Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 257
________________ नपावततरक्षिणी-सरक्षिणीतरणिभ्या समतो गयोपदेशः। " स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः / स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः // " विष्णुपुराणेऽप्युक्तम् " तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैनरैः / तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ! // " हारीत " उभाभ्यामपि पक्षाभ्यां यथा खे पक्षिणां गतिः। तथैव ज्ञान-कर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् // " श्रुतिश्च-" सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण // " एतन्मूलकमेव . ] इति, " परिज्ञानाद् भवेन्मुक्तिरेतदालक्षणं परम् / कार्य(य)क्लेशभयाच्चैव कर्म नेच्छन्ति पण्डिताः॥१॥ ज्ञानं प्रधानं न तु कर्महीनं, कर्मप्रधानं न तु बुद्धिहीनम् / तस्माद् द्वयोरेव भवेत् प्रसिद्धिर्नझेकपक्षो विहगः प्रयाति // 2 // "[ ____] इत्यादि / न च काम्य-निषिद्धनैमित्तकाभ्यां कर्मभ्यां न समुच्चयः तयोस्त्यागात्, न निमित्तिकनित्येन, एकैकशो व्यभिचारात्, साकल्येनासम्भवात्, नापि यत्याश्रमविहितेन / ... " न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः / श्राद्धकृत् सत्यवादी च गृहस्थोऽपि विमुच्यते // 1 // " तत्र च नैमित्तिकानमित्ति तत्प्राप्तये मोक्षप्राप्त्यर्थम् , मोक्षश्च परमानन्दस्वरूपं ब्रह्मैव, तस्य पूर्वमपि सत्त्वात् तदुत्पत्तये इत्यनुक्त्वा तत्प्राप्तये इत्युक्तम् / तत्प्राप्तिहेतुः मोक्षप्राप्तिसाधनम् / हारीतवचनमपि समुच्चये प्रमाणमित्याह- हारीत इति / सत्येनेत्यादि स्पष्टम / एतन्मलकमेव तत्त्वज्ञान-कर्मसमुच्चयमोक्षकारणत्वप्रतिपादकोपदर्शितप्रमाणमूलकमेव / "रेतदालक्षणं" इत्यस्य स्थाने " रेतदालस्यलक्षणं" इति पाठो भवितुमर्हति / “कार्य" इत्यस्य स्थाने " काय" इति पाठो युक्तः / द्वयोरेव ज्ञान-कर्मणोरुभयोरपि, एवकारस्याप्यर्थकत्वात् , अथवाऽस्तु व्यवच्छेदार्थक एवैवकारः, तेन ज्ञानमात्रस्य कर्ममात्रस्य च व्यवच्छेदः / न चेत्यस्य वाच्यमित्यनेनान्वयः। काम्येति-काम्यं च निषिद्धनैमित्तिकं च काम्यनिषिद्धनैमित्तिके, ताभ्यां काम्यनिषिद्ध-नैमित्तिकाभ्यां कर्मभ्यां सह ज्ञानस्य न समुच्चय इत्यर्थः। तत्र हेतुः-तयोस्त्यागादितिकाम्य-निषिद्धनैमितिककर्मणोः संन्यासिना परित्यागादित्यर्थः / “न निमित्तिकनित्येन" अस्य स्थाने "न नैमित्तिकनित्ये" इति पाठो युक्तः, नैमित्तिकं च तन्नित्यं च नैमित्तिकनित्यं तेन नैमित्तिकनित्येन सह तत्त्वज्ञानस्य समुच्चयोऽपि न युक्त इत्यर्थः / नैमित्तिकनित्यकर्मणामनेकविधत्वेन तत्रैकनैमित्तिकनित्यकर्मणो यत्याश्रमविहितस्य सहकारेऽपि तत्त्वज्ञानतो मुक्केरनुदयनान्वयव्यभिचारस्य यत्याश्रमविहितयत्किञ्चिन्नैमित्तिकनित्यसहकृततत्त्वज्ञानस्याप्यभावेऽपि तदन्ययत्किश्चिनैमित्तिकनित्यसहकृततत्त्वज्ञानतो मुक्तर्भावेन तत्तनैमित्तिकनित्यकर्मसहकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वे प्रत्येकं व्यतिरेकव्यभिचारस्य सद्भावादिति निषेधहेतुमुपन्यस्यति- एककैकशो व्यभिचारादिति / सकलनैमित्तिकनित्यकर्मसहकृततत्त्वज्ञानस्य मुक्ति प्रति कारणत्वं तु सकलनैमित्तिककर्मणामेकदाऽसम्भवेन तत्सहकारस्यापि तत्त्वज्ञानेऽसम्भवादेव न सम्भवतीत्याहसाकल्येनासम्भवादिति / यत्याश्रमविहितेन कर्मणा समुच्चयोऽपि तत्त्वज्ञानस्य न सम्भवति गृहस्थस्यापि तत्त्वज्ञानतो मुक्तः सम्भवस्यागमे प्रतिपादिततया गृहस्थनिष्ठतत्त्वज्ञानस्य यत्याश्रमविहितकर्मसहकृतत्वाभावादित्याह-नापि यत्याश्रमः विहितेनेति / निषेधे हेतुमाह- न्यायागतधन इति- न्यायागतधन इत्यादि प्रथमान्तपञ्चकं गृहस्थोऽपी त्यस्य विशेषणम् , न्यायेनागतं धनं यस्य स न्यायागतधनो न्यायोपार्जितधनवानित्यर्थः, तत्त्वज्ञाने निष्ठा- श्रद्धा यस्य स तत्त्वज्ञाननिष्ठः, अतिथिः प्रियो यस्य सोऽतिथिप्रियः, यः कश्चिदतिथिः स्वगृहमागच्छति भक्त्या तस्मै यो भोज्यानपानाच्छादनवस्त्रादिदानेन स्वात्मानं कृतार्थ मन्यमान इति यावत् , देवपितृश्राद्धकारी श्राद्ध कृत्, सत्यं वदितुं शीलं यस्य स सत्यवादी, इति पञ्च

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282