च निमित्तत्वेन कारणत्वमिति बोध्यम् / इति कार्यविशेषापेक्षयोपादानत्व-निमित्तत्वव्यवस्थितौ / विशेषः निमित्तत्वेन मोक्षं प्रति कारणात् तत्त्वज्ञानाचारित्रक्षणस्य वैलक्षण्यम् / असाम्प्रतम् अयुक्तम् / तत्र हेतुमाह-शानादीति- मुक्तिक्षणे ज्ञानादिकमपि विद्यत इति पुञ्जात् पुञ्जोत्पत्तिपक्षे ज्ञानादिसंवलितमुक्तिक्षणात्मकपुञ्ज ज्ञान-दर्शन-चारित्रपुञ्जस्यैव कारणत्वात् तत्रोक्तविशेषस्य विनिगन्तुमशक्यत्वाचारित्रस्यैव हेतुत्वमित्यतन्नोपपद्यत इत्यर्थः / ननु ज्ञान-चारित्रादिसमुच्चयवृत्त्येकधर्माभावात् कथं संवलितस्यैव कारणत्वमित्यत आह- तच्चेति- संवलितक्षणस्य कारणत्वं चेत्यर्थः। अतद्वयावृत्त्या ज्ञानभिमत्वे सति दर्शनभिन्नत्वे सति चारित्रभिन्नो यस्तद्भिावेन / शक्तिविशेषादिना ज्ञान-दर्शन-चारित्रेषु संवलितेष्वेव मोक्षानुकूलैकशक्तिविशेषः कल्प्यते, धर्मान्तरमेव वा किञ्चित् कल्प्यते, तद्रूपेण एवं चातझ्यावृत्तेरन्यतमत्वस्वरूपायाः प्रत्येकमपि ज्ञानादौ सत्त्वेनैकैकस्मादपि ज्ञानादितो न मुक्तिप्रसङ्गः / अन्यदेतत् वादान्तरम् / “कथं तर्हि " इत्यस्य स्थाने " न चैवं कथं तर्हि " इति पाठो युक्तः, " नियुक्तिवचनश्रद्धावतां" इत्यस्य स्थाने च " नियुक्तिवचनं, तच्छ्रद्धानवता " इति पाठो युकः। न चेत्यस्याशङ्कनीयमित्यनेनान्वयः। कथं तीत्यस्य नियुक्तिवचनमित्यनेनान्वयः / सददुज्जु० इति-" शब्द सूत्राणां पुनः निर्वाणं संयमादेव" इति संस्कृतम्, एतद्वचनं पुनातू पुजोत्पत्तिरित्यभ्युपगन्तृऋजुसूत्रनये मुक्ति प्रत्येकान्तेन संयमस्यैव कारणत्वमवबोधयति, तत् कथं सजतमित्याक्षेपः / तत्र हेतुमाह- तच्छ. द्धानवतामिति- उक्तनियुक्तिवचनश्रद्धानवतामित्यर्थः / तेषाम् ऋजुसूत्रनयानुसारिणाम् / कुर्वदूपक्षणावगाहित्वात् उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य तत्तत्क्षणकर्वद्रपक्षणत्वत्वेन कारणत्वस्याभ्युपगन्तृत्वात् / तत्र च निरुक्तपक्षे च / एकान्तस्य मुक्ति प्रति संयमस्यैव कारणत्वमित्येकान्तस्य / अनुपदमेव अनन्तरमेव / निरस्तत्वात् 'शानादि

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282