Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः / “जो दिव्वेण पखित्तो तहा तहा हन्त पुरिसकारु त्ति। तत्तो फलमुभयजमवि भन्नइ खलु पुरिसकाराओ॥१॥ एएण मीसपरिणामिए उ जंतंमि तं च दुगजण्णं / दिव्वाउ णवरि भन्नइ णिच्छयओ उभयज सव्वं // 2 // " [बीजादिविंशतिका ] -- अत्र मिश्रपरिणामिन इत्यस्यानुत्कटत्वेन परिणामित इत्यर्थः / ननु यत्र भोजकादृष्टेन भोजनं भोक्तृव्यापार विनैवोपनामितं तत्र भोक्तृयत्नस्यानुत्कटोऽपि क इव व्यापार इति चेत् ? तदीयचेष्टास्वावच्छिन्ने तदीययत्नत्वेन हेतुत्वात् सामग्र्युपनायकोऽपि मुखप्रक्षेपादिरूप एव, प्रापकादृष्टेन आकस्मिकधनप्राप्त्यादिस्थलेऽपि प्रतिग्रहादियत्नोऽवर्जनीय एव, किं बहुना ? यत्र व्यक्त्या यत्नो न कोऽपि दृश्यते तत्र देवाक्षेपकभवान्तरीययत्नेनाप्युभयोस्तुल्यकक्षात्वमुपपादनीयम् , प्रधान-गुणभावस्यापेक्षिकत्वेन तद. बाधकत्वात्, तदुक्तम्" पुवकयं कम्म चिय चित्तविवागमिह भन्नई दिव्यो। कालाइएहि तप्पायणं तु तहपुरिसकारु त्ति // 1 // इय समणीइयोगा इयरेयरसंगया उ जुज्जन्ति / इय दिव्व-पुरुसगारा पहाण-गुणभावओ दो वि // 2 // " . [बीजादिविंशतिका ] . देवम् आर्षत्वात् पुंस्त्वम् , कालादिभिस्तत्परिपाचनमिति- कृदभिहितन्यायात् कालादिभिः परिपकं केवलान्वयिनो दैवमात्रजन्यत्वेनाभिमते सत्त्वान्न व्याघात इत्यर्थः / उक्ताभिप्रायकहरिभद्रसूरिवचनसंवादमुपदर्शयतितदिदमभिप्रेत्योक्तमिति / जो दिव्वेण इति- "यो देवेन प्रक्षिप्तस्तथा तथा हन्त पुरुषकारोक्तिः। तत् ततः फलमुभयजमपि भण्यते खलु पुरुषकारतः // एतेन मिश्रपरिणामिनस्तु यत् तन्मात्रं च द्वयजन्यम् / दैवात् तु नवरं भण्यते निश्चयत उमयजं सर्वम् // " इति संस्कृतम् / ननु मिश्रपरिणामिनस्तु यत् तत् कथं देवमात्रजन्यमित्यत आह-अत्रेतिउक्तहरिभद्रसूरिवचने / “परिणामित" इत्यस्य स्थाने "परिणामिन" इति पाठो युक्तः / सर्वस्य पुरुषकारजत्वमसहमानः शङ्कते- नन्विति। उत्तरयति- तदीयचेष्टात्वावच्छिन्न इति / सामग्र्युपनायकोऽपि सामन्यनुमापकोऽपि / मुखप्रक्षेपादिरूप एवेति- मुखे भक्तादेहस्तादिना प्रक्षेपादिरपि तदीयचेष्टात्वावच्छिन्न एवं तं प्रत्यपि तदीययत्नत्वेन यत्नस्य कारणत्वाद् यत्नरूपकारणमन्तरेण निरुक्तचष्टव न सम्भवतीति तदीयचेष्टारूपकार्येण तत्कारणीभूतस्तदीयप्रयत्नोऽनुमीयत एवेति प्रयत्नलक्षणपुरुषकारस्य न तत्र व्यभिचार इत्यर्थः, अन्यत्रापि पुरुषंकारस्य व्यभिचारमपाकरोति-प्रापकादृष्टेनेति-धनप्रापकदैवेनेत्यर्थः, प्रापकादृष्टेनापि प्रतिग्रहादियत्नसहकृतेनैव धनप्राप्तिरिति पुरुषकारस्तत्राप्यस्तीति न व्यभिचार इत्यर्थः / यत्र न कोऽपि यत्न इदानीमुपलभ्यते तत्रापि देवस्य कारणतयांऽभ्युपगतस्य कारणं जन्मान्तरीयप्रयत्नोऽपि तत्कारणं भवत्येवेति न तत्रापि कार्ये पुरुषकारस्य व्यभिचार इत्याह - कि बहुनेति / उभयोः दैव-पुरुषकारयोः / तुल्यकक्षत्वं समानयोगक्षेमत्वम् / ननु यत्र यत्नो न दृश्यते तत्र जन्मान्तरीयस्य यत्नस्य सद्भावेऽपि तस्य गौणत्वमेव, प्राधान्येन त्वदृष्टस्यैव कारणत्वमित्यत आह-प्रधान-गुणभावस्येति-किश्चित्कार्ये दैवस्य प्राधान्यं पुरुषकारस्य गुणभावः, क्वचित् कार्ये पुरुषकारस्य प्राधान्यं देवस्य गुणभाव इत्येवं प्रधान-गुणभावस्यापेक्षिकत्वेन पुरुषकारकारणत्वाबाधकत्वादित्यर्थः, अत्रापि हरिभद्रसूरिव वनं संवादकमुपदर्शयति-तदुक्तमिति / पुधकयं ति- "पूर्वकृतं कर्मेव, चित्रविपाकमिह भण्यते दैवम् / कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति // इति समयनीतियोगाद् इतरेतरसङ्गतौ तु युज्यते / इति देवपुरुषकारौ प्रधान-गुणभावतो द्वावति" इति संस्कृतम् / दिब्धो इत्यस्य संस्कृतं देवमिति- एवं सति नपुंसकेन भाव्यमिति दिव्बो इत्येवं पुलिंङ्गवचनं कथमित्यपेक्षायामाह- आर्षत्वात् पुंस्त्वमिति / कालादिभिरिति- "कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायबलात् कालादिभिः परिपाचनमित्यस्य कालादिभिः परिपक्वमित्यर्थ इत्यर्थः, तथापुरुषकार इतीत्यस्य फलितमर्थमावेदयति-देवपरिणतस्यैवेति, यस्यात्मनो दैवरूपः परिणामः प्रथमतोऽभवत् तस्यैव दैवरूपपरि

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282