Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयावततरक्षिणी-सरशिपातरणिन्या समतो गयोपदेश। किश्च, कर्मकारणताग्रहानुपजीवनेन लौकिकान्वय-व्यतिरेकावधृतमिथ्याज्ञाननिवर्त[न]भावसम्भावितस्य मोक्षसाधनत्वस्य "ज्ञानादेव तु कैवल्यम्" [ ]"तरति शोकमात्मवित्" [छां० 7.1.3.] "ब्रह्मविदाप्नोति पर" [तैत्ति० 2. 1. १+भस्मजा 2. 7.] "ब्रह्मविद् ब्रह्मैव भवति" [ / ..] इत्यादि श्रुति-स्मृतिशतेन तत्त्वज्ञानस्येष्टतया प्रहणात् तदेव मोक्षसाधनम् , कर्माणि तु तत्रैवान्यथासिद्धानीत्युक्तम् , यथा च न तत्रापि व्यापारस्तथोक्तमेव, अत एवार्थावबोधपर्यन्तताऽध्ययनविधेः, न तु तेन क्रत्वनुष्ठानेन स्वर्गादिफलकत्वमिति सम्प्रदायः / न च तत्त्वज्ञानस्य कर्मणां निःसप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपतदनुकूलताबोधने एव तात्पर्यात् , श्रुत्यन्तरसिद्धेऽन्यथासिद्धत्वे तदनन्यथासिद्धताया बोधयितुमशक्यत्वात्, तावतैव श्रुतेः 'कर्मप्रवृत्तिपरतानिर्वाहाद्' इत्याहुः। अत्र वयं वदामः- मोक्षस्तावत् पुरुषार्थत्वाद् दुःखसाधनध्वंस एव, न तु दुःखध्वंसः, उत्पन्ना-ऽनुत्पन्न विवेकेन तद्ध्वंसस्यासाध्यत्वात्, तत्र च ज्ञान-कर्मणो(जात्येन मुमुक्षुविहितत्वादिना वा हेतुत्वं तुल्यमेवे. सिद्धानीत्युपपादकं प्रकारान्तरं दर्शयति-किञ्चेति / कर्मेति- मोक्षं प्रति कर्मणां कारणत्वं नोपजीवति तत्त्वज्ञानस्य मोक्षं प्रति कारणत्वमिति कर्मकारणतानुपजीवनेन, अस्य मोक्षसाधनत्वस्येत्यनेनान्वयः / लौकिकेति- लौकिकौ-लौकिकप्रत्यक्षादिप्रमाणसिद्धौ, यावन्वय-व्यतिरेको ताभ्यामवधूतं-निश्चितं यत् तत्त्वज्ञानेन मिथ्याज्ञानस्य निवर्तनम् , यथा शुक्तित्व. रूपशुक्तितत्त्वज्ञानेन शुक्तौ रजतत्वज्ञानलक्षणमिथ्याज्ञानस्य निवर्तनम् , तद्भावसम्भावितस्य मोक्षसाधनत्वस्य, तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिरन्यत्र दृष्टेति प्रकृतेऽप्यात्मतत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तिस्ततश्च मोक्ष: सम्भवतीत्येवं सम्भावितस्य मिथ्याज्ञाननिवृत्तिद्वारा तत्त्वज्ञाने मोक्षसाधनत्वस्येत्यर्थः / इत्थं सम्भावनात्मकं तत्त्वज्ञाने इष्टसाधनत्वस्य प्रहणमुपदश्य स्पष्टमपि तहणं श्रुति-स्मृतिप्रभवमुपदर्शयति-ज्ञानादेवेति / "तत्त्वज्ञानस्येष्टतया" इत्यस्य स्थाने " तत्त्वज्ञाने स्पष्टतया" इति पाठो युक्तः, मोक्षसाधनत्वस्य . तत्त्वज्ञाने स्पष्टतया प्रहणादित्येवमन्वयो बोध्यः, अर्थस्तु स्पष्टः / तदेव मोक्ष. साधनं तत्त्वज्ञानमेव मोक्षसाधनम्, एवकारेण कर्मणां मोक्षसाधनत्वस्य व्यवच्छेदः / तत्रैव तत्त्वज्ञान एव / तत्रापि तत्त्वज्ञानेऽपि / यथा च येन प्रकारेण / न व्यापारः कर्मणो न व्यापारः / तथोक्तमेव तथापूर्वमभिहितमेव / उका संप्रदायसंवादमुपदर्शयति- अत एवेति-अन्यथासिद्धत्वादेवेत्यर्थः / अर्थावबोधपर्यन्तता अर्थावबोधमात्रफल अध्ययनविधेः स्वाध्यायोऽध्येतव्य इति विधेः / न त्विति- अध्ययनविधितोऽर्थान्वयबोधस्तेन क्रत्वनुष्ठानं तेन चादृष्टद्वारा - स्वर्गादिफलमित्येवं स्वर्गादिफलकत्वं नाध्ययनविधेरन्यथासिद्धत्वात् / इति एवं स्वरूपः / सम्प्रदायः सङ्गच्छते इत्यर्थः / - "न च तत्त्वज्ञानस्य" इत्यस्य स्थाने " न च श्रुतिस्तत्त्वज्ञानस्येव कर्मणामपि मोक्षजनकत्वं बोधयतीति वाच्यम्, श्रतः" इति पाठो भवितुमईति, यथा श्रुतिस्तत्त्वज्ञानस्य मोक्षजनकत्वप्रतिपादिका समस्ति तथा कर्मणामपि मोक्षजनकत्वप्रतिपादिका श्रुतिः समस्ति, एवं च श्रुतिस्तत्त्वज्ञानस्य यथा मोक्षजनकत्वं बोधयति तथा कर्मणामपि मोक्षजनकत्वं बोधयतीति श्रुतिसिद्धं कर्मणां मोक्षजनकत्वमिति न च वाच्यम्, कर्मणां मोक्षजनकत्वप्रतिपादकतयाऽभिमतायाः श्रुतेर्मोक्षप्रोगमावच्याप्यप्रागभावप्रतियोगित्वरूपमोक्षानुकूलत्वबोधन एव तात्पर्यात् , एवकारण अनन्यथासिद्धत्वे अति निःश्रेयसप्रागभावव्याप्यप्रागभावप्रतियोगित्वलक्षणनिःश्रेयसजनकत्वबोधने तात्पर्यस्य व्यवच्छेदः, अनन्यथासिद्धत्वोक्तस्वरूपकारणत्वाव.बोधने कुतो न तात्पर्यमित्यपेक्षायामाह-श्रुत्यन्तरसिद्ध इति / तावतैव कर्मणामुकस्वरूपानुकूलत्वबोधनेनैव / मान-कर्मणोईयोरेव समकक्षतया मोक्षजनकत्वस्वीकर्तृणां जनानां मतमुपदर्शयति- अत्रेति- निरुक्तविचार इत्यर्थः / बर्ष स्वाद्वादिनः / वदामः कथयामः / कथं दुःखध्वंसो न मोक्षस्तस्यापि पुरुषार्थत्वादित्याकालायामाहउत्पति-उत्पादःखध्वंसो मोक्षोऽनुत्पनदुःखध्वंसो वा, तत्र. दुःखस्य साक्षात्कारनियमादुत्पन्नदुःखस्यस्वोत्तरोपन साक्षात्कारेणैव निवृत्तस्तदात्मकस्य मोक्षस्य पुरुषप्रयत्नासाध्यस्वान पुरुषार्थत्वम् , प्रतियोगितासम्बन्धेन ध्वंसं प्रतिः सदालसम्बन्धन प्रतियोगिनोऽपि कारणत्वमित्यनुत्पनदुःखरूपप्रतियोमिनः पूर्वमभावेन तद्रूपकारणाभावादनुत्पन्न

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282