Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ पावततरहिनी तरबिणीतरणिन्यो समतो मयोपोण। इत्यागमेन गृहस्थस्यापि मोक्षश्रवणात् , इत्युपपत्तिविरोधादेव न समुच्चय इति वाच्यम् , यत्राश्रमे यानि मोक्षहेतुतया विहितानि तैरेव तदाश्रमित्वज्ञानस्य समुच्चयोपपत्तेः, न च कर्मणां परस्परव्यभि. चारानिःश्रेयसे च स्वर्गाद् वैचित्र्याभावान्न तत् प्रति कारणत्वमिति वाच्यम् , स्वाभाविकविशेषविरहे. ऽपि प्रतियोगिभेदेन विशेषस्य निःश्रेयसेऽप्यविरोधात्, तत्तत्पुरुषीयमुमुक्षुविहितकर्मत्वेन तत्तत्पुरुषीयविजातीयदुःखध्वंसे हेतुत्वसम्भवात् , अवश्यं चाभावरूपे कार्य प्रतियोगिभेदेन विशेषोऽभ्युपेयः, कथमन्यथा आश्रयनाश-पाकयो रूपनाशकारणत्वमिति, न च ज्ञानस्य विहित्वाददृष्टजनकत्वेनादृष्टस्यैव प्राधान्यम् , न च रागाद्यभावाद् योगिनोऽदृष्टोत्पत्त्यसम्भवः, मुक्तिविरोध्यपूर्वोत्पत्तावेव रागादेः सहकारित्वात् , तावतैव मोक्षफलकविध्यनुपपत्तिपरिहारादिति वाच्यम् , शुकादितत्त्वज्ञानसाध्यतया क्लुप्तेन विशेषणविशिष्टो गृहस्थो गृहस्थाश्रमे वर्तमानोऽपि विमुच्यते- मुक्तो भवति / इत्यागमेन एवं- स्वरूपागमेन / इति एवंप्रकारेण / उपपत्तिविरोधादेव असमुच्चयसाधकयुक्तिततिविरोधादेव / निषेधे हेतुमुपदर्शयति- यत्राश्रम इति-"तेरेव तदाधमित्वज्ञानस्य" इत्यस्य स्थाने "तैरेव तदाश्रमितत्त्वज्ञानस्य" इति पाठो युक्तः, स्वस्वाश्रमविहितकर्मभिस्तत्तदा श्रमिणस्तत्त्वज्ञानस्य समुच्चयोपपत्तरित्यर्थः / नन्वेकस्य कर्मणोऽभावेऽपि कर्मान्तरेण मोक्षस्योत्पत्तेर्व्यभिचारेण न कर्मणां मोक्षं प्रति कारणत्वं सम्भवति, यथा स्वगें वैजात्यं समस्तीति विजातीयस्वर्ग प्रति यागविशेषस्य कारणत्वम्, तान्यविजातीय. स्वर्ग प्रति तद्यामान्ययागविशेषस्य कारणत्वम्, एवं तीर्थविशेषस्नानादेरपि तत्तद्विजातीयस्वर्ग प्रति कारणत्वमिति न तत्र व्यभिचारः, तथा मोक्षेऽपि यदि तत्तत्कर्मजन्ये वैजात्यं स्यात् तदा विजातीयमोक्षं प्रति तत्कर्मणः कारणत्वं तदन्यकर्मणस्तु तन्मोक्षगतवैजात्यभिन्नवैजात्याकलितमोक्षं प्रति कारणत्वमित्युपगमे व्यभिचारी न भवेत्, न चैवम् , मोक्षे दुःखध्वंसात्मकत्वेनाभावस्वरूपे वैजात्याभावादित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य घाच्यमित्यनेनान्वयः। तत् प्रति निःश्रेयसं प्रति / निषेधहेतुमुपदर्शयति-स्वाभाविकविशेषविरहेऽपीति- अभावात्मके मोक्षे अवान्तरजात्यात्मकस्वाभाविकविशेषस्याभावेऽपीत्यर्थः / दुःखध्वंसलक्षणस्य मोक्षस्य प्रतियोगिनो दुःखस्य वैजात्यसम्भवाद् विजातीयदुःखप्रतियोगिकत्वलक्षणविशेषस्य निःश्रेयसेऽप्यविशेष इत्याह-प्रतियोगिमेदेनेति / प्रतियोगिभेदेन निःश्रेयसे विशेषस्य सम्भवे विशिष्य कार्यकारणभावो यथा सम्भवति तथोपदर्शयति-तत्तत्पुरुषीयेति / कार्यकारणभावोपपादनाय प्रतियोगिभेदप्रयुक्तस्याभाव विशेषस्यावश्याभ्युपगन्तव्यत्वं दर्शयति- अवश्यं चेति- अस्याभ्युपगन्तव्यं इत्यनेनान्वयः / कथमित्यस्य रूपनाशकारणत्वमित्यनेनान्वयः / अन्यथा अभावे विशेषानभ्युपगमे, आश्रयनाशादपि रूपस्य नाशः, पाकादपि रूपस्य नाशः, तथा चाश्रयनाशाभावेऽपि रूपनाशस्य भावेन ब्यभिचारेण रूपनाशस्य कारणत्वं न भवेत्, एवं पाका भावेऽपि रूपनाश आश्रयनाशाद् भवतीति व्यभिचारेण पाकस्य कारणत्वं न स्यात् , अभाव विशेषाभ्युपगमे तु विलक्षणरूपनाशं प्रति आश्रयनाशत्वेन कारणत्वम् , तद्विलक्षणरूपनाशं प्रति पाकत्वेन कारणत्वमित्येवं कार्यकारणभावः सम्भवतीत्यर्थः / न चेत्यस्य वाच्यमित्यनेनान्वयः, यद् विहितं तददृष्टद्वारा कार्यजनकं यथा दर्शपूर्णमासादिकं विहितमतस्तदप्यदृष्टद्वारैव मोक्षजनकमिति तत्त्वज्ञानस्य विहितमदृष्टद्वारा स्वर्गात्मककार्यजनकं, तत्त्वज्ञानं च विहितत्वाद् द्वारीभूतादृष्टजनकत्वेनादृष्टस्यैव प्राधान्यं स्यादित्यर्थः / उकाशङ्कायाः प्रतिविधानमाशङ्कय प्रतिक्षिपति-न चेति- तत्त्वज्ञानं योगिन एव भवति, तत्र च रागादिकं नास्ति, रागादिकं चादृष्टस्य कारणमिति रागादिरूपकारणाभावान्न तत्रादृष्टमुत्पद्यते, ततश्च विहितत्वमप्रयोजकस्वान तत्त्वज्ञानस्यादृष्टजनकत्वसाधनायालमित्यदृष्टस्याभावान्न तस्य मोक्षजनकत्वमिति न तस्य प्राधान्यमिति न चेत्यर्थः / तत्र हेतुमाह-मुक्तीति- मुक्तिविरोधि यदपूर्वमदृष्टं तदुत्पत्तावेव रागादेः सहकारिविधया कारणत्वात् तत्त्व. शानाद् यददृष्टं भवति तन्मोक्षानुकूलमेव न तु मोक्षविरोधीति तदुत्पत्तौ न रागादिकं कारणमिति तदभावेऽपि योगिन्यइष्टोत्पत्तिः सम्भवतीत्यदृष्टस्य प्राधान्यं स्यादेवेत्यर्थः। तावतैव अदृष्टस्य कारणत्वेनैव मोक्षफलकतत्त्वज्ञानविधेरनुपपत्तिविरहादित्यर्थः / उक्ताशङ्काप्रतिक्षेपहेतुमुपदर्शयति-शुकादीति-शुको व्यासपुत्रस्तस्य तत्वज्ञानान्मिध्याध्वंसादेव मुक्तिरिति

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282