Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयाभूततरहिणी-तरक्षिणीतरणिभ्या समतो गयोपदेशः / योगेन कर्मनाशार्थ वा तत्, इदमेव च द्वारि-द्वारयोः कर्म-तत्वज्ञानयोः कारणत्वं तुल्यकक्षतया समुश्खयो नेष्ट इत्यनेन विवक्ष्यते, यद्यपि च. तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वं न शाब्दम् , तथापि 'तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि मोक्षजनककर्मत्वात् यमादिवत्' इत्यनुमानात् तथास्वसिद्रिा, न च योगस्वमुपाधिः " कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम् " [ ] इत्यादिपुराणात् " रुद्रस्तारकं ब्रह्म व्याचष्टे" [ ] इति श्रुतेश्च काशीप्रायागादेस्तत्त्व. ज्ञानव्यापारकत्वसिद्धौ तत्र साध्याव्यापकत्वाद् इत्याहुः / स्वतन्त्रास्तु- " तत्वज्ञानं प्रत्यङ्गत्वपक्षे कर्म. णामपूर्वद्वारा जनकत्वं दुरितध्वंसकल्पनातो लघुत्वात् , वस्तुतः कर्मणां निःश्रेयसहेतुत्वे तज्जन्यनिःश्रेयसजनकतया तत्त्वज्ञानस्य कर्मव्यापारत्वं वाच्यम् , तदेव तु न युकं " कर्मणा न प्रजया धनेन / ] " नान्यः पन्था विद्यतेऽयनाय '' [ श्वेता० 3. 86. 15.] " नास्त्यकृतः कृतेन " नाशेऽपि प्रारब्धकर्मणां भोगादेव क्षयो ‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि / " [ ] इति वचनात् तत्र कर्मपदस्य प्रारब्धकर्मपरत्वात् , एवं च तत्त्वज्ञानिनो यद् दुःखजनकं प्रारब्धं कर्म तद् दुःखमदत्त्वा न नश्यति, यावन तमाशस्तावन तन्मुक्तिरित्यमिसंपालनप्रयासोत्पन्नदुःखोपभोगेन कर्मनाशार्थमग्निसंपालनं कर्तव्यकक्षामास्कन्दतीति कल्पान्तरमाह-तत्सद्दाखयोगेनेति / तत् आरब्धाग्निसंपालनम् / तथा चोक्तदिशा तत्त्वज्ञानद्वारा कर्म मुक्ति जनयतीति मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति भवत्येवेत्याशयेनाह- इदमेव चेति- अनन्तरोपदर्शितस्वरूपमेवेत्यर्थः / तुल्यकक्षतया समप्रधानतया मुक्ति प्रति कारणत्वेन / समुश्चयः तत्त्वज्ञान-कर्मणोः समुच्चयः / नेष्टः नाभिमतः। न शाब्दं न शब्दप्रमाणगम्यम् / तथाऽपि तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वस्य शब्दप्रमाणागम्यत्वेऽपि / तथात्वसिद्धिः तीर्थविशेषस्नानादीनां तत्त्वज्ञानव्यापारकत्वसिद्धिः / ननु यत्र यत्र तत्त्वज्ञानव्यापारकत्वं तत्र तत्र योगत्वमित्येवं तत्त्वज्ञानव्यापारकत्वलक्षणसाभ्यव्यापकत्वाद् यत्र यत्र मोक्षजनककर्मत्वं तत्र तत्र योगत्वमिति नास्ति तीर्थविशेषस्नानादीनां मोक्षजनककर्मत्वेऽपि योगत्वाभावादित्येवं मोक्षजनककर्मत्वलक्षणसाधनाव्यापकत्वाद् योगत्वमुपाधिरिति सोपाधिकत्वाद् व्याप्यत्वासिद्धिदोषप्रस्तो मोक्षजनककर्मत्वलक्षणहेतुर्न तीर्थविशेषस्नानादीनां तत्र ज्ञानद्वारकत्वलक्षणसाध्यसाधनाय प्रभुरित्याशङ्कय प्रतिक्षिपति-न चेति / काशीमरणादेस्तत्त्वज्ञानद्वारा मोक्षजनकत्वस्य शास्त्रसिद्धत्वेन तत्र तत्त्वज्ञानव्यापारकत्वलक्षणं साध्यमस्ति, योगत्वं च तत्र नास्तीत्येवं साध्यव्यापकत्वाभावेन योगत्वस्योपाधित्वासम्भवादिति निषेधहेतुमुपदर्शयति - कथयतीति / भगवान् सदाशिवः / इह काश्याम् / अन्तकाले मरणाव्यवहितपूर्वकाले। भवभयकातरतारकं भवः- संसारः, तस्माद् यनरअदिदुःखप्राप्तिभयं तेन कातरा ये जनास्तेषां तारकं-संसारसमुद्रोत्तारं पुनः संसारागमननिबन्धनम् / प्रबोधं तत्त्वज्ञानक तारकमन्त्रं कर्णे कथयति उपदिशतीत्यर्थः / रुद्र इति- सदाशिवः, तारकं ब्रह्म ब्रह्मज्ञानजनकं मन्त्रं कथयतीत्यर्थः / "काशीप्रायागादे" इत्यस्य स्थाने "काशीमरणादे" इति “काशीप्रमापणादे" इति वा पाठो युक्तः, प्रमापणं मृत्युः / तत्र काशीमरणादौ / साध्याव्यापकत्वात् साध्यं तत्त्वज्ञानद्वारकत्वं तत्रास्ति योगत्वं च नास्तीत्येवं साध्याव्यापकत्वात् / इति एवम् / आहुः उदयनानुसारिणो वदन्ति / स्वतन्त्राणां मतमुपदर्शयति- स्वतन्त्रास्त्वितिभस्य 'आहुः' इत्यनेनान्वयः / तस्वक्षानं प्रत्यङ्गत्वपक्षे कर्म तत्त्वज्ञानस्याङ्गं - कारणमिति पक्षे। कर्मणामपूर्वद्वारा जनकत्वं नित्य-नैमित्तिककर्मणामदृष्टद्वारा तत्त्वज्ञानजनकत्वम् / लघुत्वात् लाघवात् , तत्त्वज्ञानं प्रति तत्त्वज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा कर्मणां जनकत्वे तत्त्वज्ञान प्रतिबन्धकं दुरितं कल्पनीयं तन्नाशश्च कल्पनीय इत्येवं द्वितयकल्पना. पेयकापूर्वकल्पने लाघवादित्यर्थः / यच्चोदयनाचार्यानुसारिभिस्तत्त्वज्ञानद्वारा कर्मणां निःश्रेयस प्रति हेतुत्वमित्युच्यते तस्यायकत्वमावेदयति-वस्तत इति / तज्जन्येति- कर्मजन्येत्यर्थः / कर्मजन्यत्वं यदि निःश्रेयसे भवेत् तदा कर्मजन्यनिःश्रेयस. जनकत्वात् तत्त्वज्ञानव्यापारकत्वं कर्मणां युज्येतापि, न चैवमित्याह-तदेव त्विति-नि.श्रेयसे कर्मजन्यत्वमेव स्वित्यर्थः / फरकामावे हेतुमुपदर्शयति-न कर्मणेति-" न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः" इत्येकं श्रुतिवचनं वर्मषो मोक्षखनकत्वनिषेधोपदर्शकम् , " तमेव. विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय " इति द्वितीयं श्रुतिवचनं

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282