Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 243
________________ 383 गयावततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नवोपदेशः। कालनियम्यत्वात् 1, कालत इत्यस्य स्थाने ईश्वरत इति वदत ईश्वरवादिनो द्वितीयो विकल्पः, ईश्वरस्य सर्वनियन्तृत्वेन आत्मसत्ताया अपि तन्नियम(म्य )त्वात् 2, ईश्वरत इत्यस्य स्थाने आत्मत इति कुर्वत आत्मवादिनस्तृतीयः, स्वसत्तायाः स्वनियम्यताया अनन्यगत्यैव स्वीकारात् 3, नियतित इति करणे चतुर्थविकल्पो नियतिवादिनः 4, स्वभावत इति करणे पश्च विकल्पाः स्वभाववादिनः 5, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पश्च एव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश. विकल्पाः 10 एवमनित्यत्वेनापि दशैव 20 / एते विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् , अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं 180 क्रियावादिनामिति / अक्रियावादिनां च भवन्ति चतुरशीतिभेदाः, नहि कस्यचिवस्थितस्य पदार्थस्य क्रिया समस्ति क्रियो. त्पत्त्याधारत्वेनाभिमत एव काले पदार्थावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः, तथा चाहुरेके"क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया ? / भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते // 1 // " _] इत्यादि / स्तित्ववानित्याकारकः कालतो नित्यः स्वतोऽस्ति जीव इति प्रथमोऽभिलाप इति / कालत इत्यस्येति स्पष्टम् / तत्र नित्य आत्मेश्वरनियम्यत्वासाधारणात्मत्वाचवच्छिन्नस्वसत्तारूपास्तित्ववानित्याकारो बोध्यः। कथमात्मनः सत्तेश्वरनियम्येत्यपेक्षायामाह-ईश्वरस्येति / तन्नियम्यत्वाद ईश्वरनियम्यत्वात् / तृतीयविकल्पस्वरूपमुपदर्शयति- ईश्वरत इत्यस्येति / अनन्यगत्यैवेति- परनियम्यत्वे नियामकस्यापि परस्य सत्ता परनियम्येत्येवमनवस्थाप्रसङ्गात् , तत्परिहारेऽन्यप्रकारो नास्तीत्यात्मनियम्यत्व एव स परिहृतो भवतीत्येवमनन्यगत्यैवेत्यर्थः / चतुर्थविकल्पस्वरूपमुपदर्शयति- नियतित इति / करण इति- आत्मन इत्यस्य स्थाने नियतित इति करणे इत्यर्थः / पञ्चमविकल्पमुपदर्शयति-स्वभावत इति करणे. इति- नियतित इत्यस्य स्थाने स्वभावत इति करणे / एषु पञ्चसु विकल्पेषु स्वत इत्यस्य न परित्याग इत्याह- एवमिति / पश्च विकल्पाः अस्ति जीवः स्वतो नित्यः कालतः1, अस्ति जीवः स्वतो नित्य ईश्वरतः२, अस्ति जीवः स्वतो नित्य आत्मतः३, अस्ति जीवः स्वतो नित्यो नियतितः४, अस्ति जीवः स्वतो नित्यः स्वभावतः५, इत्येवं स्वत इत्यस्यापरित्यागेन पञ्च विकल्पाः। परत इत्यनेनापीति- अस्ति जीवः परतो नित्यः कालतः१, अस्ति जीवः परतो नित्य ईश्वरतः२, अस्ति जीवः परतो नित्य आत्मतः३, अस्ति जीवः परतो नित्यो नियतितः४, अस्ति जीवः परतो नित्यः स्वभावतः५, इत्येवं परत इत्यस्यापरित्यागेन पञ्चविकल्पा लभ्यन्ते इत्यर्थः / द्वयोर्मेलने दश विकल्पाः, सर्वत्र नित्यत्वस्यापरित्याग इत्याह- नित्यत्वापरित्यागेनेति / उक्तदिशा अनित्यत्वेनापि दश विकल्या इत्यतिदिशति- एवमिति- नित्यत्वस्थाने अनित्यत्वस्य प्रवेशोऽन्यत् सर्व समानमिति / नित्यत्वापरित्यागेन दशानां विकल्पानामनित्यत्वापरित्यागेन दशानां विकल्पानां मेलने विंशतिर्विकल्पा जीवपदार्थापरित्यागेन लब्धा इत्युपसंहरति - एते इति / प्रत्येकमजीवादिष्वप्यष्टपदार्थे. धूक्तदिशा विंशतिर्विकल्पानां नवगुणितानां च तेषामशीत्युत्तरं शतं क्रियावादिनामित्याह- अजीवादिष्वपीति / अक्रियावादिनां चतुरशीतिभेदानुपदर्शयितुमाह- अक्रियावादिनां चेति / अक्रियावादिनां स्वरूपं निरूपयति- नहीति- अस्य समस्तीत्यनेनान्वयः / अवस्थितस्य पदार्थस्य क्रिया नास्तीत्यत्र हेतुमुपदर्शयति-क्रियोत्पत्त्याधारत्वेनेति-प्रथमक्षणावस्थितस्य वस्तुनो यदि द्वितीयक्षणेऽवस्थितिर्भवेत् स्यात् तदा तत्र द्वितीयक्षणभाविनी क्रिया, न चैवम्, पदार्थानां क्षणमात्रस्थायित्वेन द्वितीयक्षणे स्थितेरेवाभावादित्यर्थः / उतार्थाभ्युपगन्तणां मतं तद्वचनेनैव प्रकटयति-तथा चाहरेके इति / क्षणिका इति- सर्वसंस्काराः सर्वेऽपि पदार्थाः, क्षणिकाः क्षणमात्रस्थायिनः, एवं च अस्थितानां द्वितीयादिक्षणेऽनवस्थितानां, क्रिया द्वितीयादिक्षणभाविनी क्रिया, कुतः कस्मात् कारणात्, न कस्मादपीति यावत् , भवनादिलक्षणा तु क्रिया क्षणिकानामपि समस्तीति न तस्याः प्रतिषेध इत्याशयेनाह-भूतिरिति- एषां क्षणिकानां पदार्थानां या भूतिर्भवनमुत्पत्तिरिति यावत्, सैव क्रिया, एवकारेण भवनातिरिक्तक्रियाया प्रतिषेधः, कारकमव्यवहितोत्तरक्षणभाविकार्य प्रति कारकं करणक्रिया, सव भूतिरेव, चः समुच्चये, क्रियान्तराणामपि प्रथमक्षणभाविनां भवनक्रियारूपता

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282