Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समतो नयोपदेशः / 381 - - तदित्यर्थः, दैवपरिणतस्यैवात्मनः कालादिपरिपाकेन पुरुषकारपरिणतिः, अभेदोपपत्तिरित्यर्थः, प्रधानगुणभावत इति- कार्यविशेषेऽन्यतरस्य बह्वल्पव्यापारापेक्षया, जात्या तु- " अब्भन्तर-बल्झाणं " इत्यादिना प्रबन्धेन देव-पुरुषकारयोस्तुल्यप्राधान्यमुपपादितमस्माभिरध्यात्ममतपरीक्षायामिति विस्तरार्थिना तत्र दृष्टिदया / तदेवं पञ्चकारणीनये हेतुद्वयनये वा सुदैववत् पुरुषकारस्य कार्यमानहेतुत्वा. न्मोक्षेऽपि हेतुत्वं ध्रुवम् / स च प्रन्थिभेदानन्तरं- " तदूई बाध्यते दैवं प्रयोजनं तु विज़म्भते " ] इति वचनाद् देवं बाधित्वा स्वातन्त्र्येण प्रवर्तमानो रत्नत्रयमयत्वमास्कन्दंश्चेतसः पुष्टिशुद्ध्यनुबन्धं विधाय सद्य एव. मुमुक्षोर्मोक्षमपर्यति / तेन ' चारित्रक्रियाया अप्यभव्य-दूरभव्यादौ व्यभिचारात् / " संवरनिर्जरारूपो बहुप्रकारस्तपोविधिः शास्ने / रोगचिकित्साविधिरिव कस्यापि कथश्चिदुपयुक्तः // " इत्यनेन प्रतिपुरुषं नानाविधक्रियाया अनियतहेतुत्वदर्शनस्याहेतुत्वपर्यवसायकत्वाच न मोक्षो. पायवादो ज्यायान् , इत्यपास्तम् , पुष्टिशुद्ध्यनुबन्धाभिव्य[]भावचारित्रत्वजातिमतः पुरुषकारस्य मोक्षं णामयोगिन आत्मनो या कालादिपरिपाकेन पुरुषकाररूपेण परिणतिः साऽभेदोपपत्तिः, पूर्वकृतं कर्मैव कालादिभिः परिपक्वं : सत् पुरुषकाररूपं भवत्येतदेव देवपुरुषकारयोरभेदोपपत्तिरभेदसमर्थनमित्यर्थ इत्यर्थः, देवपुरुषकारयोरुभयोरपि कार्यमा प्रति कारणत्वे व्यवस्थिते सति यत्किञ्चित्कायें प्राधान्येन देवस्य कारणत्वं देवमात्रजन्यं कार्यमेतदितिव्यवहारनिबन्धनं तत्र गुणभावेन पुरुषकारस्य कारणत्वं, यच्च कुत्रचित् कार्ये प्राधान्येन पुरुषकारस्य कारणत्वं पुरुषकारमात्रजन्य कार्यमेतदितिव्यबहारनिबन्धनं, तत्र गुणभावेन देवस्य कारणत्वमित्येवं प्रधान गुणभावत इत्येवंरूपेण देवपुरुषकारकारणत्वं कार्यविशेष क्वचित्कार्ये, अन्यतरस्य दैव-पुरुषकारयोर्मध्यादेकस्य बह्वल्पव्यापारापेक्षया यस्मिन् कार्ये दैवस्य बहुसंख्यको व्यापारः, पुरुषकारस्य त्वल्पसंख्यको व्यापारस्तस्मिन् कार्ये देवस्य प्राधान्येन कारणत्वं पुरुषकारस्य तु गुणभावेन कारणत्वम, यत्र च पुरुषकारस्य बहुसंख्यको व्यापारो देवस्य स्वल्पसंख्यको व्यापारस्तत्र कार्ये पुरुषकारस्य प्राधान्येन कारणत्वं देवस्य 'तु गुणभावेन. कारणत्वमित्यर्थः / यदा तु व्यापारगतबह्वल्पसंख्ययोर्न विवक्षा. तदानीं कार्यमाने सामान्यतः समप्राधान्येनैव दैव-पुरुषकारयोः कारणत्वं प्रवचनोपपादितमवसेयमित्याह-जात्या त्विति / उपदिशति-विस्तरार्थिनेति / तत्र . अध्यात्ममतपरीक्षायाम् / उपसंहरति-तदेवमिति / पञ्चकारणीनये काल-स्वभाव-नियति-देव-पुरुषकाराः पञ्चापि कार्यमात्रे कारणमिति मते / वा अथवा / हेतुद्वयनये कार्यमात्रे देव-पुरुषकारौ कारणमिति मते / " सुदैववत्" इत्यस्य स्थाने "देववत्" इति पाठो ज्ञेयः / मोक्षेऽपि हेतुत्वं ध्रुवं मोक्षस्य कार्थमात्रान्तर्गतत्वेन तत्रापि देववत् पुरुषकार. * कारणत्वं निश्चितम् / स चेत्यस्य मोक्षमर्पयतीत्यनेन सम्बन्धः। स च पुरुषकारश्च / तदूर्व प्रन्थिमदोत्तरकाले / "प्रयोजनं" इत्यस्य स्थाने " योजनं" इति पाठो भवतुमर्हति, योजनं प्रयत्नः / स्वातन्त्र्येण प्रवर्तमान इत्यादिक पुरुषकारस्य विशेषणं बोध्यम् / सद्य एव चेतसः पुष्टि शुद्धयनुबन्धविधानान्यतरकाल एव / तेनेत्यस्य 'अपास्तम् ' इत्यनेन सम्बन्धः। चारित्रक्रियायास्तावन्मोक्षकारणत्वं न सम्भवति, अभव्य दूरभव्यादौ चारित्रक्रियायाः सत्त्वेऽपि मोक्षस्याभावेन व्यतिरेकव्यभिचारादित्याह-चारित्रक्रियाया अपीति / संवर-निर्जरारूपतपोविधेरपि न मोक्षोपायत्वमित्याह-संवरेति / इत्यनेनः उक्तवचनेन / प्रतिपुरुषं पुरुषं पुरुषं प्रति / अनियतहेतुत्वदर्शनस्य कस्यचित् पुरुषस्यैका क्रिया मोक्ष प्रति कारणं पुरुषान्तरस्य तदन्या क्रिया मोक्षं प्रति कारणमित्येवमनियतहेतुत्वबोधनस्य / अहेतुत्वपर्यवसायकत्वात तस्क्रियाया अभावेऽपि क्रियान्तरेण मोक्षस्य भावेन व्यतिरेकव्यभिचारेण न मोक्षत्वावच्छिन्नं प्रति सा क्रिया कारणमेवं क्रियान्तरस्याभावेऽपि तक्रियया मोक्षस्य भावेन व्यतिरेकव्यभिचारेण क्रियान्तरमपि न मोक्षत्वावच्छिन्न प्रति कारणमित्येवमकारणत्वपर्यवसायकत्वात् ।चः समुच्चये। मोक्षोपायवादः मोक्ष प्रति कस्यचित् कारणत्वाभ्युपगमवादः। न ज्यायान

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282