Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 263
________________ 40 नयाकृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो नयोपदेशः / [मुण्ड० 1. 2. 12.] " कर्मणा बध्यते जन्तुविद्यया च विमुच्यते / तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः" // [1 सं० सो० 28 ] इत्यादि श्रुतिस्मृतिशतेन निषेधात् कर्मजन्यत्वाभावाच " तपसा कल्मषं हन्ति अविद्यया मृत्यु ती ततस्तु तं पश्यति निष्कलं ध्यायमानः कषायपतिः कर्मभ्यः" इत्यादिभिस्तत्त्वज्ञानोत्पत्तिप्रतिबन्धदुरितनिवृत्त्यैवान्यथासिद्धेः प्रदर्शनाद् न च " विविदिषन्ति यज्ञेन" [ ]" सर्व कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यते " [भ० गी०४. 23 ] इत्यादिभिः कर्मजन्यताऽपि प्रतीयत इति वाच्यम् , सा हि न अपूर्वद्वारा प्रतिबन्धकदुरितानुच्छेदे अपूर्वसहस्रस्यापि अकिश्चित्करत्वात् , तदुच्छेदेन तज्जनने तु प्रमान्तराधृतकारणभावेन प्रतिबन्धकाभावेनैवान्यथासिद्धेः / न चैवं यागादेरप्यपूर्वेणान्यथासिद्धिः स्यात् , तस्य यागकारणतामहोत्तरकल्प्यत्वेनोपजीव्यापरिपन्थिस्वात् , इह तु प्रतिबन्धकाभावस्य कार्यमात्रे कार[ण]तायाः प्रागेवावधारणादिति विशेषात् / अत एव मङ्गल-कारीर्योः प्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम्, वृष्टि-समाप्ती तु स्वकारणादेवेति सिद्धान्तः / . निरुकनिषेधावबोधकम् , "नास्त्यकृतः कृतेन" इत्यादितृतीयश्रुतिवचनं तदावेदकम् , “कर्मणा बध्यते जन्तुः" इत्यादिवचनं तु स्मृतिः / निषेधात् मुक्ति प्रति कर्मणां जनकत्वस्य निराकरणात् / तज्जन्यत्वे सति तजन्यजनकत्वं तया- . पारत्वम् , तत्त्वज्ञानस्य तु कर्मजन्यत्वमेव नास्तीत्येतावताऽपि तत्त्वज्ञानस्य कर्मव्यापारत्वं न सम्भवतीत्याह- कर्मजन्यस्वाभावाचेति- तत्त्वज्ञानस्य कर्मजन्यत्वाभावाचेत्यर्थः। तत्त्वज्ञानस्य कर्मजन्यत्वमेव कुतो नेत्याकाङ्खायामाह-तपसेति / इत्यादिभिरित्यस्यानन्तरं श्रुतिभिरिति दृश्यम् , अस्य प्रदर्शनादित्यनेनान्वयः। ननु तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितनिवृत्तिस्तत्त्वज्ञाने जननीये कर्मणां व्यापार इति व्यापारेण व्यापारिणां कर्मणां नान्यथासिद्धिरिति चेत् ? न- यत्र व्यापारस्य व्यापारिनिष्ठप्रमाणान्तरसिद्धकारणत्वान्यथानुपपत्यैव कारणतया कल्पनं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धयभावेऽपि यत्र व्यापारस्य प्रमाणान्तरत एव कारणत्वं क्लप्तं तत्र व्यापारेण व्यापारिणोऽन्यासिद्धेरङ्गीकारात् , प्रकृतेऽपि तत्त्वज्ञानोत्पत्ति. प्रतिबन्धकदुरितनिवृत्तेः प्रतिबन्धकाभावविधया तत्त्वज्ञान प्रति कारणत्वस्य क्लप्तत्वेन तया कर्मणामन्यथासिद्धरवश्यम्भावादिति / न चेत्यस्य वाच्यमित्यनेनान्वयः / निषेधे हेतुमाह-सा हीति-हि- यतः, सा- तत्त्वज्ञाने कर्मता / न अपूर्वद्वारा अदृष्टद्वारा न सम्भवति / तत्र हेतु:- प्रतिबन्धकेति-तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितानुच्छेदे प्रतिबन्धकामाव. रूपकारणाभावात् तत्त्वज्ञानोत्पत्तिर्न स्यादेवेत्यदृष्टसहस्रस्याप्यकिश्चित्करत्वात् तत्त्वज्ञानानुत्पादकत्वादित्यर्थः / तदुच्छेदेन तत्त्वज्ञानोत्पत्तिप्रतिबन्धकदुरितोच्छेदेन / तजनने तु तत्त्वज्ञानजनते तु / “प्रमान्तरा" इत्यस्य स्थाने "प्रमाणान्तरा" इति पाठो युक्तः, प्रमाणान्तरेण- कर्मकारणत्वान्यथानुपपत्तिव्यतिरिक्तप्रमाणेन, अवधृतः- निश्चितः, प्रमाणान्तरावधृतः, कारणभावः- कारणत्वं यस्य स प्रमाणान्तरावधृतकारणभावस्तेन प्रतिबन्धकाभावेनैव तत्त्वज्ञान प्रति कर्मणोऽन्यथासिद्धरित्यर्थः / यदि व्यापारेण व्यापारिणोऽन्यथासिद्धिस्तदाऽपूर्वेण यागस्यान्यथासिद्धिः स्यादित्याशय प्रतिक्षिपतिन चेति / एवं व्यापारेण व्यापारिणोऽन्यथासिद्धरुपगमे / निषेधहेतुमाह- तस्येति-अपूर्वस्येत्यर्थः / यागेति-दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुत्या यो दर्शपूर्णमासादियागस्य स्वर्ग प्रति कारणत्वग्रहस्तदुत्तरकाले अपूर्वमन्तरेण यागस्य चिरध्वस्तस्य स्वर्ग प्रति कारणत्वमनुपपन्नमित्यनुपपत्तिप्रतिसन्धानत: करप्यत्वेनोपजीव्यं यद् यागस्य स्वर्ग प्रति कारणत्वं तस्याविरोधित्वादित्यर्थः / इह तु तत्त्वज्ञानस्थले तु / प्रागेव कर्मकारणत्वाहतः पूर्वमेव / अवधारणात निश्चयात् / इति विशेषात् एवम्भूतविशेषस्य सद्भावादपूर्वेण यागादेन न्यथासिद्धिः दुरितनिवृत्त्या च कर्मणोऽन्यथासिद्धिः स्यादेवेत्यर्थः / अत एवेत्यस्येति सिद्धान्त इत्यनेनान्वयः, अत एव-सिद्धकारणभावेन व्यापारेण व्यापारिणोऽन्यथासिद्धत्वादेव / मालेति- मालस्य समाप्तिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वं कारीरीयागस्य वृष्टिप्रतिबन्धकदुरितनिवृत्तिमात्रफलकत्वम्, मात्रपदेन समाप्तिफलकत्व-वृष्टिफलकत्वयोर्यवच्छेदः / यदि मङ्गलात् समाप्तिन भवति कारीरीयागाद् वृष्टिश्च न भवति तर्हि समाप्तिी कुतो भवत इत्यपेक्षायामाह-वृष्टि-समाप्ती त्विति / तत्त्वज्ञानमेव मोक्षसाधनं कर्माणि तु तत्रान्यथा

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282