Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 375 नादिकार्यता(कारणता )स्वाव्यवहितोचरानुमिति त्व-मोक्षत्वादिना / किञ्च, धारावाहिस्थले कार्यककस्पनिरासाय तत्तत्क्षणत्वेन कालस्य कारणताऽवश्यं वाच्या, पूर्वपूर्वघटज्ञानानां घटत्वरूपविशेषणज्ञानत्वे. नोत्तरघटज्ञानहेतुतया तत्र कार्य कालस्य निराकर्तुमशक्यत्वात् , एकज्ञानकाले द्वितीयादिसकलोत्पत्तेदुर्वारत्वात् / तथा कार्यैकदेश्यनिरासाय तत्तद्देशी[य]कारणताप्यवश्यं वाच्या, कथमन्यथा इह सामग्रीसमवधानादेतद्घटोत्पत्तिर्न स्यात्, इत्ययं कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभाव-नियत्योापारोऽवश्यं प्रतिपत्तव्यः, सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभाव-नियतिहेतुतायाश्च तस्य चैवं सङ्गमनं- यथैकघटादावेकदैवोत्पन्नानां पाकजरूप-रस-गन्ध-स्पर्शानां मध्ये यदेव घटायेकस्य समवायिकारणं तदेवापरस्यापि, य एव च तेजस्संयोगविशेषलक्षणपाक एकस्यासमवायि कारणं स एवापरस्यापीत्येवं समवायिकारणा-ऽसमवायिकारणात्मककारणभेदाभावेऽपि रूपप्रागभावादीनां निमित्तकारणानां भेदाद् रूप-रस-गन्ध-स्पर्शात्मककार्याणां भेदः, तथा धारावाहिकस्थलेऽपि पूर्वोत्तरक्रमेणोत्पन्नानां ज्ञानानां प्रागभावलक्षणनिमित्तकारणभेदाद् भेदः सम्भवेदपि, किन्तु पाकजानां भिन्नप्रागभावलक्षणकारणप्रभवाणां युगपदेवोत्पत्तेर्भावाद् यथैककालत्वं तथा भिन्नप्रागभावलक्षणकारणप्रभवाणां धारावाहिकझानानामपि युगपदुत्पत्तिप्रसङ्गत एक कालत्वमापाद्यतेत्यतस्तद्वारणायेत्यर्थः / तत्तत्क्षणत्वेनेति- तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्वतत्तत्क्षणत्वेन कालस्य कारणत्वम् , तथा च कारणीभूतानां तत्तत्क्षणानामेकदाऽसतां कालैकत्वाभावात् तत्कार्याणामपि ज्ञानानां नैककालत्वमित्यर्थः / पूर्वपूर्वघटज्ञानानामिति- पूर्वपूर्वघटज्ञानानामुत्तरोत्तरघटज्ञानानि प्रति यः कार्यकारणभावः स तत्तद्धटज्ञानं प्रति तत्तद्धटज्ञानाव्यवहितपूर्ववर्तितत्तद्घटज्ञानत्वेन तत्तद्धटज्ञानं कारणमित्येवं न किन्तु विशिष्टबुद्धि प्रति : विशेषणज्ञानं कारणमिति सामान्यकार्यकारणभावस्य क्लुप्तत्वेन तदनुरोधेन घटत्वप्रकारकत्वेन घटत्वविशिष्टबुद्धिरूपतयोत्तरोत्तर ज्ञानं प्रति पूर्वपूर्वघट ज्ञानानां घटत्वात्मकविशेषणविषयकत्वेन विशेषणबुद्धिरूपतयेति घटज्ञानं प्रति घटत्वज्ञानत्वेन घटज्ञानमित्येव कार्यकारणभाव इति तादृश हेतुतया कार्यककालत्वस्य निराकर्तुमशक्यत्वादित्यर्थः / “कार्ये कालस्य" इत्यस्य स्थाने " कार्यककालत्वस्य" इति पाठो युक्तः। एवं च सति यदापद्यते तदुपदर्शयति- एकज्ञानकाल इतिपूर्वज्ञानोत्पत्त्यव्यवहितपूर्वकाले यथा पूर्वज्ञानस्य प्रागभावस्तथा द्वितीय-तृतीयादिक्षणभाविनां धारावाहिकशानानामशेषाणामपि प्रागभावाः सन्ति, चक्षुर्घटसंयोगादिकं कारणान्तरमपि विद्यत इति सम्भृतसामग्रीत्वादेकज्ञानोत्पत्तिकाल एवं द्वितीयादि. सकलज्ञानोत्पत्त्यापत्तेर्धारावाहिकत्वमेव भज्यतेत्यतस्तत्तत्क्षणत्वेन कालस्य तत्तज्ज्ञानं प्रति हेतुता कार्यककालत्वपरिहारायाऽऽवश्यकीत्यर्थः / एवं कार्यैकदेशत्वपरिहाराय तत्तद्देशीयतत्तद्धटादिकं प्रति तत्तद्देशत्वेन देशस्यापि कारणत्वमावश्यकमित्याहतथेति / कार्यकदेश्यनिरासाय कार्यकदेशत्वपरिहाराय / तत्तद्देशीयेति-तत्तद्देशनिष्ठेत्यर्थः / कथमित्यस्य न स्यादित्यनेनान्वयः / अन्यथा तत्तद्देशीयघटं प्रति तत्तद्देशत्वेन देशस्य कारणत्वाभावे / इति एवंस्वरूपः / अयं प्रतिनियतकाल-देशयोः प्रतिनियत कार्ये व्यापारः / कालधर्मानुप्रवेशेन तत्तत्क्षणाव्यववहितोत्तरजायमानतत्तघटत्वरूपकार्यतावच्छेदकशरीरे तत्तत्क्षणत्वरूपकालधर्मस्यानुप्रवेशेन / ऋजुसूत्रनयेन उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य कारणत्वमित्यभ्युपगन्तृऋजुसूत्रनयेन, स्वभाव-नियत्योापार इत्यत्रैवायमिति पूर्वोक्तोऽन्वेति / ऋजुसूत्रनयेन स्वभाव-नियतिहेतुताप्रवादसमर्थनं कृत्वा सङ्कहनयेन तत्समर्थनमावेदयति-सामान्यत इति-कार्यत्वावच्छिन्नं प्रति कालत्वेन कालस्य हेतुताया इत्यर्थः, अस्य प्रवादस्येत्यनेनान्वयः / प्रागभावेति-प्रागभावविधया स्वभावहेतुतायाः समवायिकारणविषया नियतिहेतुताया इत्येवमन्वयोऽत्र, एतत्कालान्तरमेवानेनोत्पत्तव्यमिति स्वभावहेतुता प्रागभावकारणतावलम्बनेन प्रवृत्ता, कपाले एव घटेनोत्पत्तव्यं तन्तुष्वेव पटेनोत्पत्तव्यमिति नियतिहेतुता समवायिकारणहेतुतावलम्बनेन प्रवृत्ता, कार्यमा प्रति प्रागभावस्य कारणत्वं भावकार्यसामान्य प्रति समवायिकारणस्य कारणत्वमिति पर्यवसितः स्वभाव-नियतिहेतुताप्रवाद इति बोध्यम् / सङ्कहनयाभिप्रायेणैवेति- कालत्वेन कालमात्रस्य प्रागभावत्वेन प्रागमावमात्रस्य समवायिकारणत्वेन समवायिकारण'मात्रस्य कार्यत्वेन कार्यमात्रस्य सङ्ग्रहणं सङ्ग्रहणनयाभिप्रायेण सम्भवति नान्यनयाभिप्रायेणेत्यन्यनयाभिप्रायव्यवच्छेदायैवकारोपादानम् , एवम्भूतनयाभिप्रायेण तथाभव्यत्वमेव तत्तत्कार्यजनकमिति निगमयति-तथा चेति- ऋजुसूत्रनयाभिप्रायेण तत्तत्क्षणत्वेन तत्तत्कार्य प्रति कारणत्वस्य सङ्कहनयाभिप्रायेण सामान्यतः कालत्वादिना हेतुत्वस्य व्यवस्थितौ चेत्यर्थः /

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282