Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 261
________________ ye मयावततरङ्गिणी-तरक्षिणीतरनिभ्यो समस्तो मयोपदेशः / न्यत्र विस्तरः / उदयनानुसारिणस्तु- " अनुत्पन्नतत्त्वज्ञानस्य सानार्थिनस्तत्प्रतिबन्धकदुरितनिवृत्तिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म स नित्योपकारकं च तत्त्वज्ञाने, उत्पन्नतत्त्वज्ञानस्य स्वन्तरलब्धदृष्टेः कारीरिसमाप्तिवदारब्धाग्निसंपालनं लोकसङ्ग्रहार्थम् , यद्यपि लोकसङ्ग्रहे न प्रयोजनम्, सुखदुःखभावतत्साधनेतरत्वात् , तथापि लोकानां नित्यत्वेन यज्ज्ञानं तत्परित्यागार्थ ( तत्परिपालनार्थ ) तत्तद्दुःखजैमिनीयैः सिद्धान्तितत्वादित्यर्थः / प्रन्थान्तरेऽप्ययं विशेषेण विचारितोऽस्ति, विशेषावगमेच्छुभिरवलोकनीयं तदेत्युपदेशाभिप्रायेणाह-इत्यन्यत्र विस्तर इति / एतावता प्रबन्धेन मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीत्युपगन्तृणां भास्करीयाणामाशयो दर्शितः, इदानी मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्तीत्युपगन्तृणामुदयनाचार्याणां मतमुपदर्शयति-उदयमानुसारिणस्त्विति- अस्य आहुरिस्यनेनान्वयः / किमाहुरित्यपेक्षायामाह-अनुत्पन्नतत्त्वज्ञानस्येति- न उत्पन्नमनुत्पन्नमनुत्पनं तत्त्वज्ञानं यस्य सोऽनुत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः / कथम्भूतस्य तस्य सानार्थिनः ज्ञानेच्छोः, अस्याऽऽरादुपकारक कौत्यनेनान्वयः / तत्प्रतिबन्धकेति- ज्ञानप्रतिबन्धकेत्यर्थः / प्रायश्चित्तवदिति- प्रायश्चित्तं यथा पापनिवृत्तिद्वारा पुरुषस्याऽऽरादुपकारक- साक्षादुपकारकं तथा नित्यनैमित्तिकादिकर्मापि ज्ञानप्रतिबन्धकपापनिवृत्तिद्वारा अनुत्पन्नतत्त्वज्ञानस्य पुंस आरादुपकारक- साक्षादुपकारकमित्यर्थः / " स नित्यो" इत्यस्य स्थाने " सन्धिपत्यो" इति पाठो युक्तः, सन्निपत्योपकारकं परम्परयोपकारकम् , ज्ञानार्थिनः पुरुषस्य तत्प्रतिपन्यकरितनिवृत्तिरेवापकारः, म साक्षादेव भवतीत्येतावता तस्य साक्षादुपकारक कर्मारादुपकारकमित्यभिधीयते, तत्त्वज्ञानस्य तु पूर्वमसत्वादात्मलाभ एवोत्पत्तिस्वरूप उपकारः, स च न साक्षात् कर्मणो भवति, किन्तु प्रतिबन्धकनिवृत्तिजनयित्वैवेति तत्वज्ञाने परम्परयोपकारक कर्म सन्निपत्योपकारकमिति कथ्यत इति बोध्यम् / यस्य तत्त्वज्ञानमुत्पन्नं तस्य कर्म नाऽऽरादुपकारकं नवा समिपत्योपकारकमित्यनुपकारकस्य कर्मणस्तदानीं करणं किमर्थमित्यपेक्षायामाह- उत्पन्नतस्वज्ञानस्येति- उत्पन्नं तत्त्वज्ञान यस्य स उत्पन्नतत्त्वज्ञानस्तस्येत्यर्थः / “लब्धष्टेः" इत्यस्य स्थाने "लब्धवृष्टेः" इति पाठो युक्तः, अन्तरं-कारीरीयागारारम्भतत्समाप्त्योर्मध्यकाले, लब्धा-प्राप्ता, वृष्टियन सोऽन्तरलब्धवृष्टिस्तस्य कारीरीयागकर्तुः पुंसः कारीरीसमाप्तिर्निष्फलाऽप्यनुष्ठिता भवति, वृष्ट्यर्थ हि कारीरीयागः क्रियते, वृष्टिश्च कारीरीयागसमाप्तेः प्रागेव जातेति निष्फलत्वं तस्याः, तथा यावज्जीवमग्निहोत्रं जुहोतीति विधिप्राप्तस्वर्गादिफलकयावज्जीवनकालीनाग्निहोत्रोपकारस्याग्नेः संपालनं तत्त्वज्ञानिनो निष्फलमपि तत्त्वज्ञानिनाऽप्यग्निसंपालनं क्रियतेऽतोऽस्माभिरप्याग्निसंपालनं कर्तव्यमेवेत्येवमुपात्तबुद्धयो लोका अग्निसंपालने प्रवर्तन्त इत्येवं लोकसङ्ग्रहार्थमित्यर्थः, अत्र "न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किश्चन / नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि // यदि, बहं न वर्तेयं. जातु कर्मण्यतन्द्रितः / मम वर्मानुवर्तन्ते मनुष्याः पार्थ | सर्वशः // उत्सीदेयुरिमे लोकाः न कुर्या कर्म चेदहम् " [गीता, अ० 3 श्लो. 22] इत्यादि गीतावचनमपि प्रमाणं बोध्यम्। ननु लोकसङ्ग्रहस्य सुखदुःखाभाव-तत्साधनभिन्नत्वेन पुरुषार्थत्वाभावात् तदर्थ तत्त्वशानिनोऽग्निपालनादौ प्रवृत्तिर्न युक्तत्यत आह- यद्यपीति / " लोकसङ्कहे" इत्यस्य स्थाने "लोकसङ्ग्रहो" इति पाठो युक्तः। कथं न लोकसङ्ग्रहः प्रयोजनमित्यपेक्षयामाह-सुख-दुःस्वाभावतत्साधनेतरत्वादिति-सुख दुःखाभाव-सुखसाधन-दुःखाभाव-साधनान्यतमभिन्नत्वादित्यर्थः, तत्र सुख-दुःखाभावयोरन्येच्छानधीनेच्छाविषयत्वलक्षणं परमप्रयोजनत्वम् , तत्साधनयोश्च सुख-दुःखाभावान्यतरेच्छाधीनेच्छाविषयत्वलक्षणं गौणप्रयोजनत्वम्. लोकसङ्ग्रहश्च तदन्यतराभावान प्रयोजनमित्याशयः। तथापि लोकसङ्ग्रहस्य प्रयोजनत्वाभावेऽपि, लोकानां विहिताचरणनिषिद्धानाचरणप्रवृत्तानां जनानाम् , नित्यत्वेन यज्शानं अग्निपालनं नित्यं सर्वदा कर्तव्यमित्याकारकम् . तत्परिपालमार्थ तद्रक्षणार्थम् , यदि तत्त्वज्ञानी नाग्निसंपालनं विदच्यात् तदाग्निपालनं न नित्य तत्त्वज्ञानिनाऽनाचरितस्वादित्यनु. मानेनाग्निपालनस्य नित्यत्वाभावज्ञानेन प्रतिरुद्धत्वात् तन्नित्यत्वज्ञानं नोदियादिति अगत्यामरणं यद् द्विजैरग्निपालनं क्रियते तदुत्सादो भवेत् , तत्वज्ञानिनाऽग्निसंपालने आचर्यमाणे तु प्रतिबन्धकनित्यत्वाभावज्ञानाभावान्नित्यत्वज्ञानमविच्छेदन समदियादेवेति भवति तत्सुरक्षितम्, ततश्च लोकानां तदाचरणतोऽग्निहोत्रादिकर्मफलमपि शास्त्रोक्तं भवत्येवेत्येवं परम्परया परगतसुखदुःखाभावसाधनत्वात् तत्त्वज्ञान्याचर्यमाणस्याग्निसंपालनस्य सफलत्वमित्यर्थः। अथवा तत्त्वज्ञानिनः सश्चितकर्मणां

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282