Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 236
________________ मयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलतो नवोपदेशः। शक्युद्धोधादिरूपकार्यदर्शनान्यथानुपपत्त्या कल्पनीयमित्यादि व्यवस्थापितं द्वात्रिंशिकाप्रकरणादाव. स्माभिः / उक्तविभागाय प्रत्येकजन्यतावच्छेदकजातिभेदस्वीकारे तूभयजन्ये साकुर्यम् , तत्रापि जात्यन्तरस्वीकारे तूभयसमाजे प्रत्येककार्यापत्तिवारणायैककार्येऽपराभावादिसहभावत्वकल्पने महागौरवम् , अथ देवमात्रजन्यमेतत् कार्यमित्यत्र दैवातिरिक्तोत्कटव्यापाराजन्यमित्यर्थे भवदभिमते प्रतिप्रतियोगिसिद्ध्यसिद्धिभ्यां व्याघातः इति चेत् ? न- उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना दैवातिरिक्तजन्य. स्वाभावस्यैव तदर्थत्वात् , तदिदमभिप्रेत्योकं हरिभद्रसूरिभिःनीयमित्यपेक्षायामाह- स्वल्प-बहुव्यापारवत्त्वं चेति- यस्य चानुत्कटशक्त्युद्वोधादिरूपकार्यस्य दर्शनं तस्य च तादृशकार्यदर्शनान्यथानुपपत्त्या स्वल्पव्यापारवत्त्वं यस्य पुनरुत्कटशक्त्यबोधादिरूपकार्यस्य दर्शनं तस्य पुनस्तादृशकार्यदर्शनान्यथा. नुपपत्त्या बहुव्यापारवत्त्वमित्येवं तत्कल्पनं नाप्रमाणिकमित्यर्थः / अत्र विशेषावगमार्थिभिरस्मदुपज्ञद्वात्रिंशिकाप्रकरणादिक. मवलोकनीयमित्युपदेशाभिप्रायवान् प्रन्थकृदाह- इत्यादि व्यवस्थापितमिति / प्रकारान्तरेण तद्विभागस्यायुक्तत्वमावे. दयति-उक्तविभागायेति- किञ्चित् कार्य दैवजन्यमेव किञ्चित् कार्य पुरुषकारजन्यमेवेति विभागार्थमित्यर्थः / प्रत्येकजन्यतावच्छेदकजातिमेदस्वीकारे दैवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरन्या, अन्या च पुरुषकारनिष्ठजनकतानिरूपितजन्यतावच्छेदिका आतिरिति स्वीकारे / तथास्वीकारे यत्र कार्ये देवनिष्ठकारणतानिरूपितकार्यतावच्छेदिका. जातिरेव तत् कार्य- देवजन्यमेव, यस्मिन् कार्ये पुरुषकारनिष्ठकारणतानिरूपितकार्यतावच्छेदिका जातिरेव तत् कार्य पुरुषकारजन्यमेव, यत्र तु निरुक्तजातिद्वयमप्यस्ति तत् कार्य देवपुरुषकारोभयजन्यमित्येवं विभागस्य सम्भवेऽपि निरुक्तजात्योः सार्य दुर्वारम् , तयोः परस्परात्यन्ताभावसामानाधिकरण्यस्यैकैकमात्रजन्ये सामानाधिकरण्यस्य चोभयजन्ये सद्भावादित्याहउभयजन्ये सायमिति / ननु प्रत्येकजन्यतावच्छेदकजातिद्वयादन्यैव जातिरुभयजन्येति न स्यात् सायमित्यत आह-तत्रापीति- उभयजन्येऽपीत्यर्थः / जात्यन्तरस्वीकारे प्रत्येककार्यमात्रवृत्तिप्रत्येकजन्यतावच्छेदकजातिद्वयभिन्नजातिस्वीकारे / तु पुनः। उभयसमाजे देवपुरुषकारोभयसमवधाने / प्रत्येककार्यापत्तिवारणाय देवमात्रजन्यकार्यस्य पुरुष कारमात्रजन्यकार्यस्य चोत्पत्तिवारणाय / देवमात्रजन्यकार्य प्रति दैवं कारणमिति दैवरूपकारणतस्तन्मात्रजन्यं कार्यमुत्पद्येत, एवं पुरुषकारमात्रजन्यकार्य प्रति पुरुषकारः कारणमिति पुरुषकाररूपकारणतः पुरुषकारमात्रजन्यं कार्यमुत्पद्येत, सम्भृतसामग्रीकत्वादित्येककार्ये एकमात्रजन्यकारे, अपराभावादिसहभावत्वकल्पने यन्मात्रजन्यं कार्य तदन्यकारणाभावादेस्तत्सहकारित्वकल्पने / एवं च नोभयसमाजस्थले प्रत्येकमात्रजन्यकार्योत्पत्तिः, यतस्तत्रापरकारणाभावरूपसहकारिणोऽ. भावात् , यथा दैव-पुरुषकारोभयसमाजे देवमात्रजन्यकायें अपरस्य पुरुषकारस्य पुरुषकारमात्रजन्यकारणस्याभावोऽपि सहकारिविधया कारणमिति तदभावान देवमात्रजन्यकार्योत्पत्त्यापत्तिः, किन्तु तथाकल्पने महागौरवं स्यादतस्तथाकल्पनं न युक्त मिति भावः / शङ्कते- अथेति। "प्रतिप्रतियोगि" इत्यस्य स्थाने “सति प्रतियोगि" इति पाठो युक्तः / प्रतियोगिसिद्धयसिद्धिभ्यां व्याघात इति- देवातिरिक्कोत्कटव्यापाराजन्यमिति दैवातिरिक्तोत्कटव्यापारजन्यत्वाभाववदिति पर्यवसितरूपं तत्रोक्ताभावस्य प्रतियोगिनो दैवातिरिक्कोत्कटव्यापारजन्यत्वस्य यदि सिद्धिस्तदा दैवजन्ये देवातिरिकोत्कटव्यापारजन्यत्वस्य सद्भावान्न तत्र तदभाव इति दैवातिरिकोत्कटव्यापाराजन्यमिति व्याहन्यते, अथ देवातिरिकोत्कटव्यापारजन्यत्वस्य न सिद्धिस्तदा देवातिरिक्तोत्कटव्यापारजन्यत्वरूपप्रतियोगिनोऽसिद्धचा तदभावस्याप्यसिद्धिरिति तद्वदपि न किञ्चित् सम्भवती. स्येवमपि देवातिरिक्तोत्कटव्यापारजन्यमिति व्याहन्यत इत्यर्थः / समाधत्ते-नेति / "उत्कटव्यापारसम्बन्धावच्छिन्नप्रतियोगिना" इत्यस्य स्थाने " उत्कटव्यापारसम्बन्धावच्छिन्नजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेन" इति पाठः समीचीनः / एवं च कार्यतावच्छेदेन दैव-पुरुष हारयोः कारणत्वे यद् देवमात्रजन्यतयाऽभिमतं तदपि पुरुषकारजन्य भवत्येव, किन्तु तत्र पुरुषकारजन्यत्वमनुत्कटव्यापारसम्बन्धावच्छिन्नपुरुषकारनिष्ठजनकतानिरूपितजन्यत्वप्रतियोगिकस्वरूपसम्बन्धेनैवेति तत्र देवातिरिक्तजन्यत्वस्योत्कटव्यापारसम्बन्धावच्छिन्न कारणतानिरूपितकार्यताप्रतियोगिकस्वरूपसम्बन्धो व्यधिकरण इति न तेन सम्बन्धेन निरुक्तजन्यत्वं कुत्रापीति तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्य दैवातिरिक्तजन्यत्वाभावस्म

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282